प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.8.2 TS 3.2.8.2
ऽऽहुः । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ᳚ स्तो॒कावप॒ तौ र॑राध ॥ सं न॒स्ताभ्याꣳ॑ सृजतुवि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चक्षु॑ष एषां॒ मन॑सश्च स॒न्धौ बृह॒स्पत॑ये॒ महि॒ षद् द्यु॒मन्नमः॑ ॥ नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्थ्-सो॑म॒पान् मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्थ् स॑म॒रे न धीर॒ एन॑श्चकृ॒वान् महि॑ ब॒द्ध ए॑षां ॥ तं ॅवि॑श्वकर्म॒न् - [ ]
▶ पदपाठः (Word-by-word)
आ॒हुः॒ ॥ प्र॒जा इति॑ प्र - जाः । निर्भ॑क्ता॒ इति॒ निः - भ॒क्ताः॒ । अ॒नु॒त॒प्यमा॑ना॒ इत्य॑नु-त॒प्यमा॑नाः । म॒ध॒व्यौ᳚ । स्तो॒कौ । अपेति॑ । तौ । र॒रा॒ध॒ ॥ समिति॑ । नः॒ । ताभ्या᳚म् । सृ॒ज॒तु॒ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । घो॒राः । ऋष॑यः । नमः॑ । अ॒स्तु॒ । ए॒भ्यः॒ ॥ चक्षु॑षः । ए॒षा॒म् । मन॑सः । च॒ । स॒धांविति॑ सं - धौ । बृह॒स्पत॑ये । महि॑ । सत् । द्यु॒मदिति॑ द्यु - मत् । नमः॑ ॥ नमः॑ । वि॒श्वक॑र्मण॒ इति॑ वि॒श्व - क॒र्म॒णे॒ । सः । उ॒ । पा॒तु॒ । अ॒स्मान् । अ॒न॒न्यान् । सो॒म॒पानिति॑ सोम - पान् । मन्य॑मानः ॥ प्रा॒णस्येति॑ प्र - अ॒नस्य॑ । वि॒द्वान् । स॒म॒र इति॑ सं-अ॒रे । न । धीरः॑ । एनः॑ । च॒कृ॒वान् । महि॑ । ब॒द्धः । ए॒षा॒म् ॥ तम् । वि॒श्व॒क॒र्म॒न्निति॑ विश्व - क॒र्म॒न्न् ।
पदसंख्या: 50