प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.5.2.5 TS 1.5.2.5
ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ ॅयो᳚ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादा᳚ग्निवारु॒ण-मेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व हन्ति॒ यश्चा᳚स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ॥
▶ पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । अवेति॑ । रु॒न्धे॒ । वी॒र॒हेति॑ वीर - हा । वै । ए॒षः । दे॒वाना᳚म् । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । तस्य॑ । वरु॑णः । ए॒व । ऋ॒ण॒यादित्यृ॑ण - यात् । आ॒ग्नि॒वा॒रु॒णमित्या᳚ग्नि - वा॒रु॒णम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । अनु॑ । निरिति॑ । व॒पे॒त् । यम् । च॒ । ए॒व । हन्ति॑ । यः । च॒ । अ॒स्य॒ । ऋ॒ण॒यादित्यृ॑ण - यात् । तौ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । प्री॒णा॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यज॑मानः ॥
पदसंख्या: 36