राम चाप विसृष्टेन शरेण अंतकरेण तम् । दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना ॥१॥
विंशः सर्गः 4.20
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सा समासाद्य भर्तारम् पर्यष्वजत भामिनी । इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम् ॥२॥
वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा । तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा ॥३॥
रणे दारुण विक्रान्त प्रवीर प्लवताम् वर । किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे ॥४॥
उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् । न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः ॥५॥
अतीव खलु ते कांता वसुधा वसुधाधिप । गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे ॥६॥
व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता । किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता ॥७॥
यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु । विहृतानि त्वया काले तेषाम् उपरमः कृतः ॥८॥
निरानंदा निराशा अहम् निमग्ना शोक सागरे । त्वयि पंचत्वम् आपन्ने महायूथप यूथपे ॥९॥
हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि । यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा ॥१०॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः । यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप ॥११॥
निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता । या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी ॥१२॥
रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद । नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि ॥१३॥
कालो निःसंशयो नूनम् जीवित अंतकरः तव । बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम् ॥१४॥
अस्थाने वालिनम् हत्वा युध्यमानम् परेण च । न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम् ॥१५॥
वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती । अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत् ॥१६॥
लालितः च अंगदो वीरः सुकुमारः सुखोचितः । वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते ॥१७॥
कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् । दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति ॥१८॥
समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे । मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि ॥१९॥
रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता । आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे ॥२०॥
सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे । भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव ॥२१॥
किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे । इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर ॥२२॥
तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः । परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः ॥२३॥
किम् अंगदम् स अंगद वीर बाहो विहाय यातो असि अद्य चिरम् प्रवासम् । न युक्तम् एवम् गुण संनिकृष्टम् विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम् ॥२४॥
यदि अप्रियम् किंचिद् असंप्रधार्य कृतम् मया स्यात् तव दीर्घ बाहो । क्षमस्व मे तत् हरि वंश नाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥२५॥
तथा तु तारा करुणम् रुदंती भर्तुः समीपे सह वानरीभिः । व्यवस्यत प्रायम् अनिन्द्य वर्णा उपोपवेष्टुम् भुवि यत्र वाली ॥२६॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे विंशः सर्गः ॥