TB 1.8.8

5 पञ्चाशत्

॥

1.8.8 अनुवाकं 8 - अभिषेचनीये साममन्त्रविशेषः

1.8.8.1
उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति । वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जानाꣳ॑ सूयते । सर्वा॑ एनं प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒ त्यं दश॒क्षिप॒ इत्या॑ह । आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा ए॒ते य॑ज्ञ्मु॒खात् । ये स॑म्भा॒र्या॑ अक्रन्न्॑
▶ कोर्वै (Index)
(अक्र॑न् - राज॒न्यो॑ - भव॑न्ति - दश॒पेयो॑ - माद्ये॒त् त्रीणि॑ च)
1.8.8.2
यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञ्मु॒खान्-नय॑न्ति । अ॒नु॒ष्टुक्-प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टु-गु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति । उद्व॑तीर्-भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् । आनु॑ष्टुभो राज॒न्यः॑
▶ कोर्वै (Index)
(अक्र॑न् - राज॒न्यो॑ - भव॑न्ति - दश॒पेयो॑ - माद्ये॒त् त्रीणि॑ च)
1.8.8.3
तस्मा॒दुद्व॑तीर्-भवन्ति । सौ॒र्य॑नु॒ष्टु-गु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै । यो वै स॒वादेति॑ । नैनꣳ॑ स॒व उप॑नमति । यः साम॑भ्य॒ एति॑ । पापी॑यान्थ्-सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति
▶ कोर्वै (Index)
(अक्र॑न् - राज॒न्यो॑ - भव॑न्ति - दश॒पेयो॑ - माद्ये॒त् त्रीणि॑ च)
1.8.8.4
तैरे॒व स॒वान्नैति॑ । यानि॑ देवरा॒जानाꣳ॒॒ सामा॑नि । तैर॒मुष्मि॑न् ॅलो॒क ऋ॑द्ध्नोति । यानि॑ मनुष्यरा॒जानाꣳ॒॒ सामा॑नि । तैर॒स्मिन् ॅलो॒क ऋ॑द्ध्नोति । उ॒भयो॑रे॒व लो॒कयोर्॑.-ऋद्ध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ । ए॒क॒विꣳ॒॒शो॑ ऽभिषेच॒नीय॑-स्योत्त॒मो भ॑वति । ए॒क॒विꣳ॒॒शः के॑शवप॒नीय॑स्य प्रथ॒मः । स॒प्त॒द॒शो द॑श॒पेयः॑
▶ कोर्वै (Index)
(अक्र॑न् - राज॒न्यो॑ - भव॑न्ति - दश॒पेयो॑ - माद्ये॒त् त्रीणि॑ च)
1.8.8.5
विड्वा ए॑कविꣳ॒॒शः । रा॒ष्ट्रꣳ स॑प्तद॒शः । विश॑ ए॒वैतन्-म॑द्ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शां प्रि॒यः । वि॒शो हि म॑द्ध्य॒तो॑ऽभिषि॒च्यते᳚ । यद्वा ए॑नम॒दो दिशोऽनु॑ व्यास्था॒पय॑न्ति । तथ्-सु॑व॒र्गं ॅलो॒क-म॒भ्यारो॑हति । यदि॒मं ॅलो॒कं न प्र॑त्यव॒रोहे᳚त् । अ॒ति॒ ज॒नं ॅवे॒यात् । उद्वा॑ माद्येत् ( ) । यदे॒ष प्र॑ती॒चीन॑-स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कं प्र॒त्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्य-नु॑न्मादाय ।
▶ कोर्वै (Index)
(अक्र॑न् - राज॒न्यो॑ - भव॑न्ति - दश॒पेयो॑ - माद्ये॒त् त्रीणि॑ च)