प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.5.9.2 TS 2.5.9.2
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑द्ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तं कश्च॒न - [ ]
▶ पदपाठः (Word-by-word)
विप्राः᳚ । हि । ए॒ते । यत् । शु॒श्रु॒वाꣳसः॑ । क॒वि॒श॒स्त इति॑ कवि - श॒स्तः । इति॑ । आ॒ह॒ । क॒वयः॑ । हि । ए॒ते । यत् । शु॒श्रु॒वाꣳसः॑ । ब्रह्म॑सꣳशित॒ इति॒ ब्रह्म॑ - सꣳ॒॒शि॒तः॒ । इति॑ । आ॒ह॒ । ब्रह्म॑सꣳशित॒ इति॒ ब्रह्म॑ - सꣳ॒॒शि॒तः॒ । हि । ए॒षः । घृ॒ताह॑वन॒ इति॑ घृ॒त - आ॒ह॒व॒नः॒ । इति॑ । आ॒ह॒ । घृ॒ता॒हु॒तिरिति॑ घृत-आ॒हु॒तिः । हि । अ॒स्य॒ । प्रि॒यत॒मेति॑ प्रि॒य - त॒मा॒ । प्र॒णीरिति॑ प्र - नीः । य॒ज्ञाना᳚म् । इति॑ । आ॒ह॒ । प्र॒णीरिति॑ प्र-नीः । हि । ए॒षः । य॒ज्ञाना᳚म् । र॒थीः । अ॒द्ध्व॒राणा᳚म् । इति॑ । आ॒ह॒ । ए॒षः । हि । दे॒व॒र॒थ इति॑ देव - र॒थः । अ॒तूर्तः॑ । होता᳚ । इति॑ । आ॒ह॒ । न । हि । ए॒तम् । कः । च॒न ।
पदसंख्या: 50