पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
Sāyaṇa comments on this anuvāka together with 2.3.2, 2.3.3.
(अथ द्वितीयकाण्डे तृतीयः प्रपाठकः)। (यज्ञविभ्रष्टादीनामिष्टिविधिः) (तत्र प्रथमादितृतीयान्ता अनुवाकः)।
यस्य निःश्वासितं वेदा यो वेदेभ्योऽखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। १ ।।
काम्येष्टयः श्रुताः काश्चिदद्वितीये तु प्रपाठके। तृतीये तु विधास्यन्ते तत्तत्फलमभीप्सिनः ।। २ ।।
काम्येष्टित्वे समानेऽपि संप्रदायकृतां भिदा। प्रपाठकद्वयस्मैवं चतुर्थस्यापि गम्यताम् ।। ३ ।।
चतुर्दशानुवाकाः स्युस्तृतीयेऽस्मिन्प्रपाठके। तदर्थास्तु क्रमेणेह वक्ष्यन्तेऽवसरे सति ।। ४ ।।
भूतिकामो भुवद्वद्भ्य आदित्येभ्यश्चरुं चरेत्। रूद्धोऽवरुध्यमानो वा धारयद्वद्भ्य आचरेत् ।। ५ ।।
शुक्लैर्ब्रीहिभिरादित्यं चरुं कृष्णैस्तु वारुणम् । रुध्यमानः प्रकुवीत मयूखानां च कीर्तनम् ।। ६ ।।
तदबन्धनं तथादित्यं चरुमेव समाचरेत्। आद्यानुवाके कथितमेतत्सर्वं विशेषतः ।। ७ ।।
इन्द्रं वो विश्व इत्यात्राक्षरार्थस्तूपवर्णितः । मृत्योर्भीतो ह्यायुरर्थे निर्वपेच्छतकृष्णलाम् ।। ८ ।।
ब्रह्मवर्चसकामो यः स सौर्यं चरुमाचरेत। हिरण्यकामः कुर्वीत ह्याग्नेयादिहविस्त्रयम् ।। ९ ।।
हिण्यलाभे तन्नाशेऽप्येतदेव समाचरेत्। सोमवामी तु सोमेन्द्रं चरुं श्यामाकतश्चरेत् ।। १० ।।
पश्वर्थं ह्यग्नये दात्र इत्यादित्रमाचरेत्। अनुवाके द्वितीयेऽर्थां एतावन्त उदीरिताः।।
हिरण्यगर्भ इत्यत्राक्षरार्थ स्पष्टमीरितः ।। ११ ।। अथ तृतीयेनुवाके यज्ञविभ्रष्टादीनामिष्टयो विधातव्याः। तत्राऽऽदौ यज्ञविभ्रष्टेष्टिविधानाय प्रस्तौति देवा वै सत्रमिति। ऋद्ध्या काम्यमानेन यशोलक्षणेन फलेन परिमितं सत्रमनुष्ठितवन्तः। सन्ति सहस्रं सत्राणि तेषु येन यशः सिध्यति तदन्वतिष्ठन्। तेषां देवानां मध्ये फलीभूतं यशः सोमं प्राप्नोत्। स च सोमोऽन्येषां यशो मा भूदिति मन्वानस्तेन यशसा सह गिरिं कंचिद्दुर्गं पर्वतमारोहत्। अग्निश्च सहसा तस्य पृष्ठत एवाऽऽरोहत्। तौ द्वावग्नीषोमौ परस्परमैकमत्यं गतौ। ततस्तावुभावनु फलरहित इन्द्रश्चिरकालेन गत्वा मां फलाय योजयतमिति अयोचत्। तौ च तस्मै त्रिहविष्कामिष्टिं निरवपताम्। तैस्त्रिभिर्हविर्भिस्तेजआदिकं त्रयं लब्धम्।
"अथ विधत्ते यो यज्ञविभ्रष्ट इति। इष्टिपशुसोमानां स्वस्वकालेष्वननुष्ठांन भ्रेषस्तं भ्रेषं प्राप्तस्येयमिष्टिः। अत्रैव कंचिद्विशेषं विधत्ते आग्नेयस्येति। तेन समाश्लेषणेनास्मिन्यजमान आज्ञाशक्तिः श्रुताध्ययनसंपत्तिश्चेत्येते संपूर्णे स्थापयति। कमितार्थसिद्ध्यर्थमिष्ट्यन्तरं विधत्ते अग्निषोमीयमिति। अग्निना सह मुखे जातत्वात्सोमपातृत्वाच्च तदुभयं ब्राह्मणस्य देवता। ब्रह्मवर्चसार्थं श्यामाकपुरोडाशं विधत्ते अग्नीषोमीयमिति। कपालगतयाऽष्टसंख्यया गायत्रीस्मरणात्तदद्वारेण हविष आग्नेयत्वम्। “अष्टाक्षरा गायत्री गायत्रोऽग्निः” इति श्रुत्यन्तरात्। तथा “सोमो वा अकृष्टपच्चस्य राजा” इत्यादिश्रुतेः श्यामाकधान्येन हविषः सोम्यत्वम्। अनेनैवार्थवादेन विधिवाक्ये पुरोडाशस्य श्यामाकमयत्वमुन्नेयम्। क्लीबत्वपरिहारायेष्टिं विधत्ते सोमायेति। प्रजननत्तमर्थोऽन्नरसो वाजस्तद्वते वाजिने। यदा वाजिनं प्रजननसमर्थान्नरसरूपं रेतोऽस्मात्पुरुषादपक्रामति रोगेणादृष्टविशेषेण वा तत्सामर्थ्यं प्रतिबध्यते तदानीमस्य क्लीबत्वं संपद्यते तस्मात्क्लीबत्वाद्विभाव बिभेति। इष्ट्यन्तरं विधत्ते ब्राह्मणस्पत्यमिति। अत्र गणानां त्वा, स इज्जनेनेत्येते ऋचावन्त्यानुवाके समाम्ना स्थमाने विधत्ते गणवतीति। गणशब्दो ययोऋचोरस्ति ते गणवत्यौ।"
यदा वैश्यजातिर्धनिकत्वगर्वेण ब्राह्मणमतिक्रामति तदा तस्मिब्राह्मणे तां जातिं वश्यां कर्तुं तामेवेष्टिं विधत्ते—
एतामेवेति। ब्रह्मन्ब्राह्मणे विनाशयेयं गर्वविनाशनेनाऽऽत्मसात्कुर्याम्। मरुतो यद्ध वो दिवो या वः शर्मेत्येते ऋचो वैश्वानरो न ऊत्येस्मिन्ननुवाके समाम्राते अत्रापि प्रतीकेन ग्रहीष्येते। तदुभयमत्र विधत्ते---
मारुतीति मरुतां संबन्धिन्यौ मारुत्यौ। मरुतो वै देवानां विश इति श्रुतेस्तदनुग्रहेण मानुषीं विशमधीनां करोति।।
प्रथमादितृतीयान्ता अनुवाकाः ।। ३ ।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितीयां
द्वितीय काण्डे
तृतीयः प्रश्नः ॥
धारयद्वद्भ्य इति ॥ धारयच्छब्दवत्त्वाद्याज्यानुवाक्ययोः, यथा'धारयन्त अदित्यासः' तिस्रो भूमीर्धारयन्' इति । अत्रापि पूर्ववद्भत्वाभावः, अयस्मयादित्वाद्वा उभयत्र पदत्वम् । अपरुद्ध इत्यादि । अपरुद्धो राजान्तरेणापहृतराष्ट्रः । स एतं चरुं निर्वपेत् पुना राष्ट्रं लप्सीयेति । अपरुद्ध्यमानो वा राजान्तरेणापजिहीर्षितराष्ट्रः । स वा निर्वपेदिमं चरुं मा मा राष्ट्रं हासीदिति । आदित्या वा इत्यादि । आदित्या एव रास्ट्रस्यापरोद्धारः अपहर्तारः राष्ट्रापहारेण वास्य दुःखयितारः । आदित्या एव तस्यापगमयितारः । तस्मात्तेनानेन चरुणा एनमपरुद्धं विशि प्रकृतिषु दाध्रति धारयन्ति धारयद्वत्त्वात् । धारयतेः 'दाधर्तिदर्धर्ति' इत्यादिना निपात्यते । ततश्चायमनपरुद्ध्यः अपरोद्धुमशक्यो भवति । छान्दसो यत् ; 'ययतोश्चादर्थे' इत्युत्तरपदान्तोदात्तत्वम् ॥