ॅव्य॑र्द्धयेय॒-मित्यू॒र्द्ध्वां ॅवा॒ तस्यावा॑चीं॒ ॅवाऽवो॑हेदू॒र्जैवैनं॒ ॅव्य॑र्द्धयति॒ यदि॑ का॒मये॑त॒ वर्.षु॑कः प॒र्जन्यः॑ स्या॒दित्य-वा॑ची॒मवो॑हे॒द् वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्.षुकः स्या॒दित्यू॒र्द्ध्वामुदू॑हे॒द् वृष्टि॑मे॒वोद् य॑च्छति पितृ॒णां निखा॑तं मनु॒ष्या॑णामू॒र्द्ध्वं निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीनाꣳ रश॒ना विश्वे॑षां- [ ]
पदपाठः (Word-by-word)
वीति॑ । अ॒द्र्ध॒ये॒य॒म् । इति॑ । ऊ॒द्र्ध्वाम् । वा॒ । तस्य॑ । अवा॑चीम् । वा॒ । अवेति॑ । ऊ॒हे॒त् । ऊ॒र्जा । ए॒व । ए॒न॒म् । वीति॑ । अ॒द्र्ध॒य॒ति॒ । यदि॑ । का॒मये॑त । वर्.षु॑कः । प॒र्जन्यः॑ । स्या॒त् । इति॑ । अवा॑चीम् । अवेति॑ । ऊ॒हे॒त् । वृष्टि᳚म् । ए॒व । नीति॑ । य॒च्छ॒ति॒ । यदि॑ । का॒मये॑त । अव॑र्.षुकः । स्या॒त् । इति॑ । ऊ॒द्र्ध्वाम् । उदिति॑ । ऊ॒हे॒त् । वृष्टि᳚म् । ए॒व । उदिति॑ । य॒च्छ॒ति॒ । पि॒तृ॒णाम् । निखा॑त॒मिति॒ नि - खा॒त॒म् । म॒नु॒ष्या॑णाम् । ऊ॒द्र्ध्वम् । निखा॑ता॒दिति॒ नि - खा॒ता॒त् । एति॑ । र॒श॒नायाः᳚ । ओष॑धीनाम् । र॒श॒ना । विश्वे॑षां ।