रामायणम्

पंचदशः सर्गः 4.15

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः । शुश्राव अन्तःपुर गतो वाली भ्रातुर् अमर्षणः ॥१॥

श्रुत्वा तु तस्य निनदम् सर्वभूत प्रकंपनम् । मदः च एकपदे नष्टः क्रोधः च आपादितो महान् ॥२॥

ततो रोष परीत अंगो वाली स कनक प्रभः । उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥३॥

वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः । भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥४॥

शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततो हरिः । वेगेन च पद न्यासैर् दारयन् इव मेदिनीम् ॥५॥

तम् तु तारा परिष्वज्य स्नेहाद् दर्शित सौहृदा । उवाच त्रस्त संभ्रांता हित उदर्कम् इदम् वचः ॥६॥

साधु क्रोधम् इमम् वीर नदी वेगम् इव आगतम् । शयनाद् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम् ॥७॥

काल्यम् एतेन संग्रामम् करिष्यसि च वानर । वीर ते शत्रु बाहुल्यम् फल्गुता वा न विद्यते ॥८॥

सहसा तव निष्क्रामो मम तावत् न रोचते । श्रूयताम् अभिधास्यामि यन् निमित्तम् निवार्यते ॥९॥

पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि । निष्पत्य च निरस्तः ते हन्यमानो दिशो गतः ॥१०॥

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इह एत्य पुनर् आह्वानम् शंकाम् जनयति इव मे ॥११॥

दर्पः च व्यवसायः च यादृशः तस्य नर्दतः । निनादस्य च संरंभो न एतत् अल्पम् हि कारणम् ॥१२॥

न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् । अवष्टब्ध सहायः च यम् आश्रित्य एष गर्जति ॥१३॥

प्रकृत्या निपुणः चैव बुद्धिमान् चैव वानरः । न अपरीक्षित वीर्येण सुग्रीवः सख्यम् एष्यति ॥१४॥

पूर्वम् एव मया वीर श्रुतम् कथयतो वचः । अंगदस्य कुमारस्य वक्ष्यामि अद्य हितम् वचः ॥१५॥

अंगदः तु कुमरो अयम् वनांतम् उपनिर्गतः । प्रवृत्तिः तेन कथिता चारैः असीत् निवेदिता ॥१६॥

अयोध्य अधिपतेः पुत्रौ शूरौ समर दुर्जयौ । इक्ष्वाकूणाम् कुले जातौ प्रथितौ राम लक्ष्मणौ ॥१७॥

सुग्रीव प्रिय कामार्थम् प्राप्तौ तत्र दुरासदौ । स ते भ्रातुर् हि विख्यातः सहायो रण कर्मणि ॥१८॥

रामः पर बलमर्दी युगान्त अग्निः इव उत्थितः । निवास वृक्षः साधूनाम् आपन्नानाम् परा गतिः ॥१९॥

आर्तानाम् संश्रयः चैव यशसः च एक भाजनम् । ज्ञान विज्ञान संपन्नो निदेशो निरतः पितुः ॥२०॥

धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् । तत् क्षमो न विरोधः ते सह तेन महात्मना ॥२१॥

दुर्जयेन अप्रमेयेण रामेण रण कर्मसु । शूर वक्ष्यामि ते किंचिन् न च इच्छामि अभ्यसूयितुम् ॥२२॥

श्रूयताम् क्रियताम् चैव तव वक्ष्यामि यद् हितम् । यौवराज्येन सुग्रीवम् तूर्णम् साधु अभिषेचय ॥२३॥

विग्रहम् मा कृथा वीर भ्रात्रा राजन् यवीयसा । अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम् ॥२४॥

सुग्रीवेण च संप्रीतिम् वैरम् उत्सृज्य दूरतः । लालनीयो हि ते भ्राता यवीयान् एष वानरः ॥२५॥

तत्र वा सन्निहस्थो वा सर्वथा बन्धुः एव ते । नहि तेन समम् बन्धुम् भुवि पश्यामि किंचन ॥२६॥

दान मानादि सत्कर्रैः कुरुष्व प्रत्यनन्तरम् । वैरम् एतत् सम् उत्स्रृज्य तव पार्श्वे स तिष्ठतु ॥२७॥

सुग्रीवो विपुल ग्रीवो महाबन्धुः मतः तव । भ्रातृ सौहृदम् आलंब्य न अन्या गति इह अस्ति ते ॥२८॥

यदि ते मत् प्रियम् कार्यम् यदि च अवैषि माम् हिताम् । याच्यमानः प्रियत्वेन साधु वाक्यम् कुरुष्व मे ॥२९॥

प्रसीद पथ्यम् श्रुणु जल्पितम् हि मे न रोषम् एव अनुविधातुम् अर्हसि । क्षमो हि ते कोशल राज सूनुना न विग्रहः शक्र सम तेजसा ॥३०॥

तदा हि तारा हितम् एव वाक्यम् तम् वालिनम् पथ्यम् इदम् बभाषे । न रोचते तद् वचनम् हि तस्य काल अभिपन्नस्य विनाश काले ॥३१॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पंचदशः सर्गः ॥

Listen to the sarga
0:00