च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञ्मु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञ्स्य॑ क्रियते॒ यद्ग्रहा᳚न् गृही॒त्वा ब॑हिष्पवमा॒नꣳ सर्प॑न्ति॒परा᳚ञ्चो॒ हि यन्ति॒ परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑ र्य॒ज्ञ्मे॒वाक॒र्विष्णो॒ त्वन्नो॒ अन्त॑मः॒ शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ ( ) अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना ऽऽ*प्या॑ययति ॥
पदपाठः (Word-by-word)
च॒ । यज॑माने । च॒ । इति॑ । आ॒ह॒ । वाच᳚म् । ए॒व । तत् । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । यु॒न॒क्ति॒ । वास्तु॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । क्रि॒य॒ते॒ । यत् । ग्रहान्॑ । गृ॒ही॒त्वा । ब॒हि॒ष्प॒व॒मा॒नमिति॑ बहिः - प॒व॒मा॒नम् । सर्प॑न्ति । परा᳚ञ्चः । हि । यन्ति॑ । परा॑चीभिः । स्तु॒वते᳚ । वै॒ष्ण॒व्या । ऋ॒चा । पुनः॑ । एत्येत्या᳚ - इत्य॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञ्म् । ए॒व । अ॒कः॒ । विष्णो॒ इति॑ । त्वम् । नः॒ । अन्त॑मः । शर्म॑ । य॒च्छ॒ । स॒ह॒न्त्य॒ ॥ प्रेति॑ । ते॒ । धाराः᳚ । म॒धु॒श्चुत॒ इति॑ मधु-श्चुतः॑ । उथ्स᳚म् । दु॒ह्र॒ते॒ ( ) । अक्षि॑तम् । इति॑ । आ॒ह॒ । यत् । ए॒व । अ॒स्य॒ । शया॑नस्य । उ॒प॒शुष्य॒तीत्यु॑प - शुष्य॑ति । तत् । ए॒व । अ॒स्य॒ । ए॒तेन॑ । एति॑ । प्या॒य॒य॒ति॒ ॥