खलु॒ वै र॑क्षो॒हाऽग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीम॒हीत्या॑हा॒ग्नि-मे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी᳚क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां᳚ ॅव्र॒तप॑तिः॒ स ए॒वैनं॑ ॅव्र॒तमा ल॑भंयति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वो - [ ]
पदपाठः (Word-by-word)
खलु॑ । वै । र॒क्षो॒हेति॑ रक्षः - हा । अग्ने᳚ । त्वम् । स्विति॑ । जा॒गृ॒हि॒ । व॒यम् । स्विति॑ । म॒न्दि॒षी॒म॒हि॒ । इति॑ । आ॒ह॒ । अ॒ग्निम् । ए॒व । अ॒धि॒पामित्य॑धि - पाम् । कृ॒त्वा । स्व॒पि॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । अ॒व्र॒त्यम् । इ॒व॒ । वै । ए॒षः । क॒रो॒ति॒ । यः । दी॒क्षि॒तः । स्वपि॑ति । त्वम् । अ॒ग्ने॒ । व्र॒त॒पा इति॑ व्रत-पाः । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒ग्निः । वै । दे॒वाना᳚म् । व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । सः । ए॒व । ए॒न॒म् । व्र॒तम् । एति॑ । ल॒म्भ॒य॒ति॒ । दे॒वः । एति॑ । मर्त्ये॑षु । एति॑ । इति॑ । आ॒ह॒ । दे॒वः ।