भव॑ति॒ व्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं ॅविदा॑न॒मित्या॒हा ऽन्न॑मे॒वाऽस्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं ॅवेदा ऽऽ*त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒द्-यत् पुरु॑षो॒ मन॑सा-ऽभि॒गच्छ॑ति॒ तद्-वा॒चा व॑दत्य र॒क्षसेत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीः स्पृह॒यद्-व॑र्णो अ॒ग्निरित्या॒हा-प॑चितिमे॒वा-ऽस्मि॑न् दधा॒त्य-प॑चितिमान् भवति॒ य ए॒वं - [ ]
पदपाठः (Word-by-word)
भव॑ति । व्यचि॑ष्ठम् । अन्न᳚म् । र॒भ॒सम् । विदा॑नम् । इति॑ । आ॒ह॒ । अन्न᳚म् । ए॒व । अ॒स्मै॒ । स्व॒द॒य॒ति॒ । सर्व᳚म् । अ॒स्मै॒ । स्व॒द॒ते॒ । यः । ए॒वम् । वेद॑ । एति॑ । त्वा॒ । जि॒घ॒र्मि॒ । वच॑सा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । तस्मा᳚त् । यत् । पुरु॑षः । मन॑सा । अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । तत् । वा॒चा । व॒द॒ति॒ । अ॒र॒क्षसा᳚ । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । मर्य॑श्री॒रिति॒ मर्य॑ - श्रीः॒ । स्पृ॒ह॒यद्व॑र्ण॒ इति॑ स्पृह॒यत्-व॒र्णः॒ । अ॒ग्निः । इति॑ । आ॒ह॒ । अप॑चिति॒मित्यप॑-चि॒ति॒म् । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । अप॑चितिमा॒नित्यप॑चिति - मा॒न् । भ॒व॒ति॒ । यः । ए॒वम् ।