ताम् एवम् ब्रुवतीम् ताराम् ताराधिप निभ आननाम् । वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत् ॥१॥
षोडशः सर्गः 4.16
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
गर्जतो अस्य च सुसंरब्धम् भ्रातुः शत्रोर् विशेषतः । मर्षयिष्यामि केन कारणेन वरानने ॥२॥
अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् । धर्षणाम् अर्षणम् भीरु मरणात् अतिरिच्यते ॥३॥
सोढुम् न च समर्थो अहम् युद्ध कामस्य संयुगे । सुग्रीवस्य च संरंभम् हीन ग्रीवस्य गर्जतम् ॥४॥
न च कार्यो विषादः ते राघवम् प्रति मत् कृते । धर्मज्ञः च कृतज्ञः च कथम् पापम् करिष्यति ॥५॥
निवर्तस्व सह स्त्रीभिः कथम् भूयो अनुगच्छसि । सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता ॥६॥
प्रति योत्स्यामि अहम् गत्वा सुग्रीवम् जहि संभ्रमम् । दर्पम् च अस्य विनेष्यामि न च प्राणैर् वियोक्ष्यते ॥७॥
अहम् हि अजि स्थितस्य अस्य करिष्यामि यत् ईप्सितम् । वृक्षैः मुष्टि प्रहारैः च पीडितः प्रति यास्यति ॥८॥
न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् । कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि ॥९॥
शापिता असि मम प्राणैः निवर्तस्व जनेन च । अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे ॥१०॥
तम् तु तारा परिष्वज्य वालिनम् प्रिय वादिनी । चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम् ॥११॥
ततः स्वस्त्ययनम् कृत्वा मंत्रवित् विजय एषिणी । अंतःपुरम् सह स्त्रीभिः प्रविष्टा शोक मोहिता ॥१२॥
प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् । नगर्या निर्ययौ क्रुद्धो महा सर्प इव श्वसन् ॥१३॥
स निःश्वस्य महारोषो वाली परम वेगवान् । सर्वतः चारयन् दृष्टिम् शत्रु दर्शन कांक्षया ॥१४॥
स ददर्श ततः श्रीमान् सुग्रीवम् हेम पिङ्गलम् । सुसंवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम् ॥१५॥
तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् । गाढम् परिदधे वासो वाली परम कोपिनः ॥१६॥
स वाली गाढ संवीतो मुष्टिम् उद्यम्य वीर्यवान् । सुग्रीवम् एव अभिमुखो ययौ योद्धुम् कृत क्षणः ॥१७॥
श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः । सुग्रीवो अपि समुद्दिश्य वालिनम् हेम मालिनम् ॥१८॥
तम् वाली क्रोध ताम्राक्षः सुग्रीवम् रण कोविदम् । आपतंतम् महा वेगम् इदम् वचनम् अब्रवीत् ॥१९॥
एष मुष्टिर् महान् बद्धो गाढः सुनियत अंगुलिः । मया वेग विमुक्तः ते प्राणान् आदाय यास्यति ॥२०॥
एवम् उक्तः तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् । तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥२१॥
ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः । अभवत् शोणित उद्गारी सापीड इव पर्वतः ॥२२॥
सुग्रीवेण तु निःशंकम् सालम् उत्पाट्य तेजसा । गात्रेषु अभिहतो वाली वज्रेण इव महा गिरिः ॥२३॥
स तु वृक्षेण निर्भग्नः साल ताडन विह्वलः । गुरु भार भर आक्रान्ता नौः ससार्था इव सागरे ॥२४॥
तौ भीम बल विक्रान्तौ सुपर्ण सम वेगिनौ । प्रयुद्धौ घोर वपुषौ चन्द्र सूर्यौ इव अंबरे ॥२५॥
परस्परम् अमित्र घ्नौ च्छिद्र अन्वेषण तत्परौ । ततो अवर्धत वाली तु बल वीर्य समन्वितः ॥२६॥
सूर्य पुत्रो महावीर्यः सुग्रीवः परिहीयत । वालिना भग्न दर्पः तु सुग्रीवो मन्द विक्रमः ॥२७॥
वालिनम् प्रति सामर्षो दर्शयामास राघवम् । वृक्षैः स शाखैः शिखरैः वज्र कोटि निभैः नखैः ॥२८॥
मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनः पुनः । तयोः युद्द्धम् अभूत् घोरम् वृत्र वासवोः इव ॥२९॥
तौ शोणितात्कौ युध्येताम् वानारौ वन् चारिणौ । मेघौ इव महा शब्दैः तर्जमानौ परस्परम् ॥३०॥
हीयमानम् अथ अपश्यत् सुग्रीवम् वानरेश्वरम् । प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर् ॥३१॥
ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् । स शरम् वीक्षते वीरो वालिनो वध कांक्षया ॥३२॥
ततो धनुषि संधाय शरम् आशी विष उपमम् । पूरयामास तत् चापम् काल चक्रम् इव अन्तकः ॥३३॥
तस्य ज्यातल घोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुर् मृगाः च एव युगांत इव मोहिताः ॥३४॥
मुक्तस्तु वज्र निर्घोषः प्रदीप्त अशनि संनिभः । राघवेण महा बाणो वालि वक्षसि पातितः ॥३५॥
ततः तेन महातेजा वीर्य युक्तः कपीश्वरः । वेगेन अभिहतो वाली निपपात मही तले ॥३६॥
इन्द्र ध्वज इव उद्धूत पौर्ण मास्याम् महीतले । अश्वयुक् समये मासि गत सत्त्वो विचेतनः । बाष्प संरुद्ध कण्ठस्तु वाली च आर्त स्वरः शनैः ॥३७॥
नरोत्तमः काल युगांतकोपमम् शरोत्तमम् कांचन रूप्यभूषितम् । ससर्ज दीप्तम् तम् अमित्र मर्दनम् स धूममग्निम् मुखतो यथा हरः ॥३८॥
अथ उक्षितः शोणित तोय विस्रवैः सुपुष्पित अशोक इव अचलोद्गतः । विचेतनो वासव सूनुर् आहवे प्रभ्रञ्शित इन्द्र ध्वजवत् क्षितिम् गतः ॥३९॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षोडशः सर्गः ॥