प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.4.5 TS 2.5.4.5
-वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒ वसी॑यान् भवति संॅवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ् संॅवथ्स॒रमे॒वैनं॑ ॅवृ॒त्रं ज॑घ्नि॒वाꣳ स॑म॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ कामं॑ ॅयजेत ॥
▶ पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । दे॒वता᳚ । इ॒ज्यमा॑ना । भूत्यै᳚ । इ॒न्धे॒ । वसी॑यान् । भ॒व॒ति॒ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प॒रस्ता᳚त् । अ॒ग्नये᳚ । व्र॒तप॑तय॒ इति॑ व्र॒त - प॒त॒ये॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । ए॒न॒म् । वृ॒त्रम् । ज॒घ्नि॒वाꣳस᳚म् । अ॒ग्निः । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ । व्र॒तम् । एति॑ । ल॒भं॒य॒ति॒ । ततः॑ । अधीति॑ । काम᳚म् । य॒जे॒त॒ ॥(ए॒तां - त - दौदु॑म्बरꣳ॒॒ - स्वा -
पदसंख्या: 30