रामायणम्

विंशः सर्गः 4.21

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततो निपतिताम् ताराम् च्युताम् ताराम् इव अंबरात् । शनैः आश्वासयामास हनूमान् हरि यूथपः ॥१॥

गुण दोष कृतम् जंतुः स्वकर्म फल हेतुकम् । अव्यग्रः तद् अवाप्नोति सर्वम् प्रेत्य शुभ अशुभम् ॥२॥

शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकंपसे । कः च कस्य अनुशोच्यो अस्ति देहे अस्मिन् बुद्बुद उपमे ॥३॥

अंगदः तु कुमारो अयम् द्रष्टव्यो जीव पुत्रया । आयत्या च विधेयानि समर्थानि अस्य चिन्तय ॥४॥

जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् । तस्मात् शुभम् हि कर्तव्यम् पण्डितेन इह लौकिकम् ॥५॥

यस्मिन् हरि सहस्राणि शतानि नियुतानि च । वर्तयन्ति कृत आशानि सो अयम् दिष्टांतम् आगतः ॥६॥

यद् अयम् न्याय दृष्ट अर्थः साम दान क्षमा परः । गतो धर्म जिताम् भूमिम् न एनम् शोचितुम् अर्हसि ॥७॥

सर्वे च हरि शार्दूलाः पुत्रः च अयम् तव अंगदः । हरि ऋक्ष पति राज्यम् च त्वत् सनाथम् अनिन्दिते ॥८॥

तौ इमौ शोक संतप्तौ शनैः प्रेरय भामिनि । त्वया परिगृहीतो अयम् अंगदः शास्तु मेदिनीम् ॥९॥

संततिः च यथा दृष्टा कृत्यम् यत् च अपि सांप्रतम् । राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः ॥१०॥

संस्कार्यो हरि राजः तु अंगदः च अभिषिच्यताम् । सिंहासन गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि ॥११॥

सा तस्य वचनम् श्रुत्वा भर्तृ व्यसन पीडिता । अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम् ॥१२॥

अंगद प्रतिरूपाणाम् पुत्राणाम् एकतः शतम् । हतस्य अपि अस्य वीरस्य गात्र संश्लेषणम् वरम् ॥१३॥

न च अहम् हरि राज्यस्य प्रभवामि अंगदस्य वा । पितृव्यः तस्य सुग्रीवः सर्व कार्येषुइ अनंतरः ॥१४॥

न हि एषा बुद्धिः आस्थेया हनूमन् अंगदम् प्रति । पिता हि बंधुः पुत्रस्य न माता हरि सत्तम ॥१५॥

न हि मम हरि राज संश्रयात् क्षमतरम् अस्ति परत्र च इह वा । अभिमुख हत वीर सेवितम् शयनम् इदम् मम सेवितुम् क्षमम् ॥१६॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे एक विंशः सर्गः ॥

Listen to the sarga
0:00