अनुवाकः 1 TS 1.8.1

(A1)

(अ॒ग्नी॒षो॒मीयं॒-चतु॑स्त्रिꣳशच्च)

अनुवाकः 1 - Complete Audio

TS 1.8.1 - स्वरानुगामी

0:00 0:00
PS1.1 अनु॑मत्यै पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर्व॑पति धे॒नुर्
PS1.2 दक्षि॑णा॒ ये प्र॒त्यञ्चः॒ शंॅया॑या
PS1.3 अव॒शीय॑न्ते॒ तं नैर्.ऋ॒त-मेक॑कपालं कृ॒ष्णं
PS1.4 ॅवासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा॒ वीहि॒
PS1.5 स्वाहाऽऽहु॑तिं जुषा॒ण ए॒ष ते॑
PS1.6 निर्.ऋते भा॒गो भूते॑ ह॒विष्म॑त्यसि
PS1.7 मु॒ञ्चेम-मꣳह॑सः॒ स्वाहा॒ नमो॒ य
PS1.8 इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं निर्व॑पति॒
PS1.9 वरो॒ दक्षि॑णाऽऽग्नावैष्ण॒व-मेका॑दशकपालं ॅवाम॒नो व॒ही
PS1.10 दक्षि॑णा ऽग्नीषो॒मीय॒
PS2.1 मेका॑दशकपालꣳ॒॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो व॒ही
PS2.2 दक्षि॑णाऽऽग्ने॒य-म॒ष्टाक॑पालमै॒न्द्रं दद्ध्यृ॑ष॒भो व॒ही दक्षि॑णैन्द्रा॒ग्नं
PS2.3 द्वाद॑शकपालं ॅवैश्वदे॒वं च॒रुं प्र॑थम॒जो
PS2.4 व॒थ्सो दक्षि॑णा सौ॒म्यꣳ श्या॑मा॒कं
PS2.5 च॒रुं ॅवासो॒ दक्षि॑णा॒ सर॑स्वत्यै
PS2.6 च॒रुꣳ सर॑स्वते च॒रुं मि॑थु॒नौ
PS2.7 गावौ॒ दक्षि॑णा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.8.1.1 TS 1.8.1.1
अनु॑मत्यै पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर्व॑पति धे॒नुर् दक्षि॑णा॒ ये प्र॒त्यञ्चः॒ शंॅया॑या अव॒शीय॑न्ते॒ तं नैर्.ऋ॒त-मेक॑कपालं कृ॒ष्णं ॅवासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा॒ वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण ए॒ष ते॑ निर्.ऋते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेम-मꣳह॑सः॒ स्वाहा॒ नमो॒ य इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं निर्व॑पति॒ वरो॒ दक्षि॑णाऽऽग्नावैष्ण॒व-मेका॑दशकपालं ॅवाम॒नो व॒ही दक्षि॑णा ऽग्नीषो॒मीय॒ - [ ]
▶ पदपाठः (Word-by-word)
अनु॑मत्या॒ इत्यनु॑-म॒त्यै॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒प॒ति॒ । धे॒नुः । दक्षि॑णा । ये । प्र॒त्यञ्चः॑ । शम्या॑याः । अ॒व॒शीय॑न्त॒ इत्य॑व - शीय॑न्ते । तम् । नै॒र्.॒ऋ॒तमिति॑ नैः - ऋ॒तम् । एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । कृ॒ष्णम् । वासः॑ । कृ॒ष्णतू॑ष॒मिति॑ कृ॒ष्ण-तू॒ष॒म् । दक्षि॑णा । वीति॑ । इ॒हि॒ । स्वाहा᳚ । आहु॑ति॒मित्या-हु॒ति॒म् । जु॒षा॒णः । ए॒षः । ते॒ । नि॒र्.॒ऋ॒त॒ इति॑ निः-ऋ॒ते॒ । भा॒गः । भूते᳚ । ह॒विष्म॑ती । अ॒सि॒ । मु॒ञ्च । इ॒मम् । अꣳह॑सः । स्वाहा᳚ । नमः॑ । यः । इ॒दम् । च॒कार॑ । आ॒दि॒त्यम् । च॒रुम् । निरिति॑ । व॒प॒ति॒ । वरः॑ । दक्षि॑णा । आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । वा॒म॒नः । व॒ही । दक्षि॑णा । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डऽष्टमः प्रपाठकः)।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिळं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥

प्रपाठकेऽथाष्टमेऽस्मिन्राजसूयो निगद्यते।

द्वाविंशत्यनुवाकेषु विंशत्या राजसूयके॥

अनेकानि प्रधानानि कर्माणि विहिनान्यथ।

द्वाभ्यां सौत्रामणीमन्त्राः काम्या याज्याश्च वर्णिताः॥

अष्टमे मन्त्रकाण्डस्थे कर्मणां बहुलत्वतः।

तत्तत्संनिधये प्रोक्ता मन्त्रा विधिपुरःसराः॥

अनूद्य तान्विधीनर्थवादो ब्राह्मण ईरितः।

संप्रदायविदोऽतोऽत्र ब्राह्मणद्वयमूचिरे॥

ब्राह्मणं मन्त्रकाण्डस्थविधिजातमितीरितम्।

अनुब्राह्मणमन्यत्तु कथितं सार्थवादकम्॥

तत्र प्रथमानुवाके प्रथमं तावद्ब्राह्मणेन कर्मद्वयं विधीयते-

अनुमत्या इति। चतुर्दशीमिश्रितायाः पौर्णमास्या अभिमानिदेवताऽनुमतिः। “अमावस्या सिनीवाली पौर्णमास्यनुमतिः” इति श्रुतेः। “कलाहीनसाऽनुमतिः पूर्णे राका निशाकरे” इत्यभिधानात्। सा चानुमतिरत्र देवता, पुरोडाशो द्रव्यमित्येतदेकं कर्म। दक्षिणाभिधानेन वक्ष्यमाणेभ्यः कर्मभ्यो भिन्नाधिकारावगमात्। अस्मिन्कर्मणि पुरोडाशार्थं तण्डुलेषु पिष्यमाणेषु पश्चिमायांदिशि दृषदमभ्याधातुमधः स्थापितायाः शम्यायाः पश्चाद्ये तण्डुलपिष्टलेशा अवशीयन्तेऽधः पतन्ति तल्लेशजातं द्रव्यं नितिदेवताकं, तदिदमपरं कर्म। पृथग्दक्षिणाभिधानात्। कृष्णं वासोऽत्र दक्षिणा। तच्च कृष्णतूषं कृष्णदशान्तम्। केषांचिद्वस्त्राणां वैचित्र्याय दशाभागमुपेक्ष्य मध्यमभाग एव काषायहरिद्रादिभी रज्जितो भवति तद्वन्मा भूदिति कृष्णतूषत्वेन विशेष्यते। एतस्मिन्मुख्ये ब्राह्मणे प्रधानं कर्म विहितम्। अनुब्राह्मणं तु ग्रन्थान्तरे प्रथमकाण्डे षष्ठसप्तमाष्टमप्रपाठकरूपम्।

तत्रं षष्ठप्रपाठकस्याऽऽदौ पूर्वोदाहृतं कर्मविधिमनूद्य प्रशंसति —

“अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति। ये प्रत्यञ्चः शम्याया अवशीयन्ते। वं नैतमेककपालम्। इयं वा अनुमतिः। इथं नितिः” (ब्रा. का.१ प्र.६ अ. १) इति।

भूमिर्द्विविधा। शालिगोधूमादिसर्वसस्याढ्या तदयोग्या वा। तत्राऽऽयभूमिरूपाऽनुमतिर्द्वितीयभूमिरूपा नितिः।

पश्चान्निरुप्तस्य नैतस्याऽऽनुमतादुत्तरकाले न्यायप्राप्तं प्रधानयागप्रचारं बाधितुं पूर्वकालं विधत्ते — “नैतेन पूर्वेण प्रचरति। पाप्पानमेव नैतिं पूर्वा निरवदयते” (ब्रा. का.१ प्र.६ अ. १) इति।

लोके रुग्णानां पुरुषाणामनिष्टं रोगं प्रथमं निर्वाय पश्चादिष्टा शरीरपुष्टिः संपाद्यते तद्वदत्रापि पाप्मानं प्रतिकूलां नैतिं प्रथमतो भागदानेन निवारयति।

विधिवाक्यगतं कपालैक्यमनूद्य प्रशंसति — “एककपालो भवति। एकधैव नैतिं निरवदयते” (ब्रा. का.१ प्र.६ अ. १) इति।

एकधैवैकेनैव प्रयत्नेन। कपालबाहुल्ये हि प्रयत्नबाहुल्यं प्रसज्येतेति। तत्त्विदमानुमतनैतिदकमन्वाररम्भणीयास्थानीयात्पवित्राख्यादग्निष्टोमादूर्घ्वमनुष्ठेयम्।.

तथाऽत्राऽऽपस्तम्ब आह — “राजा स्वर्गकामो राजसूयेन यजेत गवां शतसहस्त्रं दक्षिणाऽग्निष्टोमः पश्चापवर्गःप्रथममहःपञ्च सहस्त्राणि पवित्रे ददाति त्रिंशतमभिषेचनीये त्रिंशतं दशपेये दश केशवपनीये विंशतिं व्युष्टिद्विररात्रे पञ्च क्षत्र्त्रस्य घृतावपि वा चत्वार्यभिषेचनीये प्रतिसहस्त्राणीतराण्यहानि षष्टिं शतानि सहस्त्राणि ददातीति बह् वृचब्राह्मणं भवति। तथा दक्षिणा अतिनयेद्यथाऽस्याहानि समकालानि स्युः शेषमनुदिशति श्वोभूत आनुमतादिभिरष्टाभिरन्वहं यजेत पिंषन्नानुमतं पश्चादुत्तरश्च व्यवशातयति ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैतमेककपालमिति। अत्र चाऽऽनुमतमासाद्य नैतेन प्रचरति” इति।

बौधायनोऽप्येतदेव विशदयति —“राजसूयेन यक्ष्यमाणो भवति। पुरस्तात्फाल्गुन्यै पौर्णमास्यै चैत्र्यै वा पौर्णमास्या अमावस्येन हविषेष्ट्वा दीक्षते तस्य तिस्त्रो दीक्षास्तिस्त्र उपसदः सप्तम्यां प्रसूतः संतिष्ठत एव प्रायणीयोऽग्निष्ठोमश्चतुष्टोमः सहस्त्रदक्षिण उदवसानीयान्तोऽथाष्टमेऽह्न्यानुमतं निर्वपति हविः पेष्यै प्रयच्छन्नाह प्राचश्च प्रतीचश्च व्यवशातयेति” इति। “ये प्राञ्चः शम्याया अवशीयन्ते तानध्वर्युः समोप्य संयुत्याऽऽनुमतं श्रपयति। अथ ये प्रत्यञ्चः शम्याया अवशीयन्ते तान्प्रतिप्रस्थाता समोप्य संयुत्य नैतं श्रपयति” इति च।

वीहि स्वाहेति। प्रधानकर्ममात्राभिधायकेन मुख्यब्राह्मणेनोपेते प्रकृते मन्त्रकाण्डे नैतयागविधिसंनिधौ वीहीत्यादस्त्रयो मन्त्रा आम्नातास्येषां विनियोगं बौधायन आह — “गार्हपत्ये स्त्रुवाहुतिं जुहोति वीहि स्वाहाऽऽहुतिं जुषाण इति। अथ दक्षिणया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य स्वकृतमिरिणं स्पष्टं भवति प्रदरो वा तदेतदेकोल्मुकमुपसमाधायाङ्गुष्ठाभ्यां परिगृह्य नैतं जुहोति एव ते निते भागो भूते हविष्मत्यसि मुञ्चेममहसः स्वाहेति। अत्र कृष्णं वासः कृष्णतूषं निदधाति। अथापो व्यतिषिच्य परास्य पात्रं निदंधात्यनवेक्षमाणा आयन्त्यथ हस्तपादान्प्रक्षाल्वैतेनैव पथा यथेतमेत्य गार्हपत्ये सुवाहुतिं जुहोति स्वाहा नमो य इदं चकारेति। अथाऽऽनुमतेन सस्थां करोति धेनुं ददाति” इति।

हे गार्हपत्य स्वाहा तुभ्यं दत्तामाहुतिं जुषाणः सेवामानो वीहि दक्षिणां दिशं जिगमिषभिरस्माभिर्विगतो भव। माऽस्माननूत्याय बाधिष्ठाः।

कृत्स्नाङ्गविधायके सार्थवादेऽनुब्राह्मणे यथोक्ताहुतिविधिरन्वयव्यतिरेकाभ्यामुन्नियते —

“यदहुत्वा गार्हपत्य ईयुः (१) रुद्रो भूत्वाऽग्निरनूत्थाय। अध्वर्यु च यजमानं च हन्यात्। वीहि स्वाहाहुतिं जुषाण इत्याह। आहुत्यैवैन शमयति। नाऽऽर्तिमार्छत्यध्वर्यर्न यजमानः” (ब्रा. का.१ प्र. ६ अ.१) इति।

यद्यदि रुद्रः क्रूरदेवः। “रुद्रो वै क्रूरः” इति श्रुतेः। अध्वर्युयजमानयोरार्तिनिवारणाय जुहुयादित्यर्थः।

दक्षिणाग्नेरुल्मुकनयनं विधत्ते — “एकोल्मुकेन यन्ति। नद्धि नैत्यै भागधेयम्” (ब्रा. का.१ प्र. ६ अ.१) इति।

उल्मुकेन युक्ता इत्यध्याहारः। नैतेरेकोल्मुकप्रियत्वमर्थवादान्तरगतं हिशब्देन सूच्यते।

दक्षिणपश्चिमयोरवान्तरदेशमङ्गुलिनिर्देशेन विधत्ते — “इमां दिशं यन्ति। एषा वै नैत्यै दिक्। स्वायामेव दिशि नैतिंनिरवदयते (२)” (ब्रा. का.१ प्र. ६ अ.१) इति।

नीतस्योल्मुकस्य स्थापनाय देशविशेषं विधत्ते — “स्वकृत इरिणे जुहोति प्रदरे वा। एतद्वै नैत्या आयतनम्। स्व एवाऽऽयतने नैतिं निरवदयते” (ब्रा. का.१ प्र. ६ अ.१) इति।

इरिणमूषरक्षेत्रं, तच्च स्वकृतं स्वतःसिद्धं, न तु यतः कुताश्रिदादायोषाः प्रक्षिप्ताः। प्रदरः स्वतःसिद्धं भूछिद्रम्।

द्वितीयमन्त्रस्यायमर्थः — हे नैते पाप्यदेवते, एष एककपालपुरोडाशत्वद भागः। हे भूते स्वकीयभागे परितोषेणास्मदीयैश्वर्यहेतो त्वमिदानीं हविष्मत्यसि। अत इमं यजमानमंहसो दारिद्र्यप्रदात्पापान्मुञ्च। अत्र स्वाहाकारो बौधायनेनाध्याहृतः।

नैतिमुद्दिश्य प्रत्यक्षमेव भागं समर्थयितुमेतच्छब्द इत्यभिप्रेत्य व्याचष्टे —

“एष ते निते भाग इत्याह। निर्दिशत्येवैनाम्” (ब्रा. का.१ प्र. ६ अ.१) इति। भूतिशब्देन नितिपरामर्शस्याभिप्रायमाह — “भूते हविष्मत्यसीत्याह। भूतिमेवोपार्वतते” (ब्रा. का.१ प्र. ६ अ.१) इति। प्राप्नोतीत्यर्थः।

मन्त्रसामर्थ्यात्सर्वथा मुञ्चतीत्यमुमभिप्रायं दर्शयति — “मुञ्चेममहस इत्याह। अहस एवैन मुञ्चति” (ब्रा. का.१ प्र. ६ अ.१) इति। चोदकप्राप्तं जुह्वा होममपवदितुं विधत्ते — “अङ्गुष्टाभ्यां जुहोति (३)। अन्तत एव नितिं निरवदयते” (ब्रा. का.१ प्र. ६ अ.१) इति।

अन्तत एव हस्ताग्रेणैव नितिमपसारितवान्भवति।

मुख्यब्राह्मणे विहितां दश्रिणां प्रशंसति — “कृष्णं वासः कृष्णतूषं दक्षिणा। एतद्वै नित्यै रूपम्। रूपेणेव नितिं निरवदयते”(ब्रा. का.१ प्र. ६ अ.१) इति।

राक्षस जातेः पापरूपाया नितेर्देहः कृष्णवर्णः

पृष्ठभागदर्शनरहितं प्रत्यागमनं विधत्ते — “अप्रतीक्षमायन्ति। नित्या अन्तर्हित्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।अदर्शनायेत्यर्थः। तृतीयमन्त्रस्यायमर्थः — यो गार्हपत्य इदमस्माभिर्वीहीति शब्देन प्रार्थितमनुष्ठानं तथैव चकार, तस्मै स्वाहा हविर्दत्तं नमस्कारश्च कृतः। विधत्ते — “स्वाहा नमो य इदं चकोरति पुनरेत्य मार्हपत्ये जुहोति। आहुत्यैव नमस्यन्तो गार्हपत्येमुपावर्तन्ते” (ब्रा. का.१ प्र. ६ अ.१) इति।

नैतप्रचारादूर्ध्वे लब्वावसरस्याऽऽनुमतहविषः प्रचारं विधत्ते — “आनुमतेन प्रचरति। इयं वा अनुमतिः (४) । इयमेवास्मै राज्यमनुमन्यते” (ब्रा. का.१ प्र. ६ अ.१) इति।

सर्वसस्याढ्यायां भूमावयमनुमैतिशब्दोऽन्वर्थ इत्यभिप्रायः।

नवसूतिकाया गोर्दानं प्रशंसति — “धेनुर्दक्षिणा। इमामेव धेनुं कुरुते” (ब्रा. का.१ प्र. ६ अ.१) इति। इमामेवानुमतिरूपां भूमिमेव।

आनुमतादिभिररष्टामिऱिति यदुदाहृतं तत्रैकस्मिन्दिनेऽनुष्ठितादानुमतादन्यान्क्रमेण दिनान्तरेष्वनुष्ठेयानादित्यादीन्सप्त मुख्यान्यागान्विधत्ते — आदित्यं चरुमिति। गौर्वे वर इति सूत्रकारेणोदहृतत्वाद्वरो गौः। वही भारवाही बलीवर्दः। ऋषभः सेचनसमर्थः साण्डः आग्नेयैन्द्राभ्यां हविर्भ्यामुपेत एको यागः। ऐन्द्राग्नवैश्वदेवसौम्यैस्त्रिभिर्हविर्भिर्युक्त आग्रयणरूप एक एव यागः। सरस्वती —सरस्वद्देवताभ्यां हविर्भ्या युक्तो याग एकः। तदेवमादित्यादयः सप्त संपद्यन्ते। अदितिदेवताकं कर्म प्रशंसति —

“आदित्य चरुं निर्वपति। उभयीष्वेव प्रजास्वभिषिच्यते।दैवीषुच मानुषीषुच” (ब्रा. का.१ प्र. ६ अ.१) इति।

अनुमतिरर्मानुषभूमिः। अत एव राज्यमनुमन्यत इत्युक्तं भवति। अदितिर्देवभूमिरित्यभिप्रत्य दैविषु प्रजास्वभिषेकं दर्शयति। अतः पूर्वराज्येन सह समुच्चित्योमयीष्यित्युच्यते। श्रेष्ठस्य गोर्दानं प्रशंसति — “वरो दक्षिणा। वरो हि राज्य समृदध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति। वरः श्रेष्ठो गौस्तस्य राजगृहार्हत्वाद्राज्यत्वम्।

अग्निं विष्णुं च पृथक्प्रशंसति — “आग्नावैष्णवमेकादशकपालं निर्वपति। अग्निः सर्वा देवताः (५)। विष्णुर्यज्ञः। देवताश्चैव यज्ञं चावरुन्धे” (ब्रा. का.१ प्र. ६ अ.१) इति।

अग्नेः सर्वदेवतारूपत्वमन्यत्रोपपादितम् — ते देवा अग्नौ तनूः संन्यदधत। तस्मादाहुः। अग्नि सर्वा देवताः इति। पुनरप्यन्यत्राऽऽम्नातम् — ते देवा बिभ्यतोऽग्निं प्राविशन्तस्मादाहुरग्निः सर्वा देवताः इति।

फलव्यापित्वाद्यज्ञस्य विष्णुत्वम्।

अग्नेर्विष्णोश्च प्रीतिकरं वहित्वं वामनत्वं च दर्शयति — वामनो वही दक्षिणा। यद्वही। तेनाऽऽग्नेयः। यद्वामनः। तेन वैष्णवः समृद्ध्यै (ब्रा. का.१ प्र. ६ अ.१) इति।

अग्नीषोमीस्य वैरिघातित्वं याजमानमन्त्रब्राह्मणयोर्वृत्रवधब्राह्मणे च प्रसिद्धमित्यभिप्रेत्याऽऽह — अग्नीषोमीयमेकादशकपालं निर्वपति। अग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति। यदग्नीषोमीयमेकादशकपालं निर्वपति(६)। वार्त्रघ्रमेव विजित्यै (ब्रा. का.१ प्र. ६ अ.१) इति ।

तत्कर्म शत्रुघ्नमेव भूत्वा विजयाय पर्याप्तं भवति।

हिरण्यस्य समृद्धिहेतुत्वं लोकप्रसिद्धमेव दर्शयति — हिरण्यं दक्षिणा समृद्ध्यै (ब्रा. का.१ प्र. ६ अ.१) इति।

मुख्यब्राह्मण गतेनेन्द्रेण सह विकल्पितमैन्द्राग्नं प्रस्तौति — इन्द्रो वृत्र हत्वा। देवताभिश्चेन्द्रियेण च व्यार्ध्यत। स एतमैन्द्राग्नमेकादशकपाल पश्यत। तं निरवपत्। तेन वै स देवताश्चेन्द्रियं चावारुन्ध (ब्रा. का.१ प्र. ६ अ.१) इति।

व्यार्ध्यत व्यृद्धो वियुक्तोऽभूत्। विधत्ते — यदैन्द्राग्नमेकादशकपालं निर्वपति। देवताश्चैव तेनेन्द्रियं च यजमानोऽवरुन्धे (ब्रा. का.१ प्र. ६ अ.१) इति।

देवद्वयप्रित्यर्थ गुणद्वयमित्येतद्दर्शयति — ऋषभो वही दक्षिणा()। यद्वही। तेनोऽऽग्नेयः। यदृषभः। तेनैन्द्रः समृद्ध्यै (ब्रा. का.१ प्र. ६ अ.१) इति।

एकस्मिन्यागे विहितं हविर्द्वयं गोगतं गुणद्वयं च पृथक्प्रशंसति — आग्नेयमष्टाकपालं निर्वपति। ऐन्द्रं दधि। यदाग्नेयो भवति। अग्निर्वै यज्ञमुखम्। यज्ञमुखमेवर्द्धिं पुरस्ताद्धत्ते। यदैन्द्रं दधि(८)। इन्द्रियमेवावरुन्धे।

“ऋषभो वही दक्षिणा। यद्वही। तेनोऽऽग्नेयः। यदृषभः। तेनैन्द्रः समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।

अग्निमन्तरेण यज्ञस्थाप्रवृत्तेरग्नेर्यज्ञमुखत्वं, तादृशाग्नेः प्रथमहविःप्रदानेन यागस्याऽऽदावेव समृद्धिं धृतवानन्भवनि।

हविर्द्व (ख) ये दक्षिणाद्वये श्रूयमाणेऽपि कर्मैकत्वसिद्ध्यर्थमाग्रयणतां संघरूपां विधातुं प्रस्तौति — “यावतीर्वै प्रजा ओषक्धीनामहुतानामाश्नन्। ताः पराभवन्” (ब्रा. का.१ प्र. ६ अ.१) इति।

यावत्य ओषधीनां संबन्धिन्य इति शेषः। विधत्तेः

“आग्रयणं भवति हुताद्याय। यजमानस्यापराभावाय(९)”। (ब्रा. का.१ प्र. ६ अ.१) इति।

तस्मिन्संये स्थितस्यैन्द्राग्नस्योपाख्यानेन जयहेतुत्वं दर्शयति— “देवा वा ओषधीष्वाजिमयुः। ता इन्द्राग्नी उदजयताम्। तावतेमैन्द्राग्नं “द्वादशकपालं निरवृणाताम्। यदैन्द्राग्नो भवत्युज्जित्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।

माससामान्येन कपालसंख्यां प्रशंसति— द्वादशकपालो भवति। द्वादश मासा संवत्सरः।संवत्सरेणैवास्मा अन्नमवरुन्धे (ब्रा. का.१ प्र. ६ अ.१)

वैश्वदेवमन्नं रुचिहेतुरित्येतद्दर्शयति — “वैश्वदेवश्चरुर्भवति। वैश्वदेवं वा अन्नम्। अन्नमेवास्यै स्वदयति (१०)”। (ब्रा. का.१ प्र. ६ अ.१) इति।

प्रश्चमजस्य जनिष्यमाणवत्सापेक्षया समृद्धिहेतुत्वमित्याह — “प्रथमजो वत्सो दक्षिणा समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।

तृतीयहविषः सोमदेवतायाः स्वीकारे कारणमाह— “सौम्य श्यामाकं चरुं निर्वपति। सोमो वा अकृष्टपच्यस्य राजा। अकृष्टपथ्यमेवास्मै स्वदयती” (ब्रा. का.१ प्र. ६ अ.१) इति।

प्रतिग्रहमन्त्रे सोमाय वास इति श्रुतिमभिसंधाय दक्षिणां प्रशंसति — “वासो दक्षिणा। सौम्य हि देवतया वासः समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।

समृद्धिहेतुत्वेन सरस्वतीसरस्वतौ चरुमथुनदक्षिणां च प्रशंसति

“सरस्वतै यरुं निर्वपति।सरस्वते चरुम। मिथुनमेवावरुन्धे। मिथुनौ गावौ दक्षिणा समृद्ध्यै” (ब्रा. का.१ प्र. ६ अ.१) इति।

अत्र द्रव्यदेवतासंबन्धानामष्टभ्योऽधिकत्वाद्यागेष्वप्याधिक्यशङ्काभ्रमवारणायाष्टसंख्या विधातुं प्रस्तौति — “एति वा एष यज्ञमुखादृद्ध्याः। योऽग्नेर्देवताया एति” (ब्रा. का.१ प्र. ६ अ.१) इति।

एति पृथग्भवति । अपगच्छतीत्यर्थः। वक्ष्यमाणप्रकारेणाग्नेरष्टत्वसंख्यात्मकत्वात्तत्संख्याया अपगम एवाग्निसकाशादपगमः। योऽग्नेरपगच्छति स यज्ञमुखाद्यज्ञप्रारम्भ्यादृद्ध्या यज्ञसमाप्तेश्चापगच्छति। विधत्ते — “अष्टावेतानि हवीषि भवन्ति। अष्टाक्षरा गायत्रि। गायत्रोऽग्निः। तेनैव यज्ञमुखादृद्ध्या अग्नेर्देवतायै नैति (११)”। (ब्रा. का.१ प्र. ६ अ.१) इति।

गायत्र्या अग्नेश्च मुखजत्वेन सहोत्पन्नत्वलक्षणः संबन्धः। तेनैव तेषां इविःशब्दवाच्यानां कर्मणामष्टत्वेन यज्ञपारम्भसमाप्तिभ्यामाग्निदेवतायाश्च नापगच्छति। तत्र विधिविवेकसहितो विनियोगसंग्रहः — आदावानुमतं तस्य मध्ये नैतमत्र च। वीहीत्याद्यास्त्रयो मन्त्रा विनियोगस्तु वर्ण्यते॥

वीह्येष नम इत्यग्निप्रदराग्निषु हूयते।

सहैवाऽऽनुमतेनाष्टौ यागाः प्रथम ईरिताः॥ इति।

अत्र मीमांसा।

चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम् —

राजसूयेऽनुमत्यादि देवनादि च ते उभे।

मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः॥

यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः।

देवनाद्यफलं यत्तदङ्गं फलवतो यजेः॥

राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः क्षुताः — “अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति” “नैतमेककपालम्” “आदित्यं चरुं निर्वपति” “आग्नावैष्णवमेकादशकपालम् इत्यादयः” (इति)। यथैता इष्टयस्तथा पशवोऽपि श्रुताः—“आदित्यां मल्हां गर्भिणीमालभते मारुतीं पृश्निं पष्ठौहीम्” इति। मल्हा मणिला गले स्तनयुक्तेत्यर्थः। तस्या अदितिर्देवता। पृश्निरल्पतनुस्तस्या मरुतो देवता। यावता वयसा वर्षवयरुपेण पृष्ठे भारं वोढुं शक्तिर्भवति तावद्वयस्का पष्ठौही। एवमभिषेचनीयादयः सोमयागाः श्रुताः। तथा ववल्मीकवपायां होम इत्यादयो दर्विहोमाः श्रुताः। यथैत इष्टिपशुस्त्रोमदर्विहोमाश्चतुर्विधा यागरुपा एवमयागरूपा अपि द्यूतादयः श्रुताः — “पष्ठौही दीव्यति, अक्षैर्दीव्यति, राजन्यं जिनाति, शौनःशेपमाख्यापयते” इत्येवमादयः। तत्र यागा तथा मुख्यास्तथा देवनादीनामपि मुख्यत्वं युक्तं, प्रकरणपाठस्योभयत्र समानत्वादिति प्राप्ते ब्रूमः — राजा स्वाराज्यकामो राजसूयेन यजेतेत्यत्राऽऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम्। राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति। तथा सतिराजसूयेन यागेन स्वाराज्यं भावयेदिति वाक्यार्थपर्यवसानात्। अनुमत्यादीनां यागानामेव फलत्त्वादङ्गित्वं, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम।

दशमाध्यायस्य प्रथमपादे चिन्तितम् —

सा किमस्त्यनुमत्यादौ न वाऽस्त्याङ्गिन्युपक्रमात्।

संघस्योपक्रमो नेष्टो द्वारलोपान्न सा भवेत्॥

अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीत्यादिना राजसूये दर्शपूर्णमासेष्टिविकृतयो बहूव्यो विहितास्तास्वारम्भणीयाऽस्ति न वेति संदेहः। दीक्षणीयादिवदनुमत्यादीनामन्याङ्गत्वाभावात्सोमयागवत्सर्वासामङ्गित्वेनोपक्रमसंभवात्तदद्वारेणाऽऽरम्भणीयाऽस्तीति पूर्वः पक्षः। यद्यप्यङ्गिभूता अनुमत्यादयस्तथाऽप्येकैकस्या इष्टेः पृथगारम्भो नास्ति। अन्यथा प्रधानेष्वाग्नेयादिष्वन्वारम्भणीयायाः षट्कृत्वोऽनुष्ठानं प्रसज्येत। अथोच्यते। प्रधानानां षण्णामाग्नेयादीनां संघस्य दर्शपूर्णमासेष्टित्वात्तस्यैक आरम्भ इति, तर्ह्यत्रापीष्टिपशुसोमदर्विहोमरूपाणामनेकेषां प्रधानानां संघस्य राजसूयत्वात्संघस्योपक्रमोऽस्तु। न चासौ संघो दर्शपूर्णमासविकृतिर्येन तत्राऽऽरम्भणीयाऽऽशङ्क्येत। अस्ति चात्रापरः सर्वारम्भार्थो यागः। अग्निष्टोममग्रे ज्योतिष्टोममाहरतीति ज्योतिष्टोमावान्तरसंस्थाभेदरूपस्याग्निष्टोमस्याऽऽम्नातत्वात्। तस्मादनुमत्यादिष्विष्टिष्वारम्भद्वारलोपात्साऽऽरम्भणीया न भवेत्।

तत्रैव तृतीयपादेऽन्यच्चिन्तितम् —

वासो वत्सं समुच्चेयमन्वाहार्येण वा न वा।

अविरोधात्समुच्चेयं न कार्यैक्याद्विरोधतः॥

आग्रयणे श्रूयते — “वासो दक्षिणा, वत्सं प्रथमजो दक्षिणा” इति। तदेतत्प्राकृतेनान्वाहार्येण सह विरोधाभावात्समुच्चीयत इति मन्दः पूर्वपक्षः।

एककार्यत्वेन विरोधित्वान्न समुच्चयः, किंतु बाध इति राद्धान्तः।

अत्रैवान्यच्चिन्तितम् —

अन्वाहार्यस्य धर्मऽत्र न कार्यः क्रियतेऽथवा।

न तद्धर्मत्वतो मैवं साधनत्वप्रयुक्तितः॥

सन्त्यन्वाहार्यधर्मास्तान्कल्पसूत्रकार उदाजहार — “दक्षिणासद्भ्य उपहतेवा इति संप्रेष्यति ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति तेभ्योऽन्वाहार्ये ददाति अयं व ओदन इति प्रतिगृहीतोत्तरतः परीतेति संप्रेष्यति इति। सोऽयं धर्मो वासोवत्से न कार्यस्तस्यान्वाहार्यनिमित्तत्वात्। मैवम्। अन्वाहार्यस्य दक्षिणारूपत्वेनाऽऽनतिसाधनत्वप्रयुक्त्या तद्धर्म क्रियन्ते। तत्साधनत्वं वासोवत्सेऽपि समानम्। तस्मादत्रापि सन्ति ते धर्माः।

अत्रैवान्यच्चिन्तितम्–

पाकोऽस्ति नो वा वत्से स्यादन्वाहार्यस्य दर्शनात्।

न वत्सनाशादश्नौति दक्षिणा मांसदानतः॥

अन्वाहार्ये पाकोऽस्ति, पूर्वन्यायेन तद्धर्मातिदेशाद्वत्सेऽपि पाकः स्यादिति चेन्न। वत्सनाशप्रसङ्गात्। अस्त्विति चेन्न। तथा सति मांसदानेन श्रुतहान्यश्रुतकल्पने प्रसज्येयाताम्। तस्मान्नास्ति वत्सपाकः। तत्रैवान्यच्चिन्तितम्—

वाससोऽस्ति न वा पाको विनाशाभावतोऽस्त्यसौ।

वैयर्थ्यादप्यशक्यत्वात्पको वाससि नोचितः॥

वासस उष्णोदकभाण्डप्रक्षेपेण वत्सस्येव विनाशो नास्ति। तस्मादन्वाहार्य- वत्पाकोऽस्तीति चेन्मैवम्। ओदनत्वार्थो हि पाकः। नहि वाससः सहस्त्रवा पच्यमानस्यौदनता संभवति। न च पाकः कर्तुं शक्यते। नह्युष्णोदकसंबन्धः पाकशब्दार्थः, किंतु तण्डलादीनां विक्लित्तिं जनयितुं कृतः पुरुषप्रयत्नः। न च विक्लित्तिर्वाससोऽस्ति। तस्मादतिदिष्टः पाको बाध्यते।

तत्रैवान्यच्चिन्तितम् —

अभिघारोऽस्ति नो वाऽत्र शक्यत्वाद्वत्सवाससोः।

अस्त्यन्वाहार्यवन्मैवं स्वादुताया असंभवात्॥

स्पष्टोऽर्थः। सप्तमाध्यायस्य तृतीयपादे चिन्तितम् —

वासोनसी वानताक्षणातिदेशकरे न वा।

आद्यः क्रियानिमित्तत्वाज्जातिवाचित्वतोऽन्तिमः॥

वासो ददात्यनो ददातीति श्रूयते। तत्र यूपशब्दस्य यथा शास्त्रीयच्छेदनतक्षणादिक्रिया प्रवृत्तिनीमित्तं तथा वासःशब्दस्य लौकिकी कुविन्दकर्तृका तन्तुवानक्रिया। अनःशब्दस्य वर्धकिकर्तृता दारुतक्षणादिक्रिया। तस्माद्वासोनः शब्दयोः क्रियातिदेशकत्वाद्वानतक्षणे कारयित्वा तदुभयं दातव्यमिति चेन्न। गवाश्वादिशब्दवज्जातिवाचित्वान्। पाचकादिशब्दानां क्रियामुपलक्ष्य प्रयुज्यमानत्वात्क्रियैव प्रवृत्तिनिमित्तम्। वासःशकटादिषु क्रियामनुपलक्ष्यापि जातिमुपलक्ष्ये शब्दं प्रयुज्जते। तस्माद्वासोनःशब्दौ न क्रियामतिदिशतः।

द्वादशाध्यायस्य द्वितीयपदे चिन्तितम्—

बर्हिराग्रयणे किंचित्प्रसूनं बहुलत्वतः।

प्राथम्याच्चाग्रिमो मैवमलोपात्कांस्येभोजिवत्॥

ऐन्द्राग्नवैश्वदेवद्यावापृथिव्ययागा आग्रयणेष्टौ सह प्रयुज्यन्ते। तत्रैन्द्राग्नवैश्वदेवयोर्बर्हिर्मात्रं चोदकप्राप्तम्। तत्प्रकृतौ बर्हिर्विशेषस्यानुक्तत्वात्। द्यावापृथिव्ये तु स्वप्रकृत्यनुसारेण प्रसूनं बर्हिरतिदिश्यते। प्रसूनं पुष्पितं लूनशेषान्मूलात्पुनरुत्पन्नं वा। तत्राऽऽग्रयणे यत्किंचिर्द्वार्हिर्मात्रमाहर्तव्यम्। ऐन्द्राग्नवैश्वदेवयोरनेकत्वेन प्रथमत्वेन च तदानुगुण्यस्य न्याय्यत्वादिति प्राप्ते ब्रूमः — बर्हिरन्तरस्वीकरे द्यावापृथिव्ये प्रमाणप्राप्तः प्रसूननियमो लुप्येत। प्रसूनस्वीकारे त्वैन्द्राग्ववैश्वदेवयोर्न किंचिल्लुप्यते। तस्मादलोपाय कांस्यभोजिन्यायेन प्रसूनमेव क(वाऽऽह) र्तव्यम्। शिष्यस्य कांस्यभोजनव्रतमस्ति। गुरोस्तु तन्नास्ति। वयोस्तु सहभोजने यथोपसर्जनमपि शिष्यमनुसृत्य व्रतमलोपयितुं कांस्यमाद्रियते। तथाऽत्रापि द्रष्ठव्यम्। तत्रैवान्यच्चिन्तितम्—

द्यावापृथिव्यस्तन्त्री स्यात्सर्वे वा तन्त्रिणोऽग्रिमः।

प्रैषन्यायात्प्रसूनस्य तन्त्रित्वापादकत्वतः।

प्रसूनत्वं नोपदिष्ठमविरोधात्समाश्रितम्।

तन्त्रित्वं (त्व) नियतौ शक्तं नातः सर्वेऽत्र तन्त्रिणः॥

यथा मैत्रावरुणप्रैषमन्त्रविकारः पशुसंबन्धात्पशोस्तन्त्रित्वमापादयति तथा प्रसूनं(नत्वं) द्यावापृथिव्यसंबन्धित्वाद्द्यावापृथिव्यस्य तन्त्रित्वमापादयतीति प्राप्ते ब्रूमः — उक्तप्रैषमन्त्रविकारः प्रत्यक्षश्रुतः। इह तु प्रसूनत्वमतिदिष्टत्वान्न तन्त्रित्वमापादयितुं क्षमम्। न च प्राबल्याभावे कथं तदाश्रयणमिति वाच्यम्। ऐन्द्राग्नादिना सह विरोधाभावमात्रेण तदाश्रयणात्। तस्मादेकस्य तन्त्रित्वनियमाभाव आग्नेयादिवत्सर्वेऽप्यत्र तन्त्रिणः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-

तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके प्रथमोऽनुवाकः ॥१॥

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीयसंहिता ।

प्रथमे काण्डे अष्टमः प्रपाठकः ।

1 अथ राजसूयब्राह्मणं वैश्वदेवं काण्डम् । ऋचो यजूंषि चात्र भवन्ति, प्रायिकत्वाद्ब्राह्मणमुच्यते । द्विविधं ब्राह्मणं, कर्म-ब्राह्मणं कल्प-ब्राह्मणं चेति । तत्र कर्म-ब्राह्मणं, यत्केवलानि कर्माणि विधत्ते, मन्त्नान्विनियुङ्क्ते, न प्रशंसां करोति न निन्दाम्, यथेदमेव - 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणा' इत्यादि । कल्प-ब्राह्मणं भवति यथा - 'संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ' इत्यादि । कृतयः 'प्रजापतिः प्रजा असृजत' इत्यादयः, तदपि कल्प-ब्राह्मणम् । गाधा इतिहासाः पुराकल्पाश्च ब्राह्मणान्येव । गाधा वैदिकाश्श्लोकाः अर्थ-प्रधानाः न प्रशंसा-निन्दा-पराः 'स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम्' इत्याद्याः । इतिहासाः पर-कृतयः मनुष्य-कृतयः 'विश्वरूपो वै त्वाष्ट्रः' इत्येवमादयः । पुराकल्पाः प्रजापत्यादि-कृतयः 'प्रजापतिः प्रजा असृजत' इत्येवमादयः । सर्वाण्येतानि ब्राह्मणान्युच्यन्ते । एतदुक्तं भवति - कर्ममन्त्रचोदना ब्राह्मणम् । तत्त्वविषयमर्थवादादियुक्तं कर्म-विधानं कल्पं ब्राह्मणमित्युच्यते । अतत्त्व-विषयं कर्म-विधानं कल्प-ब्राह्मणमेव यथा, 'सावित्रं जुहोति प्रसूत्यै' इत्यादि । आहुश्च -

क्वचिद्विधिः प्रशंसा च केषु चिद्विधिरेव हि ।

केषु चित्स्तुतिरेव स्यात् एवं निन्दा-निषेधयोः ॥ इति ।

तत्रास्मिन् प्रश्ने कर्माणि विधीयन्ते मन्त्राश्च केवलमाम्नायन्ते, न विनियुज्यन्ते । औपानुवाक्ये तु कर्माणि च विधीयन्ते मन्त्राश्चाम्नायन्ते तदानीमेव च ते विनियुज्यन्ते इति विशेषः । तत्र राजसूये पवित्रेऽग्निष्टोमे पञ्चम्यां संस्थिते षष्ठीमारभ्यान्वहमनुमत्यादयोऽष्टौ यागास्सन्ति, तान्विदधाति - अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीत्यादि ॥ अनुब्राह्मणं च भवति - 'अष्टावेतानि हवींषि भवन्ति' इति । तत्र षष्ठ्यामानुमतमष्टाकपालं निर्वपति । या[यया] सर्वं क्रियते [साऽनुमतिः ।] अनुमतिरिति 'इयमेवास्मै राज्यमनुमन्यते' इत्यनुमत्यभिमानिनी वा काचिद्देवता पृथिवीत्वेन रूप्यते । 'तादौ च निति' इति गतेः प्रकृति-स्वरत्वम् । तस्यै पुरोडाशमष्टाकपालं निर्वपति तदुद्देशेन पृथक्करोति । अष्टसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, 'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयस्य लुक्, 'अष्टनः कपाले हविष्युपसङ्ख्यानम्' इति पूर्वपदस्यात्वम्, 'इगन्त-काल-कपाल' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र धेनुः प्रत्यग्रप्रसवा गौर्दक्षिणा देया । 'दक्षिणस्या दिगाख्यायाम्' इत्याद्युदात्तत्वम् ॥

2 तथास्मिन्नेव नैरृतं विधातुमाह - ये प्रत्यञ्च इत्यादि ॥ अत्र 'नैरृतेन पूर्वेण प्रचरति' इत्यनुब्राह्मण-दर्शनादानुमतात्पूर्वमेव नैरृतेन प्रचरितव्यं, तत्रानुमतस्य प्रथमाम्नान-सामर्थ्यात्प्रथममानुमतमासाद्यते । प्रचरणन्तु नैरृतयागात्पश्चादिति विवेकः । तत्रानुमतं पिषन् पश्चादुत्तरतश्च व्यवशातयति तण्डुलान्, तत्र ये शम्यायाः प्रत्यञ्चः प्रत्यग्गताः अवशीर्य(य?)न्ते अवपतन्ति तान् नैरृतमेककपालं निर्वपेत्, निर्वपतीति प्रकृतत्वात् । निर्वपतिस्तु तूष्णीमुपचारादित्याहुः । निर्वपतिर्वा धात्वर्थसामान्ये करोत्यर्थे वर्तते । तान् प्रतीचीनांस्तण्डुलान् नैरृतं कुर्यादित्यर्थः । तमित्येककपालापेक्षयैकवचनम् । पूर्ववत्समासादिः । विबाधन-पृथिव्येव निरृतिः, पृथिव्येव विश्वमनुगृह्णाति निगृह्णाति च । ब्राह्मणं च भवति । 'इयं निरृतिः' इति । देवतान्तरं वा पूर्ववत् । तत्र कृष्णं वासः कृष्णतूषं कृष्णदशान्तं दक्षिणा ॥
3 तत्र नैरृतेन प्रचरितुं दक्षिणमपरमवान्तरदेशं गमिष्यन् गार्हपत्ये जुहोति - वीहीति ॥ वीहि विगच्छ विगच्छद्भिरस्माभिः विश्लिष्टो भत मास्माननूत्थाय बाधिष्ट । हे गार्हपत्य तुभ्यं स्वाहा स्वाहुतं करोमीदमाज्यम् । तस्मादिमामाहुतिं जुषाणस्सेवमानः शान्तो भूत्वा इहैवास्स्वेत्यर्थः । स्वाहाकृतामिमामाहुतिं जुषाण इति वा । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । जुषेश्शानचि 'बहुलं छन्दसि' इति शपो लुक्, व्यत्ययेन सार्वधातुकत्वादनुदात्तत्वाभावः, ताच्छीलिको वा चानश् । 'यदहुत्वा गार्हपत्य ईयुः' इत्यादि ब्राह्मणम् ॥
4 नैरृतं सर्वं जुहोति - एष त इति गायत्री । यजुरिति केचित् ॥ मुञ्चेति तिङः परत्वात्पादादित्वान्न निहन्यते । हे निरृते एष ते भागः, त्वयेदं हविर्भुज्यताम् । कर्मणि घञ्, 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । हे भूते भूतरूपे निरृतिभूते वा । यद्वा - सर्वेषां भूतिहेतो । ब्राह्मणं च भवति 'भूतिमेवोपावर्तते' इति । पादादित्वान्न निहन्यते । यस्मादनेन हविषा हविष्मती त्वमसि, तस्मादिमं हविषोऽस्य दातारं यजमानं अंहसः पापान्मुञ्चेति । 'अंहस एवैनं मुञ्चति' इति ब्राह्मणम् ॥
5 पुनरेत्य गार्हपत्ये जुहोति - स्वाहा स्वाहुतमिदमाज्यमस्तु, नमः नमस्कारश्चास्तु । (कतमस्मै) कस्मै? यो हवा इदमस्मत्प्रार्थितं चकार तथैव कृतवान्, निरृतिं यष्टुं गच्छतोऽस्मान् सोढ्वा अननूत्थाय अत्रैव शान्तोऽवस्थित इति यावत् । यद्वा - इदं विश्वं चराचरं जगच्चकार ॥
6 श्वो भूते आदित्यं चरुं निर्वपति - अदितिः देवमाता पृथिवी वा, सा देवतास्य आदित्यः । 'दित्यदिति' इति ण्यः । 'उभयीष्वेव प्रजासु' इत्यादि ब्राह्मणम् । तत्र वरो दक्षिणा, गौर्वरः ॥
7 श्वो भूते आग्नावैष्णवमेकादशकपालं निर्वपति - 'अग्निस्सर्वा देवताः' इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा । वामनो ह्रस्वाङ्गः, वही वहनदेशवान् । 'यद्वही । तेनाग्नेयः' इत्यादि ब्राह्मणम् ॥
8 श्वो भूते अग्नीषोमीयमेकादशकपालं निर्वपति - अग्नीषोमाभ्यां वा इन्द्रः' इत्यादि ब्राह्मणम् । 'द्यावापृथिवीशुनासीर' इति छः । तत्र हिरण्यं दक्षिणा 'हिरण्यं दक्षिणा समृद्ध्यै' भवति ॥
9 श्वो भूते ऐन्द्रमेकादशकपालं निर्वपति - 'इन्द्रो वृत्रं हत्वा' इति ब्राह्मणम् । तत्र ऋषभो वही दक्षिणा । ऋषभस्सेक्ता खेलगतिर्वा । अत्रायं पञ्चम ऐन्द्रो विधीयते, अनुब्राह्मणे तु ऐन्द्राग्नः, अत्र कथं भाव्यमिति भाव्यं ; विकल्पो वा तुल्यबलत्वात् ॥
10 श्वो भूते आग्नेयमष्टाकपालं निर्वपति, ऐन्द्रं च दधि - द्विहविष्कोऽयं यागः । 'अग्निर्वै यज्ञमुखम्' इत्यादि ब्राह्मणम् । ऋषभो वही दक्षिणा ॥
11 श्वो भूते ऐन्द्राग्नं द्वादशकपालं निर्वपति, वैश्वदेवं चरुं निर्वपति - 'देवा वा ओषधीश्वाजिमयुः' इत्यादि ब्राह्मणम् । अत्र प्रथमजः प्रथमजातो वत्सो दक्षिणा । अस्मिन् यागे सौम्यं श्यामाकं चरुं निर्वपति - 'सोमो वा अकृष्टपच्यस्य राजा' इत्यादि ब्राह्मणम् । श्यामाकशब्दाद्विकारे 'कोपधाच्च' इत्यण् । तत्र वासो दक्षिणा । 'सौम्यं हि देवतया वासः' । त्रिहविष्कोऽयं यागः । `अष्टावेतानि हवींषि' इति ब्राह्मणानुसारेण व्याख्यायते वत्सवाससी दक्षिणा इति ॥
12 श्वो भूते सरस्वत्यै चरुं निर्वपति, सरस्वते चरुम् - स्त्रीपुंसात्मके द्वे देवते । अयमपि द्विहविष्कः । मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥

इत्यष्टमे प्रथमोऽनुवाकः ॥

पञ्चशत् 2 #
TS 1.8.1.2 TS 1.8.1.2
मेका॑दशकपालꣳ॒॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्र-मेका॑दशकपाल-मृष॒भो व॒ही दक्षि॑णाऽऽग्ने॒य-म॒ष्टाक॑पालमै॒न्द्रं दद्ध्यृ॑ष॒भो व॒ही दक्षि॑णैन्द्रा॒ग्नं द्वाद॑शकपालं ॅवैश्वदे॒वं च॒रुं प्र॑थम॒जो व॒थ्सो दक्षि॑णा सौ॒म्यꣳ श्या॑मा॒कं च॒रुं ॅवासो॒ दक्षि॑णा॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णा ॥
▶ पदपाठः (Word-by-word)
एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । हिर॑ण्यम् । दक्षि॑णा । ऐ॒न्द्रम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । ऋ॒ष॒भः । व॒ही । दक्षि॑णा । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । ऐ॒न्द्रम् । दधि॑ । ऋ॒ष॒भः । व॒ही । दक्षि॑णा । ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र -अ॒ग्नम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श -क॒पा॒ल॒म् । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । च॒रुम् । प्र॒थ॒म॒ज इति॑ प्रथम - जः । व॒थ्सः । दक्षि॑णा । सौ॒म्यम् । श्या॒मा॒कम् । च॒रुम् । वासः॑ । दक्षि॑णा । सर॑स्वत्यै । च॒रुम् । सर॑स्वते । च॒रुम् । मि॒थु॒नौ । गावौ᳚ । दक्षि॑णा ॥
पदसंख्या: 34