रामायणम्

विंशः सर्गः 4.22

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

वीक्षमाणः तु मंदासुः सर्वतो मंदम् उच्छ्वसन् । आदौ एव तु सुग्रीवम् ददर्श अनुजम् अग्रतः ॥१॥

तम् प्राप्त विजयम् वाली सुग्रीवम् प्लवग ईश्वरम् । आभाष्य व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् ॥२॥

सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् । कृष्यमाणम् भविष्येण बुद्धि मोहेन माम् बलात् ॥३॥

युगपद् विहितम् तात न मन्ये सुखम् अवयोः । सौहार्दम् भ्रातृ युक्तम् हि तद् इदम् जातम् अन्यथा ॥४॥

प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वन ओकसाम् । माम् अपि अद्य एव गच्छंतम् विद्धि वैवस्वत क्षयम् ॥५॥

जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् इमाम् । प्रजहामि एष वै तूर्णम् अहम् च अगर्हितम् यशः ॥६॥

अस्याम् त्वम् अहम् अवस्थायाम् वीर वक्ष्यामि यद् वचः । यदि अपि असुकरम् राजन् कर्तुम् एव तद् अर्हसि ॥७॥

सुखार्हम् सुख संवृद्धम् बालम् एनम् अबालिशम् । बाष्प पूर्ण मुखम् पश्य भूमौ पतितम् अंगदम् ॥८॥

मम प्राणैः प्रियतरम् पुत्रम् पुत्रम् इव औरसम् । मया हीनम् अहीनार्थम् सर्वतः परिपालय ॥९॥

त्वम् अपि अस्य पिता दाता च परित्राता च सर्वतः । भयेषु अभयदः चैव यथा अहम् प्लवगेश्वर ॥१०॥

एष तारात्मजः श्रीमान् त्वया तुल्य पराक्रमः । रक्षसाम् च वधे तेषाम् अग्रतः ते भविष्यति ॥११॥

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे । करिष्यति एष तारेयः तरस्वी तरुणो अंगदः ॥१२॥

सुषेण दुहिता च इयम् अर्थ सूक्ष्म विनिश्चये । औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥१३॥

यद् एष साधु इति ब्रूयात् कार्यम् तन् मुक्त संशयम् । न हि तारा मतम् किंचित् अन्यथा परिवर्तते ॥१४॥

राघवस्य च ते कार्यम् कर्तव्यम् अविशंकया । स्यात् अधर्मो हि अकरणे त्वाम् च हिंस्यात् अमानितः ॥१५॥

इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव कांचनीम् । उदारा श्रीः स्थिता हि अस्याम् संप्रजह्यात् मृते मयि ॥१६॥

इति एवम् उक्तः सुग्रीवो वालिना भ्रातृ सौहृदात् । हर्षम् त्यक्त्वा पुनर् दीनो ग्रह ग्रस्त इव उडु राट् ॥१७॥

तत् वालि वचनात् शान्तः कुर्वन् युक्तम् अतंद्रितः । जग्राह सो अभ्यनुज्ञातो मालाम् ताम् चैव कांचनीम् ॥१८॥

ताम् मालाम् कांचनीम् दत्त्वा वाली दृष्ट्वा आत्मजम् स्थितम् । संसिद्धः प्रेत्य भावाय स्नेहात् अंगदम् अब्रवीत् ॥१९॥

देश कालौ भजस्व अद्य क्षममाणः प्रिय अप्रिये । सुख दुःख सहः काले सुग्रीव वशगो भव ॥२०॥

यथा हि त्वम् महाबाहो लालितः सततम् मया । न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मन्यते ॥२१॥

ना अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम । भर्तुः अर्थ परो दान्तः सुग्रीव वशगो भव ॥२२॥

न च अतिप्रणयः कार्यः कर्तव्यो अप्रणयः च ते । उभयम् हि महादोषम् तस्मात् अंतर दृक् भव ॥२३॥

इति उक्त्वा अथ विवृत्त अक्षः शर संपीडितो भृशम् । विवृतैः दशनैः भीमैः बभूव उत्क्रान्त जीवितः ॥२४॥

ततो विचुक्रुशुर् तत्र वानरा हत यूथपाः । परिदेवयमानाः ते सर्वे प्लवग सत्तमाः ॥२५॥

किष्किन्धा हि अथ शून्या च स्वर् गते वानरेश्वरे । उद्यानानि च शून्यानि पर्वताः कानानि च ॥२६॥

हते प्लवग शार्दूले निष् प्रभा वानराः कृताः । यस्य वेगेन महता काननानि वनानि च ॥२७॥

पुष्प ओघेण अनुबद्धन्ते करिष्यति तत् अद्य कहः । येन दत्तम् महत् युद्धम् गन्धर्वस्य महात्मनः ॥२८॥

गोलभस्य महाबाहुः दश वर्षाणि पंच च । न एव रात्रौ न दिवसे तत् युद्धम् उपशाम्यति ॥२९॥

ततः षोडशमे वर्षे गोलभो विनिपातितः । तम् हत्वा दुर्विनीतिम् तु वाली दंष्ट्र करालवान् । सर्वा अभयम् करः अस्माकम् कथम् एष निपातितः ॥३०॥

हते तु वीरे प्लवगाधिपे तदा प्लवंगमाः तत्र न शर्म लेभिरे । वने चराः सिंह युते महावने यथा हि गावो निहते गवाम् पतौ ॥३१॥

ततः तु तारा व्यसन अर्णव प्लुता मृतस्या भर्तुर् वदनम् समीक्ष्य सा । जगाम भूमिम् परिरभ्य वालिनम् महा द्रुमम् छिन्नम् इव आश्रिता लता ॥३२॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे द्वा विंशः सर्गः ॥

Listen to the sarga
0:00