ॅलो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ( ) ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑. ऋ॒द्ध्वोत् ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒स-स्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि-आरो॑हन्ति । यत् । अ॒न्यतः॑ । पृ॒ष्ठानि॑ । स्युः । विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् । स्या॒त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । ओजः॑ । ए॒व । वी॒र्य᳚म् । म॒द्ध्य॒तः । द॒ध॒ते॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् ( ) । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥