-सु॑रानजय॒न् तदप्र॑तिरथस्या-प्रतिरथ॒त्वं ॅयदप्र॑तिरथं द्वि॒तीयो॒ होता॒ऽन्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्यान् जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चं भ॑वति॒ दशा᳚क्षरा वि॒राड् वि॒राजे॒मौ लो॒कौ विधृ॑ता व॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वा ऽऽ*ग्नी᳚द्ध्र॒माग्नी॒द्ध्रे - [ ]
पदपाठः (Word-by-word)
असु॑रान् । अ॒ज॒य॒न्न् । तत् । अप्र॑तिरथ॒स्येत्यप्र॑ति - र॒थ॒स्य॒ । अ॒प्र॒ति॒र॒थ॒त्वमित्य॑प्रतिरथ - त्वम् । यत् । अप्र॑तिरथ॒मित्यप्र॑ति-र॒थ॒म् । द्वि॒तीयः॑ । होता᳚ । अ॒न्वाहेत्य॑नु - आह॑ । अ॒प्र॒ति । ए॒व । तेन॑ । यज॑मानः । भ्रातृ॑व्यान् । ज॒य॒ति॒ । अथो॒ इति॑ । अन॑भिजित॒मित्यन॑भि - जि॒त॒म् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । द॒श॒र्चमिति॑ दश - ऋ॒चम् । भ॒व॒ति॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । इ॒मौ । लो॒कौ । विधृ॑ता॒विति॒ वि - धृ॒तौ॒ । अ॒नयोः᳚ । लो॒कयोः᳚ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । अथो॒ इति॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अस॑त् । इ॒व॒ । वै । अ॒न्तरि॑क्षम् । अ॒न्तरि॑क्षम् । इ॒व॒ । आग्नी᳚ध्र॒मित्याग्नि॑ - इ॒ध्र॒म् । आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।