-त्या॑हा॒ग्निर्वै दे॒वानाꣳ॒॒ होता॒ य ए॒व दे॒वानाꣳ॒॒ होता॒ तं ॅवृ॑णीते॒स्मो व॒यमित्या॑हा॒ऽऽत्मान॑मे॒व स॒त्त्वं ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याद्-यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मानं॒ परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्-यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्य देव॒त्यो॑प॒भृद् - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । अ॒ग्निः । वै । दे॒वाना᳚म् । होता᳚ । यः । ए॒व । दे॒वाना᳚म् । होता᳚ । तम् । वृ॒णी॒ते॒ । स्मः । व॒यम् । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । स॒त्त्वमिति॑ सत् - त्वम् । ग॒म॒य॒ति॒ । सा॒धु । ते॒ । य॒ज॒मा॒न॒ । दे॒वता᳚ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । यत् । ब्रू॒यात् । यः । अ॒ग्निम् । होता॑रम् । अवृ॑थाः । इति॑ । अ॒ग्निना᳚ । उ॒भ॒यतः॑ । यज॑मानम् । परीति॑ । गृ॒ह्णी॒या॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । य॒ज॒मा॒न॒दे॒व॒त्येति॑ यजमान - दे॒व॒त्या᳚ । वै । जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ । उ॒प॒भृदित्यु॑प - भृत् ।