प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.3.4 TS 6.4.3.4
कार्.षि॑र॒सीत्या॑ह॒ शम॑लमे॒वाऽऽ*सा॒मप॑ प्लावयति समु॒द्रस्य॒ वोऽक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञ्स्य॒ चात्वा॑लं ॅय॒ज्ञो व॑सती॒वरीर्॑.होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ सꣳ॒॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञ्स्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यद्ध्व॒र्योऽवे॑र॒पा(3) इत्या॑हो॒ते ( ) -म॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद् यु॒क्थ्यः॑ परि॒धौ नि मा᳚र्ष्टि॒ यद् य॑तिरा॒त्रो यजु॒र्वद॒न् प्र प॑द्यते यज्ञ्क्रतू॒नां ॅव्यावृ॑त्त्यै ॥
▶ पदपाठः (Word-by-word)
कार्.षिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शम॑लम् । ए॒व । आ॒सा॒म् । अपेति॑ । प्ला॒व॒य॒ति॒ । स॒मु॒द्रस्य॑ । वः॒ । अक्षि॑त्यै । उदिति॑ । न॒ये॒ । इति॑ । आ॒ह॒ । तस्मा᳚त् । अ॒द्यमा॑नाः । पी॒यमा॑नाः । आपः॑ । न । क्षी॒य॒न्ते॒ । योनिः॑ । वै । य॒ज्ञ्स्य॑ । चात्वा॑लम् । य॒ज्ञ्ः । व॒स॒ती॒वरीः᳚ । हो॒तृ॒च॒म॒समिति॑ होतृ - च॒म॒सम् । च॒ । मै॒त्रा॒व॒रु॒ण॒च॒म॒समिति॑ मैत्रावरुण - च॒म॒सम् । च॒ । सꣳ॒॒स्पर्श्येति॑ सं - स्पर्श्य॑ । व॒स॒ती॒वरीः᳚ । व्यान॑य॒तीति॑ वि - आन॑यति । य॒ज्ञ्स्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । अथो॒ इति॑ । स्वात् । ए॒व । ए॒नाः॒ । योनेः᳚ । प्रेति॑ । ज॒न॒य॒ति॒ । अद्ध्व॑र्यो॒ इति॑ । अवेः᳚ । अ॒पा(3)ः । इति॑ । आ॒ह॒ । उ॒त ( ) । ई॒म् । अ॒न॒न्न॒मुः॒ । उ॒त । इ॒माः । प॒श्य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । यदि॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । जु॒होति॑ । यदि॑ । उ॒क्थ्यः॑ । प॒रि॒धाविति॑ परि - धौ । नीति॑ । मा॒र्ष्टि॒ । यदि॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । यजुः॑ । वदन्न्॑ । प्रेति॑ । प॒द्य॒ते॒ । य॒ज्ञ्॒क्र॒तू॒नामिति॑ यज्ञ् - क्र॒तू॒नाम् । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ॥
पदसंख्या: 75