प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.1.7.7 TS 2.1.7.7
द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒ ॅवा ए॒ष च॑रति॒ यदु॒क्षावश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं ॅवशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धेरौ॒द्रीꣳरोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ ( ) भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्॒.हिः शृ॒णात्ये॒वैनं॒ ॅवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं᳚ ॥
▶ पदपाठः (Word-by-word)
द॒धा॒ति॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । ए॒व । भ॒व॒ति॒ । वश᳚म् । वै । ए॒षः । च॒र॒ति॒ । यत् । उ॒क्षा । वशः॑ । इ॒व॒ । खलु॑ । वै । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । वशे॑न । ए॒व । वश᳚म् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्धे॒ । रौ॒द्रीम् । रोहि॑णीम् । एति॑ । ल॒भे॒त॒ । अ॒भि॒चर॒न्नित्य॑भि-चरन्॑ । रु॒द्रम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तस्मै᳚ । ए॒व । ए॒न॒म् । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । रोहि॑णी । भ॒व॒ति॒ । रौ॒द्री । हि । ए॒षा । दे॒वत॑या । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । स्फ्यः । यूपः॑ ( ) । भ॒व॒ति॒ । वज्रः॑ । वै । स्फ्यः । वज्र᳚म् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ह॒र॒ति॒ । श॒र॒मय॒मिति॑ शर - मय᳚म् । ब॒र्॒.हिः । शृ॒णाति॑ । ए॒व । ए॒न॒म् । वैभी॑दकः । इ॒द्ध्मः । भि॒नत्ति॑ । ए॒व । ए॒न॒म् ॥
पदसंख्या: 69