स वानर महाराजः शयानः शर पीडितः । प्रत्युक्तो हेतुमद् वाक्यैः न उत्तरम् प्रत्यपद्यत ॥१॥
एकोनविंशः सर्गः 4.19
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अश्मभिः परिभिन्न अंगः पादपैर् आहतो भृशम् । राम बाणेन च आक्रान्तो जीवित अंते मुमोह सः ॥२॥
तम् भार्या बाण मोक्षेण राम दत्तेन संयुगे । हतम् प्लवग शार्दूलम् तारा शुश्राव वालिनम् ॥३॥
सा सपुत्र अप्रियम् श्रुत्वा वधम् भर्तुः सुदारुणम् । निष्पपात भृशम् तस्मात् उद्विग्ना गिरि कंदरात् ॥४॥
ये ते अंगद परीवारा वानरा हि महाबलाः । ते सकार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः ॥५॥
सा ददर्श ततः त्रस्तान् हरीन् आपततो द्रुतम् । यूथाद् इव परिभ्रष्टान् मृगान् निहत यूथपान् ॥६॥
तान् उवाच समासाद्य दुःखितान् दुःखिता सती । राम वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः ॥७॥
वानरा राज सिंहस्य यस्य यूयम् पुरः सराः । तम् विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥८॥
राज्य हेतोः स चेत् भ्राता भ्रात्रा कॄरेण पातितः । रामेण प्रसृतैः दूरात् मार्गणैः दूर पातिभिः ॥९॥
कपि पत्न्या वचः श्रुत्वा कपयः काम रूपिणः । प्राप्त कालम् अविश्लिष्टम् ऊचुर् वचनम् अंगनाम् ॥१०॥
जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अन्दगम् । अंतको राम रूपेण हत्वा नयति वालिनम् ॥११॥
क्षिप्तान् वृक्षान् समाविध्य विपुलाः च शिलाः तथा । वाली वज्र समैर् बाणैर् वज्रेण इव निपातितः ॥१२॥
अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् । अस्मिन् प्लवग शार्दूले हते शक्र सम प्रभे ॥१३॥
रक्ष्यताम् नगरम् शूरैर् अंगदः च अभिषिच्यताम् । पदस्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः ॥१४॥
अथवा अरुचितम् स्थानम् इह ते रुचिरानने । आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः ॥१५॥
अभार्याः सह भार्याः च सन्ति अत्र वन चारिणः । लुब्धेभ्यो विप्रलब्धेयः तेभ्यो नः सुमहद् भयम् ॥१६॥
अल्पांतर गतानाम् तु श्रुत्वा वचनम् अंगना । आत्मनः प्रतिरूपम् सा बभाषे चारु हासिनी ॥१७॥
पुत्रेण मम किम् कार्यम् किम् राज्येन किम् आत्मना । कपि सिम्हे महा भागे तस्मिन् भर्तरि नश्यति ॥१८॥
पाद मूलम् गमिष्यामि तस्य एव अहम् महात्मनः । यो असौ राम प्रयुक्तेन शरेण विनिपातितः ॥१९॥
एवम् उक्त्वा प्रदुद्राव रुदती शोक मूर्च्छिता । शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती ॥२०॥
सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि । हन्तारम् दानव इन्द्राणाम् समरेषु अनिवर्तिनाम् ॥२१॥
क्षेप्तारम् पर्वत इन्द्राणाम् वज्राणाम् इव वासवम् । महावात समाविष्टम् महामेघ औघ निःस्वनम् ॥२२॥
शक्रतुल्य पराक्रांतम् वृष्ट्वा इव उपरतम् घनम् । नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् । शार्दूलेन आमिषस्य अर्थे मृग राजम् इव आहतम् ॥२३॥
अर्चितम् सर्व लोकस्य सपताकम् सवेदिकम् । नाग हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा ॥२४॥
अवष्टभ्य अवतिष्ठंतम् ददर्श धनुर् ऊर्जितम् । रामम् रामानुजम् चैव भर्तुः चैव तथा अनुजम् ॥२५॥
तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे । समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह ॥२६॥
सुप्ता इव पुनर् उत्थाय आर्य पुत्र इति वादिनी । रुरोद सा पतिम् दृष्ट्वा सम्वीतम् मृत्यु दामभिः ॥२७॥
ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव । विषादम् अगमत् कष्टम् दृष्ट्वा च अंगदम् आगतम् ॥२८॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एकोनविंशः सर्गः ॥