इति उक्तः प्रश्रितम् वाक्यम् धर्म अर्थ सहितम् हितम् । परुषम् वालिना रामो निहतेन विचेतसा ॥१॥
अष्टदशः सर्गः 4.18
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तम् निष्प्रभम् इव आदित्यम् मुक्त तोयम् इव अंबुदम् । उक्त वाक्यम् हरि श्रेष्ठम् उपशांतम् इव अनलम् ॥२॥
धर्म अर्थ गुण संपन्नम् हरि ईश्वरम् अनुत्तमम् । अधिक्षिप्तः तदा रामः पश्चात् वालिनम् अब्रवीत् ॥३॥
धर्मम् अर्थम् च कामम् च समयम् च अपि लौकिकम् । अविज्ञाय कथम् बाल्यात् माम् इह अद्य विगर्हसे ॥४॥
अपृष्ट्वा बुद्धि संपन्नान् वृद्धान् आचार्य संमतान् । सौम्य वानर चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि ॥५॥
इक्ष्वाकूणाम् इयम् भूमिः स शैल वन कानना । मृग पक्षि मनुष्याणाम् निग्रह अनुग्रहेषु अपि ॥६॥
ताम् पालयति धर्मात्मा भरतः सत्यवान् ऋजुः । धर्म काम अर्थ तत्त्वज्ञो निग्रह अनुग्रहे रतः ॥७॥
नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् । विक्रमः च यथा दृष्टः स राजा देश कालवित् ॥८॥
तस्य धर्म कृत आदेशा वयम् अन्ये च पार्थिवः । चरामो वसुधाम् कृत्स्नाम् धर्म संतानम् इच्छवः ॥९॥
तस्मिन् नृपति शार्दूल भरते धर्म वत्सले । पालयति अखिलाम् पृथ्वीम् कः चरेत् धर्म विप्रियम् ॥१०॥
ते वयम् मार्ग विभ्रष्टम् स्वधर्मे परमे स्थिताः । भरत आज्ञाम् पुरस्कृत्य निगृह्णीमो यथा विधि ॥११॥
त्वम् तु संक्लिष्ट धर्मः च कर्मणा च विगर्हितः । काम तंत्र प्रधानः च न स्थितो राज वर्त्मनि ॥१२॥
ज्येष्ठो भ्राता पिता चैव यः च विद्याम् प्रयच्छति । त्रयः ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥१३॥
यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुणोदितः । पुत्रवत् ते त्रयः चिंत्या धर्मः चैव अत्र कारणम् ॥१४॥
सूक्ष्मः परम दुर्ज्ञेयः सताम् धर्मः प्लवंगम । हृदिस्थः सर्व भूतानाम् आत्मा वेद शुभाशुभम् ॥१५॥
चपलः चपलैः सार्धम् वानरैः अकृत आत्मभिः । जात्यंध इव जात्यन्धैः मंत्रयन् द्रक्ष्यसे नु किम् ॥१६॥
अहम् तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते । न हि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि ॥१७॥
तत् एतत् कारणम् पश्य यत् अर्थम् त्वम् मया हतः । भ्रातुर् वर्तसि भार्यायाम् त्यक्त्वा धर्मम् सनातनम् ॥१८॥
अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः । रुमायाम् वर्तसे कामात् स्नुषायाम् पाप कर्मकृत् ॥१९॥
तद् व्यतीतस्य ते धर्मात् काम वृत्तस्य वानर । भ्रातृ भार्या अभिमर्शे अस्मिन् दण्डो अयम् प्रतिपादितः ॥२०॥
न हि लोक विरुद्धस्य लोक वृत्तात् अपेयुषः । दण्डात् अन्यत्र पश्यामि निग्रहम् हरि यूथप ॥२१॥
न च ते मर्षये पापम् क्ष्त्रियो अहम् कुलोद्गतः । औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः ॥२२॥
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः । भरतः तु महीपालो वयम् तु आदेश वर्तिनः ॥२३॥
त्वम् च धर्मात् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम् । गुरु धर्म व्यतिक्रान्तम् प्राज्ञो धर्मेण पालयन् ॥२४॥
भरतः काम युक्तानाम् निग्रहे पर्यवस्थितः । वयम् तु भरत आदेशम् विधिम् कृत्वा हरीश्वर । त्वत् विधान् भिन्न मर्यादान् निग्रहीतुम् व्यवस्थिताः ॥२५॥
सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा । दार राज्य निमित्तम् च निःश्रेयसकरः स मे ॥२६॥
प्रतिज्ञा च मया दत्ता तदा वानर संनिधौ । प्रतिज्ञा च कथम् शक्या मत् विधेन अनवेक्षितुम् ॥२७॥
तत् एभिः कारणैः सर्वैर् महद्भिः धर्म संहितैः । शासनम् तव यत् युक्तम् तत् भवान् अनुमन्यताम् ॥२८॥
सर्वथा धर्म इति एव द्रष्टव्यः तव निग्रहः । वयस्यस्य उपकर्तव्यम् धर्मम् एव अनुपश्यता ॥२९॥
शक्यम् त्वया अपि तत् कार्यम् धर्मम् एव अनुवर्तता । श्रूयते मनुना गीतौ श्लोकौ चारित्र वत्सलौ || गृहीतौ धर्म कुशलैः तथा तत् चरितम् मयाअ ॥३०॥
राजभिः धृत दण्डाः च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥३१॥
शसनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते । राजा तु अशासन् पापस्य तद् आप्नोति किल्बिषम् ॥३२॥
आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् । श्रमणेन कृते पापे यथा पापम् कृतम् त्वया ॥३३॥
अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधा अधिपैः । प्रायश्चित्तम् च कुर्वन्ति तेन तत् शाम्यते रजः ॥३४॥
तत् अलम् परितापेन धर्मतः परिकल्पितः । वधो वानरशार्दूल न वयम् स्व वशे स्थिताः ॥३५॥
श्रुणु च अपि अपरम् भूयः कारणम् हरिपुंगव । तत् श्रुत्वा हि महत् वीर न मन्युम् कर्तुम् अर्हसि ॥३६॥
न मे तत्र मनस्तापो न मन्युः हरिपुंगव । वागुराभिः च पाशैः च कूटैः च विविधैः नराः ॥३७॥
प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सुबहून् मृगान् । प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् ॥३८॥
प्रमत्तान् अप्रमत्तान् वा नरा मांस अशिनो भृशम् । विध्यन्ति विमुखाम् च अपि न च दोषो अत्र विद्यते ॥३९॥
यान्ति राजर्षयः च अत्र मृगयाम् धर्म कोविदाः । तस्मात् त्वम् निहतो युद्धे मया बाणेन वानर । अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखा मृगो हि असि ॥४०॥
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥४१॥
तान् न हिंस्यात् न च आक्रोशेन् न आक्षिपेन् न अप्रियम् वदेत् । देवा मानुष रूपेण चरन्ति एते मही तले ॥४२॥
त्वम् तु धर्मम् अविज्ञाय केवलम् रोषम् आस्थितः । विदूषयसि माम् धर्मे पितृ पैतामहे स्थितम् ॥४३॥
एवम् उक्तः तु रामेण वाली प्रव्यथितो भृशम् । न दोषम् राघवे दध्यौ धर्मे अधिगत निश्चयः ॥४४॥
प्रत्युवाच ततो रामम् प्रांजलिर् वानरेश्वरः । यत् त्वम् आत्थ नरश्रेष्ठ तत् थथा एव न अत्र संशयः ॥४५॥
प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टः तु शक्नुयात् । यत् अयुक्तम् मया पूर्वम् प्रमादात् वाक्यम् अप्रियम् ॥४६॥
तत्र अपि खलु माम् दोषम् कर्तुम् न अर्हसि राघव । त्वम् हि दृष्टार्थ तत्त्वज्ञः प्रजानाम् च हिते रतः । कार्य कारण सिद्धौ च प्रसन्ना बुद्धिः अव्यया ॥४७॥
माम् अपि अवगतम् धर्मात् व्यतिक्रान्त पुरस्कृतम् । धर्म संहितया वाचा धर्मज्ञ परिपालय ॥४८॥
बाष्प संरुद्ध कण्ठः तु वाली स आर्त रवः शनैः । उवाच रामम् संप्रेक्ष्य पंकलग्न इव द्विपः ॥४९॥
न च आत्मानम् अहम् शोचे न ताराम् न अपि बान्धवान् । यथा पुत्रम् गुणश्रेष्ठम् अंगदम् कनकांगदम् ॥५०॥
स मम अदर्शनात् दीनो बाल्यात् प्रभृति लालितः । तटाक इव पीतांबुः उपशोषम् गमिष्यति ॥५१॥
बालः च अकृतबुद्धिः च एक पुत्रः च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः ॥५२॥
सुग्रीवे च अंगदे चैव विधत्स्व मतिम् उत्तमाम् । त्वम् हि गोप्ता च शास्ता च कार्याकार्य विधौ स्थितः ॥५३॥
या ते नरपते वृत्तिः भरते लक्ष्मणे च या । सुग्रीवे च अंगदे राजन् ताम् चिंतयितुम् अर्हसि ॥५४॥
मत् दोष कृत दोषाम् ताम् यथा ताराम् तपस्विनीम् । सुग्रीवो न अवमन्येत तथा अवस्थातुम् अर्हसि ॥५५॥
त्वया हि अनुगृहीतेन शक्यम् राज्यम् उपासितुम् । त्वत् वशे वर्तमानेन तव चित्त अनुवर्तिना ॥५६॥
शक्यम् दिवम् च आर्जयितुम् वसुधाम् च अपि शासितुम् । त्वतः अहम् वधम् आकांक्षयन् वार्यमाणो अपि तारया ॥५७॥
सुग्रीवेण सह भ्राता द्वन्द्व युद्धम् उपागतम् । इति उक्त्वा वानरो रामम् विरराम हरीश्वरः ॥५८॥
स तम् आश्वासयत् रामो वालिनम् व्यक्त दर्शनम् । साधु सम्मतया वाचा धर्म तत्त्वार्त्ध युक्तया ॥५९॥
न संतापः त्वया कार्यम् एतत् अर्थम् प्लवंगम । न वयम् भवता चिंत्या न अपि आत्मा हरिसत्तम । वयम् भवत् विशेषेण धर्मतः कृत निश्चयाः ॥६०॥
दण्ड्ये यः पातयेत् दण्डम् दण्ड्यो यः च अपि दण्ड्यते । कार्य कारण सिद्धार्थौ उभौ तौ न अवसीदतः ॥६१॥
तत् भवान् दण्ड सम्योगात् अस्मात् विगत कल्मषः । गतः स्वाम् प्रकृतिम् धर्म्याम् धर्म दिष्टेन वर्त्मना ॥६२॥
त्यज शोकम् च मोहम् च भयम् च हृदये स्थितम् । त्वया विधानम् हर्यग्र्य न शक्यम् अतिवर्तितुम् ॥६३॥
यथा त्वयि अंगदो नित्यम् वर्तते वानरेश्वरः । तथा वर्तते सुग्रीवो मयि च अपि न संशयः ॥६४॥
स तस्य वाक्यम् मधुरम् महात्मनः समाहितम् धर्म पथानुवर्तिनः । निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तम् निजगाद वानरः ॥६५॥
शराभितप्तेन विचेतसा मया प्रदूषितः त्वम् यद् अजानता विभो । इदम् महेन्द्रोपम भीम विक्रम प्रसादितः त्वम् क्षम मे नरेश्वर ॥६६॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे अष्टदशः सर्गः ॥