वै पव॑मानानामन्वारो॒हास्तान्. य ए॒वं ॅवि॒द्वान्. यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिं॒ ॅवेद॒ सर्व॒मायु॑रेति॒ न पु॒राऽऽयु॑षः॒ प्र मी॑यते पशु॒मान् भ॑वति वि॒न्दते᳚ प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृत् तान्. यदगृ॑हीत्वोपाकु॒र्यात् पव॑मानं॒ ॅवि - [ ]
पदपाठः (Word-by-word)
वै । पव॑मानानाम् । अ॒न्वा॒रो॒हा इत्य॑नु - आ॒रो॒हाः । तान् । यः । ए॒वम् । वि॒द्वान् । यज॑ते । अन्विति॑ । पव॑मानान् । एति॑ । रो॒ह॒ति॒ । न । पव॑मानेभ्यः । अवेति॑ । छि॒द्य॒ते॒ । यः । वै । पव॑मानस्य । संत॑ति॒मिति॒ सं - त॒ति॒म् । वेद॑ । सर्व᳚म् । आयुः॑ । ए॒ति॒ । न । पु॒रा । आयु॑षः । प्रेति॑ । मी॒य॒ते॒ । प॒शु॒मानिति॑ पशु-मान् । भ॒व॒ति॒ । वि॒न्दते᳚ । प्र॒जामिति॑ प्र - जाम् । पव॑मानस्य । ग्रहाः᳚ । गृ॒ह्य॒न्ते॒ । अथ॑ । वै । अ॒स्य॒ । ए॒ते । अगृ॑हीताः । द्रो॒ण॒क॒ल॒श इति॑ द्रोण - क॒ल॒शः । आ॒ध॒व॒नीय॒ इत्या᳚ - ध॒व॒नीयः॑ । पू॒त॒भृदिति॑ पूत-भृत् । तान् । यत् । अगृ॑हीत्वा । उ॒पा॒कु॒र्यादित्यु॑प - आ॒कु॒र्यात् । पव॑मानम् । वीति॑ ।