प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.4.9.4 TS 6.4.9.4
प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्याद् द्विदेव॒त्या᳚न् भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वाऽऽ*त्मन् धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐ᳚न्द्रवाय॒वश्चक्षु॑-र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वं भ॑क्षयति॒ तस्मा᳚त् पु॒रस्ता᳚द् वा॒चा व॑दति पु॒रस्ता᳚न्मैत्रावरु॒णं तस्मा᳚त् पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑ परि॒हार॑माश्वि॒नं तस्मा᳚थ् स॒र्वतः॒ श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्या॑- [ ]
▶ पदपाठः (Word-by-word)
प॒शुभि॒रिति॑ प॒शु - भिः॒ । प्रा॒णानिति॑ प्र-अ॒नान् । अ॒न्तः । द॒धी॒त॒ । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । द्वि॒दे॒व॒त्या॑निति॑ द्वि-दे॒व॒त्यान्॑ । भ॒क्ष॒यि॒त्वा । इडा᳚म् । उपेति॑ । ह्व॒य॒ते॒ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । आ॒त्मन्न् । धि॒त्वा । प॒शून् । उपेति॑ । ह्व॒य॒ते॒ । वाक् । वै । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र-वा॒य॒वः । चक्षुः॑ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा-व॒रु॒णः । श्रोत्र᳚म् । आ॒श्वि॒नः । पु॒रस्ता᳚त् । ऐ॒न्द्र॒वा॒य॒वमित्यै᳚न्द्र - वा॒य॒वम् । भ॒क्ष॒य॒ति॒ । तस्मा᳚त् । पु॒रस्ता᳚त् । वा॒चा । व॒द॒ति॒ । पु॒रस्ता᳚त् । मै॒त्रा॒व॒रु॒णमिति॑ मैत्रा - व॒रु॒णम् । तस्मा᳚त् । पु॒रस्ता᳚त् । चक्षु॑षा । प॒श्य॒ति॒ । स॒र्वतः॑ । प॒रि॒हार॒मिति॑ परि-हार᳚म् । आ॒श्वि॒नम् । तस्मा᳚त् । स॒र्वतः॑ । श्रोत्रे॑ण । शृ॒णो॒ति॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । ए॒ते । यत् । द्वि॒दे॒व॒त्या॑ इति॑ द्वि - दे॒व॒त्याः᳚ ।
पदसंख्या: 50