TB 3.11.3

1 पञ्चाशत्

॥

3.11.3 अनुवाकं 3 -चतुर्भिरनुवाकैः चतस्र आहुतीर्जुहोति

3.11.3.1
अग्ना॑विष्णू स॒जोष॑सा । इ॒मा व॑र्द्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नै र्वाजे॑भि॒-राग॑तं । राज्ञी॑ वि॒राज्ञी᳚ । स॒म्राज्ञी᳚ स्व॒राज्ञी᳚ । अ॒र्चिः शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्निः सोमो॒ बृह॒स्पतिः॑ ।विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते सर्वे॑ स॒ङ्गत्य॑ ( ) । इ॒दं मे॒ प्राव॑ता॒ वचः॑ । व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां । भूर्-भुव॒स्-स्व॑स् स्वाहा᳚ ।
▶ कोर्वै (Index)
(स॒ङ्गत्य॒ त्रीणि॑ च)