भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ प्र॒जां प॒शून॑वृञ्जत॒ यद्-गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त् तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः संॅवथ्स॒रो वै गा॑य॒त्री सं॑ॅवथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्-यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्यं॑ - [ ]
पदपाठः (Word-by-word)
भ्राजः॑ । अ॒सि॒ । दे॒वाना᳚म् । धाम॑ । नाम॑ । अ॒सि॒ । विश्व᳚म् । अ॒सि॒ । वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । सर्व᳚म् । अ॒सि॒ । स॒र्वायु॒रिति॑ स॒र्व - आ॒युः॒ । अ॒भि॒भूरित्य॑भि - भूः । इति॑ । वाव । दे॒वाः । असु॑राणाम् । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । प्र॒जामिति॑ प्र-जाम् । प॒शून् । अ॒वृ॒ञ्ज॒त॒ । यत् । गा॒य॒त्री । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अति॑ष्ठत् । तस्मा᳚त् । ए॒ताम् । गा॒य॒त्री । इति॑ । इष्टि᳚म् । आ॒हुः॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । गा॒य॒त्री । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । तत् । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । यत् । ए॒तया᳚ । दे॒वाः । असु॑राणाम् । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् ।