प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.9.5 TS 5.1.9.5
-मव॑ रुन्धे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कं प्राऽ*वि॑शत् क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्ध॒ आज्ये॑न॒ सं ॅयौ᳚त्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्द्धय॒त्यथो॒ तेज॑सा॒ - [ ]
▶ पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । मुञ्जान्॑ । अवेति॑ । द॒धा॒ति॒ । ऊर्क् । वै । मुञ्जाः᳚ । ऊर्ज᳚म् । ए॒व । अ॒स्मै॒ । अपीति॑ । द॒धा॒ति॒ । अ॒ग्निः । दे॒वेभ्यः॑ । निला॑यत । सः । क्रु॒मु॒कम् । प्रेति॑ । अ॒वि॒श॒त् । क्रु॒मु॒कम् । अवेति॑ । द॒धा॒ति॒ । यत् । ए॒व । अ॒स्य॒ । तत्र॑ । न्य॑क्त॒मिति॒ नि - अ॒क्त॒म् । तत् । ए॒व । अवेति॑ । रु॒न्धे॒ । आज्ये॑न । समिति॑ । यौ॒ति॒ । ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ । यत् । आज्य᳚म् । प्रि॒येण॑ । ए॒व । ए॒न॒म् । धाम्ना᳚ । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अथो॒ इति॑ । तेज॑सा ।
पदसंख्या: 50