प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.7.6.1 TS 1.7.6.1
अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा ऽऽ वृ॒क्षीत्या॑ह यथाय॒जु-रे॒वैतथ् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्द्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚ऽस्मान् ॅलो॒काच्च्य॑वते॒ यो - [ ]
▶ पदपाठः (Word-by-word)
अग॑न्म । सुवः॑ । सुवः॑ । अ॒ग॒न्म॒ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । ए॒ति॒ । स॒दृंश॒ इति॑ सं -दृशः॑ । ते॒ । मा । छि॒थ्सि॒ । यत् । ते॒ । तपः॑ । तस्मै᳚ । ते॒ । मा । एति॑ । वृ॒क्षि॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । सु॒भूरिति॑ सु- भूः । अ॒सि॒ । श्रेष्ठः॑ । र॒श्मी॒नाम् । आ॒यु॒द्‌र्धा इत्या॑युः - धाः । अ॒सि॒ । आयुः॑ । मे॒ । धे॒हि॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । प्रेति॑ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः)।

आप्यायनादिमन्त्राः पञ्चमे व्याख्याताः। उपस्थानादिमन्त्राः षष्ठे व्याख्या- यन्ते। तत्राऽऽहवनीयोपस्थानमन्त्रस्य पूर्वभागं व्याचष्टे - अगन्मेति। द्विरुक्त्याऽऽदरस्य प्रतीतेः सर्वथा प्राप्नोत्येव।

उत्तरभागं व्याचष्टे - संदृश इति। अस्मियजुषि तपःशब्ददर्शनात्तपसश्च विच्छिन्नो मा भूवमिति यत्प्रतीयत एतद्यजुरनतिक्रम्य तथैव प्रार्थ्यते।

आदित्योपस्थानमन्त्रं व्याचष्टे - सुभूरसीति। आयुर्मे धेहीत्यनेनाऽऽशीः प्रतीयते।

इदमहमित्यादिकं वैरिनिःसारणमन्त्रं व्याख्यातुं प्रस्तौति - प्र वा इति। विष्णुक्रमणां स्वर्गार्थत्वाद्विष्णुक्रमैरस्माल्लोकात्प्रच्युतिर्भवति। तस्याः प्रच्युतेः परिहारोपायं ब्रह्मवादिनः परस्परमेवमाहुः — यो यजमानो वैरिण इमाँल्लोकांस्तेन संपादितान्वैरिनिःसारणेन लब्ध्वा विष्णुक्रमैः स्वर्गा-रोहणादूर्ध्वं पुनरिमं मनुष्यलोकं प्रत्यवरोहेत्स एव यजमानो विष्णुक्रमेषु चतुर इति।

मन्त्रं व्याचष्टे - एष वा इति। इदमहमित्यादिमन्त्रमाहेति यदेष एव पाठोऽस्य भूलोकस्य संबन्धी प्रत्यवरोहः।

आत्माभिमर्शनमन्त्रं व्याचष्टे - संज्योतिषेति। एतल्लोकप्रापके(ण) ज्योतिषा संगतोऽहमित्येव मन्त्रे प्रतीयमानत्वात्।

प्रदक्षिणावृत्तिमन्त्रं व्याचष्टे - ऐन्द्रीमिति। परमैश्वर्ययोगादादित्यस्येन्द्रत्वम्।

प्रदक्षिणावृत्तिं विधत्ते - दक्षिणेति। दक्षिणा प्रादक्षिण्येन। द्रक्षिणभागमवस्थाप्य वामभागस्य परिभ्रमणात्प्रादक्षिण्यम्। पुरुषस्य दक्षिणाभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽवृत्तिः कृता भवति। यस्माद्दक्षिणभागे वीर्यं श्रुतेरभिप्रेतं तस्माल्लोकेषु सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उपलभ्यते। किंच, आदित्यो मेरुं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति।

विपर्ययेणाऽऽवृत्तिमन्त्रं व्याचष्टे - समहमिति। स्वयं यथा प्रजादिना संगच्छते तथा प्रजादिरपि स्वेन संगच्छत इत्येतदुभयं द्वितीयावृत्त्या प्रार्थ्यते।

समिदाधानमन्त्रं स्पष्टार्थत्वेन व्याचष्टे - समिद्ध इति।

आहवनीयोपस्थानमन्त्रं व्याचष्टे - वसुमानिति। वसीयानतिशयेन धनवान्।

विधत्ते - बहु वा इति। गार्हपत्योऽजस्रं धार्यते। तथा सति एतत्संनिधौ बहुविधजन्तु-पातकं संभाव्यते। अतो यजमानेन गार्हपत्यस्य समीपे पापमिश्रमिव होमा-दिकर्मानुष्ठीयते।

ततोऽग्न आयूंषीत्याद्याभ्यामग्निपवमानदेवकाभ्यां शुद्धिहेतुभ्यामग्न्युपस्थाने वह्नेः स्वस्य च शुद्धिर्भवति।

अन्यमपि गार्हपत्योपस्थानमन्त्रं व्याचष्टे - अग्ने गृहपत इति। तदिदं मन्त्रब्राह्मणं स्पष्टार्थं पूर्वप्रपाठके व्याख्यातं च। तत्र नाम गृह्णातीति विधिः।

तद्ग्रहणे प्रकारविशेषमाहाऽऽपस्तम्बः — “तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।

अजातस्य पुत्रस्य विशेषनामभावात्तन्तव इत्येतदेव सामान्यनाम गृह्णीयात्। जातस्य पुत्रस्य त्वमुष्मा इत्यनेन विशेषनामनिर्देशो विवक्ष्यते।

यज्ञविमोकमन्त्रं व्याचष्टे - यो वै यज्ञमिति।

ईश्वर वा इति। यत्व्रतं गृहीतं सन्न विसृष्टं तद्व्रतं प्रदहो यजमानं प्रदग्धुमीश्वरं समर्थम्। अग्ने व्रतपत इत्यादिमन्त्रपाठ एव व्रतविसर्गः। तेन शीतं सन्तं न दहति।

पुनरालम्भमन्त्रं व्याख्यातुं प्रस्तौति - पराङिति। पराङ्वाव विमुख एव पुनर्न निवर्तते, पुनरालम्भमन्त्रवादिनं यजमानं प्रति तु पुनर्निवर्तते, पुनरप्यसावनुतिष्ठतीत्यर्थः।

मन्त्रं व्याचष्टे -यज्ञ इति। एष वै मन्त्रपाठ एव।

गोमतीमन्त्रं विधातुं प्रस्तौति - अनवरुद्धा इति। यो यजमान आहिताग्निरपि सन्सभारहितो भवेत्, एतस्य यजमानस्य विराड्विशेषेण राजमाना स्वोचितसभा कदाचिदप्यनवरुद्धाऽ-स्वाधीना भवति। यागकाले सभाहीनस्य लोकव्यावहारकालेऽपि सभा न संभवेदित्यर्थः। नात्र राज्ञ इवामात्यस्वभटरूपा सभा ब्राह्मणस्योचिता, किं तर्हि यज्ञनिष्पादका द्विपदश्चतुष्पादश्च पशवोऽस्य सभा॥

मन्त्रं विधत्ते - इष्ट्वा प्राङिति। भूमनिन्दाप्रशंसास्विति वैयाकरणैरुक्तत्वाद्गोमानित्यादिको मतुप्प्रत्ययो बाहुल्यवाची। अतः सहस्रप्राप्तिर्युक्ता। इडावान्प्रजावानिति मन्त्रेऽभिधानादस्य प्रजायामन्नवतः पुत्रस्योत्पत्तिर्युक्ता॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः॥६॥
▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अगन्म सुवरित्याहवनीयोपस्थानम् ॥ यथा यजुरिति । यथा यजुर्वदति तथैवेतत्सम्पद्यते । देवसन्दर्शनादनुध्यानलक्षणादविच्छेदनं, तपसश्च देवपरिचरणलक्षणादविच्छेदनमिति ॥
2 सुभूरित्यादित्योपस्थानम् ॥ आशिषं 'आयुर्मे धेहि वर्चो मयि धेहि' इत्येतां आशास्ते । अनेन मन्त्रेण लभते च यथाशासनमिति भावः ॥
3 प्र वा एष इत्यादि ॥ हेतुमाह - सुवर्गायेति । उक्तमुपस्थानान्तं विष्णुक्रमाणां क्रमणम् । तत्रैवायं विशेष उच्यते - ब्रह्म वदितुं शीलं येषान्ते आहुः । स विष्णुक्रमान् क्रमितुमर्हति य इमान् लोकान् पृथिवीप्रभृतीन् भ्रातृव्येण निजसुकृतैरार्जितान् संविद्य लब्ध्वा आत्मसात्कृत्य तत्रतत्रारुह्य पुनरिमं मनुष्यलोकं प्रत्यवरोहेदिति । एष वा इत्यादि । इदमहमित्यस्य मन्त्रस्य वचनं भ्रातृव्यलोकानां संवेदनस्य पुनरिह प्रत्यवरोहस्य च साधनमित्यर्थः । आभ्यो दिग्भ्योस्यै दिव इति द्वयोरुपादानेन सर्वान्भ्रातृव्यस्य लोकानुपलक्षयंस्तेषां भूयस्त्वं गमयति । हस्ताग्रेण निदर्शयन्निदंशब्दं प्रयुङ्क्ते ॥
4 सं ज्योतिषेत्यात्माभिमर्शनम् ॥ प्रतितिष्ठतीति । प्रतिष्ठयाभिदीप्त्या सङ्गच्छते ॥
5 ऐन्द्रीमावृतमित्युदक्पर्यावर्तनमन्त्रः ॥ असौ वा इत्यादि । ईश्वरत्वादिन्द्र आदित्यः तस्यावृतं पर्यावृत्तिं तेन पूर्वं कृतं यजमानोनुपर्यावर्तते । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । दक्षिण दक्षिणेन शरीरभागेन प्रदक्षिणमिति यावत् । 'दक्षिणादाच्' । स्वमेवेत्यादि । आत्मनश्शरीरस्य दक्षिण एकदेशो वीर्यावत्तरः इतरस्मात् । छान्दसं दीर्घत्वम् । 'दक्षिणस्यादिगाख्यायाम्' इत्याद्युदात्तत्वम् । अथो अपि च । पुनर्वचनं प्रादक्षिण्यफलप्रदर्शनार्थम् ॥
6 समहमित्युपस्थानमन्त्रः ॥ आशिषमिति । ससाधनां क्रियामुपसर्ग आहेति योग्यभूतगमनक्रियोपस्थानात् प्रजया सङ्गसीयेति लाभादेवमुक्तम् ॥
7 समिद्ध इति समिदाधानम् ॥ यथायजुरेवैतद्भवति । दीद्यासमिति दीप्तिमत्त्वाशासनम् ॥
8 वसुमानित्युपस्थानम् ॥ आशिषमिति । वसीयान् भूयासमित्यनेनैतामाशिषमाशास्ते । लभते च यथाशासनमिति ॥
8 बहु वा इत्यादि ॥ गार्हपत्यस्यान्ते समीपे मिश्रमिव पापशबलमिव बहु चर्यते परद्रोहचिन्तादि(षु) । क्षुद्रजन्तुवधादि च । येन अग्निरप्यपूतस्स्यात् ; तस्मादाग्निपावमानीभ्यामृग्भ्यां 'अग्न आयूंषि पवसे' इत्याभ्यां गार्हपत्यमुपतिष्ठते । पुनात्येवाग्निं पुनीते चैवात्मानम् । कर्त्रभिप्रायत्वादुत्तरत्रात्मनेपदम्, सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते इत्याद्युदात्तत्वम् । पुनातीत्यत्र तस्य पित्त्वाद्विकरणस्वरः । समानवाक्ये पदात्परत्वाभावादुभयत्रापि निघाताभावः । द्वाभ्यामिति । उपतिष्ठत इत्येव । प्रतिष्ठित्या इति । द्वित्वान्वयात् पद्भ्यामिव प्रतिष्ठितो भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥
10 अग्ने गृहपते इत्युपस्थानमेव ॥ यथायजुरिति । सुगृहपतित्वावाप्तिर्ज्योतिष्मदपत्यलाभश्चेत्येतद्यथायजुर्भवत्येव ॥
11 शतं हिमा इत्यादि ॥ व्याख्यातं अग्निहोत्राग्न्युपस्पाने 'सम्पश्यामि' इत्यत्र ॥
1 यो वै यज्ञमित्यादि ॥ गतम् । अप्रतिष्ठानः प्रतिष्ठारहितः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । कस्त्वेति यज्ञविमोकः । प्रजापतिनैवैनं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति प्रजापतिरेव त्वां योक्तुमर्हति ; अतस्स एव त्वां युनक्त्विति, पूर्वं प्रजापतिनैव योगः कारितः । एवमत्रापि प्रजापतिनैव विमुञ्चति - कस्त्वा युनक्ति स त्वा विमुञ्चत्विति । प्रजापतिर्हि त्वां युनक्ति स्म । अतस्स एव त्वां विमुञ्चतु । तेन युक्तं त्वां कोन्यो मोक्तुं शक्नोतीति भावः । एवं हि क्रियमाणं प्रतिष्ठित्यै भवति, इतरथा अप्रतिष्ठानस्स्यात् ; अन्येन विमोकस्याविमोकतुल्यत्वात् अप्रतिष्ठान एवेति । उक्तस्स्वरः । 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
13 ईश्वरमित्यादी ॥ अविसृष्टं प्रदहः प्रकर्षेण दग्धुमीश्वरं शक्तम् । 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । अग्रे व्रतपते इति व्रतविमोकः ॥ 14पराङित्यादि ॥ युक्तमुक्तो गौरिव पराचीनगतिरेव यज्ञो मुक्तो गच्छति न पुनर्निवर्तते । किं सर्वत्र? नेत्याह - यो यज्ञस्य पुनरालम्भं विद्वान्यजते तमभि तदाभिमुख्येन निवर्तत एव । यज्ञो बभूवेत्यादि यज्ञस्य पुनरालम्भः ॥
15 अनवरुद्धेति ॥ विराडन्नं असभः अपशुस्स्यात् । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । पशवः खल्वित्यादि । द्विपादश्चतुष्पादश्च तस्मादिष्ट्वा प्राङुत्क्रम्य उदेत्य 'गोमाꣳ अग्ने' इत्यादिकां गोमतीमृचं ब्रूयात् जपेत्, अवरुन्धे च सभाम् । प्राप्नोति च सहस्रं पशून् । आजायते वाजी अस्य प्रजासु । वाजी अन्नवान् पुरुषः । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते । 'बर्हिषोहम्' इत्यनुवाकान्ते तु 'प्र सहस्रं पशूनाप्नोति' इत्येकैव तिङ्विभक्तिः ; आजायत इत्यस्या वेदितृविषयत्वात् । तस्माच्चलोपाभावादुभयमपि तत्र निहन्यते ॥
इति सप्तमे षष्ठोनुवाकः ॥