सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् । वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने ॥१॥
चतुर्दशः सर्गः 4.14
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
विसार्य सर्वतो दृष्टिम् कानने कानन प्रियः । सुग्रीवो विपुल ग्रीवः क्रोधम् आहारयद् भृशम् ॥२॥
ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् । परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम् ॥३॥
गर्जन् इव महामेघो वायु वेग पुरस्सरः । अथ बालार्क सदृशो दृप्त सिम्ह गतिः ततः ॥४॥
दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यम् अब्रवीत् । हरि वागुरया व्याप्तम् तप्त कांचन तोरणाम् ॥५॥
प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् । प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा ॥६॥
सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः । एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः ॥७॥
तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः । कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया ॥८॥
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव । सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया ॥९॥
विपरीत इव आकाशे सूर्यो नक्षत्र मालया । अद्य वालि समुत्थम् ते भयम् वैरम् च वानर ॥१०॥
एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे । मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम् ॥११॥
वाली विनिहतो यावद् वने पांसुषु चेष्टते । यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते ॥१२॥
ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् । प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः ॥१३॥
ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया । अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता ॥१४॥
धर्म लोभ परीतेन न च वक्ष्ये कथंचन । सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम् ॥१५॥
प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः । तद् आह्वान निमित्तम् च वालिनो हेममालिनः ॥१६॥
सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः । जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात् ॥१७॥
निष्पतिष्यति असंगेन वाली स प्रियसम्युगः । रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे ॥१८॥
जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः । स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः ॥१९॥
ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् । तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥२०॥
राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः । द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः । पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ॥२१॥
ततः स जीमूत कृत प्रणादो नादम् हि अमुंचत् त्वरया प्रतीतः । सूर्यात्मजः शौर्य विवृद्ध तेजाः सरित् पतिर्वा अनिल चंचल ऊर्मिः ॥२२॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे चतुर्दशः सर्गः ॥