रामायणम्

विंशः सर्गः 4.23

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः समुपजिघ्रंती कपि राजस्य तत् मुखम् । पतिम् लोकश्रुता तारा मृतम् वचनम् अब्रवीत् ॥१॥

शेषे त्वम् विषमे दुःखम् अकृत्वा वचनम् मम । उपल उपचिते वीर सुदुःखे वसुधा तले ॥२॥

मत्तः प्रियतरा नूनम् वानरेन्द्र मही तव । शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे ॥३॥

सुग्रीवस्य वशम् प्राप्तो विधिः एष भवत्य अहो । सुग्रीव एव विक्रांतो वीर साहसिक प्रिय ॥४॥

ऋक्ष वानर मुख्याः त्वाम् बलिनम् पर्युपासते । तेषाम् विलपितम् कृच्छ्रम् अंगदस्य च शोचतः ॥५॥

मम च इमा गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे । इदम् तत् वीर शयनम् तत्र शेषे हतो युधि ॥६॥

शायिता निहता यत्र त्वया एव रिपवः पुरा । विशुद्ध सत्त्व अभिजन प्रिययुद्ध मम प्रिय ॥७॥

माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद । शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥८॥

शूर भार्याम् हताम् पश्य सद्यो माम् विधवाम् कृताम् । अवभग्नः च मे मानो भग्ना मे शाश्वती गतिः ॥९॥

अगाधे च निमग्ना अस्मि विपुले शोक सागरे । अश्म सारमयम् नूनम् इदम् मे हृदयम् दृढम् ॥१०॥

भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा गतम् । सुहृत् चैव हि भर्ता च प्रकृत्या च मम प्रियः ॥११॥

प्रहारे च पराक्रान्तः शूरः पंचत्वम् आगतः । पति हीना तु या नारी कामम् भवतु पुत्रिणी ॥१२॥

धन धान्य समृद्धा अपि विधवा इति उच्यते जनैः । स्व गात्र प्रभवे वीर शेषे रुधिर मण्डले ॥१३॥

कृमि राग परिस्तोमे स्वकीये शयने यथा । रेणु शोणित संवीतम् गात्रम् तव समंततः ॥१४॥

परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवगर्षभ । कृत कृत्यो अद्य सुग्रीवो वैरे अस्मिन् अतिदारुणे ॥१५॥

यस्य राम विमुक्तेन हृतम् एक इषुणा भयम् । शरेण हृदि लग्नेन गात्र संस्पर्शने तव ॥१६॥

वार्यामि त्वाम् निरीक्षन्ती त्वयि पंचत्वम् आगते । उद्बबर्ह शरम् नीलः तस्य गात्र गतम् तदा ॥१७॥

गिरि गह्वर संलीनम् दीप्तम् आशी विषम् यथा । तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥१८॥

अस्त मस्तक संरुद्धो रश्मिः दिनकरात् इव । पेतुः क्षतज धाराः तु व्रणेभ्यः तस्य सर्वशः ॥१९॥

ताम्र गैरिक संपृक्ता धारा इव धरा धरात् । अवकीर्णम् विमार्जन्ती भर्तारम् रण रेणुना ॥२०॥

अस्रैः नयनजैः शूरम् सिषेच अस्त्र समाहतम् । रुधिरोक्षित सर्वान्गम् दृष्ट्वा विनिहतम् पतिम् ॥२१॥

उवाच तारा पिंगाक्षम् पुत्रम् अंगदम् अंगना । अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सुदारुणाम् ॥२२॥

संप्रसक्तस्य वैरस्य गतो अन्तः पाप कर्मणा । बाल सूर्योज्ज्वल तनुम् प्रयातम् यम सादनम् ॥२३॥

अभिवादय राजानम् पितरम् पुत्र मानदम् । एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः ॥२४॥

भुजाभ्याम् पीन वृताभ्याम् अंगदो अहम् इति ब्रुवन् । अभिवादयमानम् त्वाम् अंगदम् त्वम् यथा पुरा ॥२५॥

दीर्घ आयुर् भव पुत्र इति किम् अर्थम् न अभिभाषसे । अहम् पुत्र सहाया त्वाम् उपासे गत चेतनम् । सिंहेन पातितम् सद्यो गौः स वत्सा इव गो वृषम् ॥२६॥

इष्ट्वा संग्राम यज्ञेन राम प्रहरण अंभसा । अस्मिन् अवभृथे स्नातः कथम् पत्न्या मया विना ॥२७॥

या दत्ता देव राजेन तव तुष्टेन संयुगे । शात कौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम् ॥२८॥

राज्यश्रीः न जहाति त्वाम् गत असुम् अपि मानद । सूर्यस्य आवर्तमानस्य शैल राजम् इव प्रभा ॥२९॥

न मे वचः पथ्यम् इदम् त्वया कृतम् न च अस्मि शक्ता हि निवारणे तव । हता सपुत्रा अस्मि हतेन संयुगे सह त्वया श्रीः विजहाति माम् अपि ॥३०॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे त्रयो विंशः सर्गः ॥

Listen to the sarga
0:00