प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.4.10.1 TS 5.4.10.1
सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं ॅयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैनꣳ॒॒ स ए॑नं ॅयु॒क्तः सु॑व॒र्गं ॅलो॒कम॒भि व॑हति॒ यथ् सर्वा॑भिः प॒ञ्चभि॑-र्यु॒ञ्ज्याद्-यु॒क्तो᳚ऽस्या॒ऽग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातस्सव॒ने॑ऽभि मृ॑शति त्रि॒वृ - [ ]
▶ पदपाठः (Word-by-word)
सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । लो॒काय॑ । दे॒व॒र॒थ इति॑ देव - र॒थः । यु॒ज्य॒ते॒ । य॒त्रा॒कू॒तायेति॑ यत्र - आ॒कू॒ताय॑ । म॒नु॒ष्य॒र॒थ इति॑ मनुष्य - र॒थः । ए॒षः । खलु॑ । वै । दे॒व॒र॒थ इति॑ देव - र॒थः । यत् । अ॒ग्निः । अ॒ग्निम् । यु॒न॒ज्मि॒ । शव॑सा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । यु॒नक्ति॑ । ए॒व । ए॒न॒म् । सः । ए॒न॒म् । यु॒क्तः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । अ॒भीति॑ । व॒ह॒ति॒ । यत् । सर्वा॑भिः । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । यु॒ञ्ज्यात् । यु॒क्तः । अ॒स्य॒ । अ॒ग्निः । प्रच्यु॑त॒ इति॒ प्र - च्यु॒तः॒ । स्या॒त् । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ । आहु॑तय॒ इत्या - हु॒त॒यः॒ । स्युः । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ । स्तोमाः᳚ । अप्र॑तिष्ठिता॒नीत्यप्र॑ति - स्थि॒ता॒नि॒ । उ॒क्थानि॑ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । अ॒भीति॑ । मृ॒श॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् ।
पदसंख्या: 50

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सुवर्गायेत्यादि ॥ अग्नियोगविधिः । स्वर्गायैव लोकाय देवरथो युज्यते । मनुष्यरथस्तु यत्राकूताय यत्रक्वचिदाकूताय अभिप्रेताय देशाय यत्राभिप्रेतं देशं गन्तुं युज्यते । उभयत्रापि 'क्रियार्थोपपदस्य' इति कर्मणि चतुर्थी । प्रसिद्ध एव मनुष्यरथः कः पुनरसौ देवरथ इत्याह - एष इति । देवानां रमयिता रथः इष्टप्राप्तिहेतुत्वात् 'अग्निं युनज्मि' इत्यादिभिः तिसृभिरेनमग्निं युनक्त्येव अभिभवनक्षममेव करोति ॥
2 यदित्यादि ॥ सर्वाभिः पञ्चभिरपि ऋग्भिर्युञ्ज्यात् युगपदेव प्रातस्सवने तदाऽस्य युक्तो गमनयोग्यो जातस्तदानीमेव प्रच्युतस्स्यात् गन्तव्यं प्रतिगच्छेत् । तस्मिन्गते अग्न्यभावात् अप्रतिष्ठिता अप्रतिष्ठाने आहुतयस्य्युः स्तोमा उक्थानि च । तस्मात् पुरस्तात् प्रातरनुवाकात्तिसृभिः आद्याभिरभिमृशन् अग्निं युनक्ति । त्रित्वान्वयात्त्रिवृदग्निः सर्वोपि युक्तो भवति । ततश्च यथाऽनसि शकटे युक्ते गमनयोग्ये कृते आधीयते वोढव्यं द्रव्यजातमेवमेवैतत् । तस्मिन् अप्रच्युते आहुत्यादयः प्रतितिष्ठन्ति द्वाभ्यां युक्तत्वात् न सहसा प्रच्युत इति भावः । उभयत्रापि 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
3 कस्तर्हि ताभ्यामुपयोग इत्याह - यज्ञायज्ञियस्य यज्ञायज्ञशब्दोऽस्मिन् अस्तीति 'मतौ छस्सूक्तसाम्नोः' इति छः । यज्ञायज्ञियमग्निष्टोमसाम येनाग्निष्टोमः संतिष्ठते 'यज्ञायज्ञिय' इत्येतद्योनिकम् । तत्र स्तोत्रकाले द्वाभ्यां शिष्टाभ्यां अन्तरभिमृशति । एतावानित्यादि । अग्निष्टोम एव सर्वोपि यज्ञः नैतद्व्यतिरेकेण यज्ञोऽन्योऽस्ति । ननु उक्थ्यादयोऽन्ये यज्ञाः सन्तीत्यत आह - भूमा त्वेति । अस्यैव भूमा वृद्धिः सोत ऊर्ध्वमुक्थ्यादि क्रियते, न तु यज्ञान्तरम् । तस्मात्सर्वं ततोऽन्वारोहति यावत् । पूर्ववन्निघाताभावः । अथास्मिन्काले द्वाभ्यामभिमृशति तत उत्तरो यज्ञ उक्थ्यादिरेनं उपनमति शीघ्रमन्त्यायास्स्तोत्रीयायाः स्थापनात् पूर्वं 'विश्वस्य मूर्धन्नधि तिष्ठसि श्रितः' इति च मन्त्रलिङ्गात् । अथो अपि च संतत्यै अविच्छेदाय यज्ञानां भवति समाप्ते चेत् यज्ञायज्ञिये स्यात् समाप्तत्वात् यज्ञविच्छेदस्य ॥
4 प्र वा एष इति ॥ पुनश्चितिविधिः । अस्माद्यथावस्थिताल्लोकात् अग्निचित्प्रच्यवते अपगच्छति । तस्मादेतस्य अनिष्टके स्थाने आहुतिर्नावकल्पते यथावस्थिते ह्यग्निचितः पुनश्चितीष्टकारहिते चित्याग्नौ आहुतिर्न युज्यते यदि तादृशे जुहुयात् सा आहुतिः स्रवति नश्यति । अनन्तरं च यज्ञो यजमानश्च पराभवतः । पुनश्चितेस्तु चयनात् सर्वदोषाप्रसङ्ग इति । अन्य आहुः - अस्मिन्काले अग्निहोत्रादिकं यत्कर्तव्यं यावज्जीवादिविधानात् अवश्यकर्तव्यं च तस्मादप्येष प्रच्यवते न ह्यग्निचितोनिष्टकचिते देशे आहुतिस्सम्भवति । तस्माद्यामाहुतिमग्निहोत्रादिमनिष्टके जुहोति सा नश्यति । यज्ञादिश्च पराभवति । तस्मात् पुनश्चितिराहुतीनां अग्निहोत्रादनीं अपि प्रतिष्ठित्यै अस्रवणाय भवतीति ॥
5 अष्टाविति ॥ 'येनर्षयः' इत्यादिभिः । यदेकादशेति । उपदधातीत्येव । त्रैष्टुभेनेति । उपदधातीत्येवैनं छन्दसा चिनुत इत्येव । एवमुत्तरत्रापि । नपात्क इति । नपात्को नामायं पुनश्चितिराहुतीनां अग्निहोत्रादीनां अपि प्रतिष्ठित्यै । अग्निर्नपात् नप्ता चतुर्थः पुत्रस्थानीयः । तस्मात्स एष पूर्वान् त्रीन् पुरुषान् पुरुषानन्तरोपि तृतीयं पुरुषमपि व्याप्य तैस्सहान्नमत्ति । यद्वा - न पातयतीति नपात् 'न भ्राण्णपात्' इति निपात्यते । अपत्यसन्तानकारीत्यर्थः । अथ समृद्ध्यर्थतां पुनश्चितेराह ॥
6 यथेत्यादि ॥ गतम् । अ ... त्यादिश्च समाप्तौ कोपहेतुना पुनश्चित्येति मन्यते । चेतव्येति । पुनश्चित्यैव । चितेः पूरणे निघाताभावः । किञ्च यो भागधेयेन उपहारं विबोधयति स खलु तोषयत्येव तं न कोपयति ॥
7 मनुरित्यादि ॥ गतम् । उक्तमर्थं शिष्टाचारेणापि प्रथयति ॥
इति पञ्चमे चतुर्थे दशमोनुवाकः ॥