रामायणम्

सप्तदशः सर्गः 4.17

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः शरेण अभिहतो रामेण रण कर्कशः । पपात सहसा वाली निकृत्तैव पादपः ॥१॥

स भूमौ न्यस्त सर्वांगः तप्त कांचन भूषणः । अपतत् देव राजस्य मुक्त रश्मिर् इव ध्वजः ॥२॥

अस्मिन् निपतिते भूमौ हरि ऋषाणाम् गणेश्वरे । नष्ट चन्द्रम् इव व्योम न व्यराजत मेदिनी ॥३॥

भूमौ निपतितस्य अपि तस्य देहम् महात्मनः । न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः ॥४॥

शक्र दत्ता वरा माला कान्चनी रत्न भूषिता । दधार हरि मुख्यस्य प्राणान् तेजः श्रियम् च सा ॥५॥

स तया मालया वीरो हैमया हरियूथपः । संध्यानुगत पर्यन्तः पयोधर इव अभवत् ॥६॥

तस्य माला च देहः च मर्मघाती च यः शरः । त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते ॥७॥

तत् अस्त्रम् तस्य वीरस्य स्वर्ग मार्ग प्रभावनम् । राम बाणासन क्षिप्तम् आवहत् परमाम् गतिम् ॥८॥

तम् तथा पतितम् संख्ये गत अर्चिषम् इव अनलम् । ययातिम् इव पुण्यान्ते देव लोकात् परिच्युतम् ॥९॥

आदित्यम् इव कालेन युगान्ते भुवि पातितम् । महेन्द्रम् इव दुर्धर्षम् उपेन्द्रम् इव दुस्सहम् ॥१०॥

महेन्द्र पुत्रम् पतितम् वालिनम् हेम मालिनम् । व्यूढ उरस्कम् महाबाहुम् दीप्तास्यम् हरि लोचनम् ॥११॥

लक्ष्मण अनुचरो रामो ददर्श उपससर्प च । तम् तथा पतितम् वीरम् गत अर्चिष्मतम् इव अनलम् ॥१२॥

बहुमान्य च तम् वीरम् वीक्षमाणम् शनैरिव । उपयातौ महावीर्यौ भ्रातरौ राम लक्ष्मणौ ॥१३॥

तम् दृष्ट्वा राघवम् वाली लक्ष्मणम् च महाबलम् । अब्रवीत् परुषम् वाक्यम् प्रश्रितम् धर्म संहितम् ॥१४॥

स भूमौ अल्पतेजोसुः निहतो नष्ट चेतनः । अर्थ सहितया वाचा गर्वितम् रण गर्वितम् ॥१५॥

त्वम् नराधिपतेः पुत्रः प्रथितः प्रिय दर्शनः । पराङ्मुख वधम् कृत्वा को अत्र प्राप्तः त्वया गुणः । यदहम् युद्ध सम्रब्धः त्वत् कृते निधनम् गतः ॥१६॥

कुलीनः सत्त्व संपन्नः तेजस्वी चरितव्रतः । रामः करुणवेदी च प्रजानाम् च हितेरतः ॥१७॥

सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः । इति एतत् सर्व भूतानि कथयन्ति यशो भुवि ॥१८॥

दमः शमः क्षमा धर्मो धृति सत्यम् पराक्रमः । पर्थिवानाम् गुणा राजन् दण्डः च अपकारिषु ॥१९॥

तान् गुणान् संप्रधार्य अहम् अग्र्यम् च अभिजनम् तव । तारया प्रतिषिद्धो अपि सुग्रीवेण समागतः ॥२०॥

न माम् अन्येन संरब्धम् प्रमत्तम् वेद्धुम् अर्हसि । इति मे बुद्धिर् उत्पन्ना बभूव अदर्शने तव ॥२१॥

न त्वाम् विनिहत आत्मानम् धर्म ध्वजम् अधार्मिकम् । जाने पाप समाचारम् तृणैः कूपम् इव आवृतम् ॥२२॥

सताम् वेष धरम् पापम् प्रच्छन्नम् इव पावकम् । न अहम् त्वाम् अभिजानामि धर्म छद्माभि संवृतम् ॥२३॥

विषये वा पुरे वा ते यदा पापम् करोमि अहम् । न च त्वाम् अवजाने अहं कस्मात् त्वम् हंसि अकिल्बिषम् ॥२४॥

फल मूल अशनम् नित्यम् वानरम् वन गोचरम् । माम् इह अप्रतियुध्यन्तम् अन्येन च समागतम् ॥२५॥

त्वम् नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः । लिन्गम् अपि अस्ति ते राजन् दृश्यते धर्म सम्हितम् ॥२६॥

कः क्षत्रिय कुलेजातः श्रुतवान् नष्टसंशयः । धर्म लिंग प्रतिच्छन्नः क्रूरम् कर्म समाचरेत् ॥२७॥

राम राघव कुले जातो धर्मवान् इति विश्रुतः । अभव्यो भव्य रूपेण किम् अर्थम् परिधावसे ॥२८॥

साम दानम् क्षमा धर्मः सत्यम् धृति पराक्रमौ । पार्थिवानाम् गुणा राजन् दण्डः च अपि अपकारिषु ॥२९॥

वयम् वनचरा राम मृगा मूल फल अशनाः । एषा प्रकृतिर् अस्माकम् पुरुषः त्वम् नरेश्वरः ॥३०॥

भूमिर् हिरण्यम् रूपम् च निग्रहे कारणानि च । तत्र कः ते वने लोभो मदीयेषु फलेषु वा ॥३१॥

नयः च विनयः च उभौ निग्रह अनुग्रहौ अपि । राज वृत्तिर् असंकीर्णा न नृपाः काम वृत्तयः ॥३२॥

त्वम् तु काम प्रधानः च कोपनः च अनवस्थितः । राज वृत्तेषु संकीर्णः शरासन परायणः ॥३३॥

न ते अस्ति अपचितिः धर्मे न अर्थे बुद्धिर् अवस्थिता । इन्द्रियैः काम वृत्तः सन् कृष्यसे मनुजेश्वर ॥३४॥

हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् । किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम् ॥३५॥

राजहा ब्रह्महा गोघ्नः चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरय गामिनः ॥३६॥

सूचकः च कदर्यः च मित्र्घ्नो गुरुतल्पगः । लोकं पापात्मानम् एते गच्छन्ते न अत्र संशयः ॥३७॥

अधार्यम् चर्म मे सद्भी रोमाणि अस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वत् विधैः धर्मचारिभिः ॥३८॥

पंच पंच नखा भक्ष्या ब्रह्म क्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मः च पंचमः ॥३९॥

चर्म च अस्थि च मे राजन् न स्पृशन्ति मनीषिणः । अभक्ष्याणि च मांसानि सो अहम् पंच नखो हतः ॥४०॥

तारया वाक्यम् उक्तो अहम् सत्यम् सर्वज्ञया हितम् । तद् अतिक्रम्य मोहेन कालस्य वशम् आगतः ॥४१॥

त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा । प्रमदा शील संपूर्णा पति एव च विधर्मिणा ॥४२॥

शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रित मानसः । कथम् दशरथेन त्वम् जातः पापो महात्मना ॥४३॥

छिन्न चारित्र्य कक्ष्येण सताम् धर्म अतिवर्तिना । त्यक्त धर्म अंकुशेन अहम् निहतो राम हस्तिना ॥४४॥

अशुभम् च अपि अयुक्तम् च सताम् च एव विगर्हितम् । वक्ष्यसे च ईदृशम् कृत्वा सद्भिः सह समागतः ॥४५॥

उदासीनेषु यो अस्मासु विक्रमो अयम् प्रकाशितः । अपकारिषु ते राम न एवम् पश्यामि विक्रमम् ॥४६॥

दृश्यमानः तु युध्येथा मया युधि नृपात्मज । अद्य वैवस्वतम् देवम् पश्येः त्वम् निहतो मया ॥४७॥

त्वया अदृश्येन तु रणे निहतो अहम् दुरासदः । प्रसुप्तः पन्नगेन इव नरः पाप वशम् गतः ॥४८॥

सुग्रीव प्रिय कामेन यद् अहम् निहतः त्वया । माम् एव यदि पूर्वम् त्वम् एतद् अर्थम् अचोदयः । मैथिलिम् अहम् एक आह्ना तव च आनीतवान् भवेः ॥४९॥

राक्षसम् च दुरात्मानाम् तव भार्य अपहारिणम् । कण्ठे बद्ध्वा प्रदद्याम् ते अनिहतम् रावणम् रणे ॥५०॥

न्यस्ताम् सागर तोये वा पाताले वा अपि मैथिलीम् । आनयेयम् तव आदेशात् श्वेताम् अश्वतरीम् इव ॥५१॥

युक्तम् यत् प्रप्नुयात् राज्यम् सुग्रीवः स्वर् गते मयि । अयुक्तम् यद् अधर्मेण त्वया अहम् निहतो रणे ॥५२॥

कामम् एवम् विधम् लोकः कालेन विनियुज्यते । क्षमम् चेत् भवता प्राप्तम् उत्तरम् साधु चिंत्यताम् ॥५३॥

इति एवम् उक्त्वा परिशुष्क वक्त्रः शर अभिघातात् व्यथितो महात्मा । समीक्ष्य रामम् रवि संनिकाशम् तूष्णीम् बभौ वानर राज सूनुः ॥५४॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे सप्तदशः सर्गः ॥

Listen to the sarga
0:00