सक्षे॒दं प॑श्य । विध॑र्तरि॒दं प॑श्य । नाके॒दं प॑श्य । र॒मतिः॒ पनि॑ष्ठा । ऋ॒तं ॅवर्.षि॑ष्ठं । अ॒मृता॒ यान्या॒हुः । सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति । अन॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे ॥ दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ । तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑
कोर्वै (Index)
(ब्रह्म॑णो॒ योनि॒ - रꣳह॑सः - प॒ङ्क्तिं प्रप॑द्ये - दी॒क्षा - ययो॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒त - स्तया᳚ त्वा दी॒क्षया॑ दीक्षया॒म्योष॑धयो दी॒क्षा - द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षता॒ - मप॑चिति॒श्चा - क्षि॑ति॒ - रुत्त॑रस्मिन् - गमेयं॒ - दिशः॒ पाद॑ - आदि॒त्यव॑तीं - ॅवर्तय॒ पञ्च॑ च)