ग्रहꣳ॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तं ॥ यत् कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वा ऽव॑मृ॒शेच्चतु॑ष्पादोऽस्य प॒शवः॑ प्र॒मायु॑काः स्यु॒र्यथ् स्कन्दे॒द्-यज॑मानः प्र॒मायु॑कः स्यात् प॒शवो॒ वै पृ॑षदा॒ज्यं प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्यꣳ स्कन्द॑ति॒ यत् पृ॑षदा॒ज्यं पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यं प्रा॒णो वा - [ ]
पदपाठः (Word-by-word)
ग्रह᳚म् । स॒ह । ऊ॒र्जा । गृ॒ह्णा॒मि॒ । अस्तृ॑तम् ॥ यत् । कृ॒ष्ण॒श॒कु॒न इति॑ कृष्ण - श॒कु॒नः । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । अ॒व॒मृ॒शेदित्य॑व - मृ॒शेत् । शू॒द्राः । अ॒स्य॒ । प्र॒मायु॑का॒ इति॑ प्र - मायु॑काः । स्युः॒ । यत् । श्वा । अ॒व॒मृ॒शेदित्य॑व - मृ॒शेत् । चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । अ॒स्य॒ । प॒शवः॑ । प्र॒मायु॑का॒ इति॑ प्र - मायु॑काः । स्युः॒ । यत् । स्कन्दे᳚त् । यज॑मानः । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । प॒शवः॑ । वै । पृ॒ष॒दा॒ज्यमिति॑ पृषत्-आ॒ज्यम् । प॒शवः॑ । वै । ए॒तस्य॑ । स्क॒न्द॒न्ति॒ । यस्य॑ । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । स्कन्द॑ति । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । पुनः॑ । गृ॒ह्णाति॑ । प॒शून् । ए॒व । अ॒स्मै॒ । पुनः॑ । गृ॒ह्णा॒ति॒ । प्रा॒ण इति॑ प्र - अ॒नः । वै । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । प्रा॒ण इति॑ प्र - अ॒नः । वै ॥