प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.2.8.3 TS 3.2.8.3
-प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसू᳚न्यानृ॒हुः । यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा ॥ नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्. यज्ञ्॒कृतो॑ य॒ज्ञ्का॑माः सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा न॒स्तस्मा॒ देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्या᳚स्ते सर्वे॑ दक्षि॒ण्या᳚स्तेभ्यो॒ यो दक्षि॑णां॒ न- [ ]
▶ पदपाठः (Word-by-word)
प्रेति॑ । मु॒ञ्च॒ । स्व॒स्तये᳚ । ये । भ॒क्षय॑न्तः । न । वसू॑नि । आ॒नृ॒हुः ॥ यान् । अ॒ग्नयः॑ । अ॒न्वत॑प्य॒न्तेत्य॑नु - अत॑प्यन्त । धिष्णि॑याः । इ॒यम् । तेषा᳚म् । अ॒व॒या । दुरि॑ष्ट्या॒ इति॒ दुः - इ॒ष्ट्यै॒ । स्वि॑ष्टि॒मिति॒ सु - इ॒ष्टि॒म् । नः॒ । ताम् । कृ॒णो॒तु॒ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ॥ नमः॑ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । अ॒भीति॑ । ये । नः॒ । अख्यन्न्॑ । य॒ज्ञ्॒कृत॒ इति॑ यज्ञ् - कृतः॑ । य॒ज्ञ्का॑मा॒ इति॑ य॒ज्ञ् - का॒माः॒ । सु॒दे॒वा इति॑ सु - दे॒वाः । अ॒का॒माः । वः॒ । दक्षि॑णाम् । न । नी॒नि॒म॒ । मा । नः॒ । तस्मा᳚त् । एन॑सः । पा॒प॒यि॒ष्ट॒ ॥ याव॑न्तः । वै । स॒द॒स्याः᳚ । ते । सर्वे᳚ । द॒क्षि॒ण्याः᳚ । तेभ्यः॑ । यः । दक्षि॑णाम् । न ।
पदसंख्या: 50