पूर्व॒ आ ऽल॑भन्त दर्.शपूर्णमा॒सा-वा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयाथ् सा॒क्षादे॒व द॑र्.शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्.शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनु-लो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्द्ध्वं तद॑नुलो॒मं पौ᳚र्णमा॒स्यै प्र॑ती॒चीनं॒ तत् प्र॑तिलो॒मं ॅयत् पौ᳚र्णमा॒सीं पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒-मुम॑प॒क्षीय॑माण॒-मन्वप॑ - [ ]
पदपाठः (Word-by-word)
पूर्वे᳚ । एति॑ । अ॒ल॒भ॒न्त॒ । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । आ॒लभ॑मान॒ इत्या᳚-लभ॑मानः । ए॒तौ । होमौ᳚ । पु॒रस्ता᳚त् । जु॒हु॒या॒त् । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । एति॑ । ल॒भे॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । एति॑ । ल॒भे॒त॒ । यः । ए॒न॒योः॒ । अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । च॒ । प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । च॒ । वि॒द्यात् । इति॑ । अ॒मा॒वा॒स्या॑या॒ इत्य॑मा - वा॒स्या॑याः । ऊ॒र्द्ध्वम् । तत् । अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । पौ॒र्ण॒मा॒स्या इति॑ पौर्ण - मा॒स्यै । प्र॒ती॒चीन᳚म् । तत् । प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । यत् । पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । पूर्वा᳚म् । आ॒लभे॒तेत्या᳚ - लभे॑त । प्र॒ति॒लो॒ममिति॑ प्रति-लो॒मम् । ए॒नौ॒ । एति॑ । ल॒भे॒त॒ । अ॒मुम् । अ॒प॒क्षीय॑माण॒मित्य॑प - क्षीय॑माणम् । अनु॑ । अपेति॑ ।