तम् आशु वेगेन दुरासदेन तु अभिप्लुताम् शोक महार्णवेन । पश्यन् तदा वालि अनुजः तरस्वी भ्रात्रुः वधेन अप्रतिमेन तेपे ॥१॥
विंशः सर्गः 4.24
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स बाष्प पूर्णेन मुखेन् पश्यन् क्षणेन निर्विण्ण मना मनस्वी । जगाम रामस्य शनैः समीपम् भृत्यैः वृत्तः संपरिदूयमानः ॥२॥
स तम् समासाद्य गृहीत चापम् उदात्तम् आशी विष तुल्य बाणम् । यशश्विनम् लक्षण लक्षित अंगम् अवस्थितम् राघवम् इति उवाच ॥३॥
यथा प्रतिज्ञातम् इदम् नरेन्द्र कृतम् त्वया दृउष्ट फलम् च कर्म । मम अद्य भोगेषु नरेन्द्र सूनो मनो निवृत्तम् हत जिवितेन ॥४॥
अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरे अति विक्रोशति दुःख तप्ते । हते नृपे संशयिते अंगदे च न राम राज्ये रमते मनो मे ॥५॥
क्रोधाद् अमर्षाद् अतिविप्रधर्षाद् भ्रातुर् वधो मे अनुमतः पुरस्तात् । हते तु इदानीम् हरि यूधपे अस्मिन् सुतीक्ष्णम् इक्ष्वाकु वर प्रतप्स्ये ॥६॥
श्रेयो अद्य मन्ये मम शैल मुख्ये तस्मिन् हि वासः चिरम् ऋष्यमूके । यथा तथा वर्तयतः स्व वृत्या न इमम् निहत्य त्रिदिवसय लाभः ॥७॥
न त्वा जिघांसामि चर इति यत् माम् अयम् महात्मा मतिमान् उवाच । तस्य एवे तत् राम वचो अनुरूपम् इदम् वचः कर्म च मे अनुरूपम् ॥८॥
भ्राता कथम् नाम महा गुणस्य भ्रातुर् वधम् राम विरोचयेत । राजस्य दुःखस्य च वीर सारम् विचिन्तयन् काम पुरस्कृतो अपि ॥९॥
वधो हि मे मतो न असीत् स्व महात्म्या अव्यतिक्रमात् । मम आसीत् बुद्धिः दुरात्म्यात् प्राण हारी व्यतिक्रमः ॥१०॥
द्रुम शाका अवभग्नो अहम् मुहुर्तम् परिनिष्टनन् । स्वान्तयित्वा अनेन उक्तः न पुनः कर्तुम् अर्हसि ॥११॥
भ्रातृत्वम् आर्य भावः च धर्मः च अनेन रक्षितः । मया क्रोधः च कामः च कपित्वम् च प्रदर्शितम् ॥१२॥
अचिंतनीयम् परिवर्जनीयम् अनीप्सनीयम् न अन्वेक्षणीयम् । प्राप्तो अस्मि पाप्मानम् वयस्य भ्रातुः वध त्वाष्ट्र वधात् इव इन्द्रः ॥१३॥
पाप्मानम् इन्द्रस्य मही जलम् च वृक्षाः च कामम् जगृहुः स्त्रियः च । को नाम पाप्मानम् इमम् सहेत शाखा मृगस्य प्रतिपत्तुम् इच्छेत् ॥१४॥
ना अर्हामि सन्मानम् इमम् प्रजानाम् न यौव राज्यम् कुत एव राज्यम् । अधर्म युक्तम् कुल नाश युक्तम् एवम् विधम् राघव कर्म कृत्वा ॥१५॥
पापस्य कर्ता अस्मि विगर्हितस्य क्षुद्रस्य लोक अपकृतस्य लोके । शोको महान् मम अभिवर्तते अयम् वृष्टेः यथा निम्नम् इव अम्बु वेगः ॥१६॥
सोदर्य अघाता अपर गात्र वालः संताप हस्त अक्षि शिरो विषाणः । एनोमयो माम् अभिहन्ति हस्ती दृप्तो नदी कूलम् इव प्रवृद्धः ॥१७॥
अंहो बतेदम् नृ वर अविषह्य निवर्तते मे हृदि साधु वृत्तम् । अग्नौ विवर्णम् परितप्य मानम् किट्टम् यथा राघव जात रूपम् ॥१८॥
महा बलानाम् हरि यूथपानाम् इदम् कुलम् राघव मन् निमित्तम् । अस्य अंगदस्य अपि च शोक तापात् अर्थ स्थित प्राणम् इतीव मन्ये ॥१९॥
सुतः सुलभः सुजनः सुवश्यः कुतः तु पुत्रः सदृशः अंगदेन । न च अपि विद्येत स वीर देशो यस्मिन् भवेत् सोदर संनिकर्षः ॥२०॥
अद्य अंगदो वीर वरो न जीवेत् जीवेत माता परि पालनार्थम् । विना तु पुत्रम् परिताप दीना सा नैव जीवेत् इत् निश्चितम् मे ॥२१॥
सो अहम् प्रवेक्ष्यामि अति दीप्तम् अग्निम् भ्रत्रा च पुत्रेण च सख्यम् इच्छन् । इमे विचेष्यन्ति हरि प्रवीराः सीताम् निदेशे परिवर्तमानाः ॥२२॥
कृत्स्नम् तु ते सेत्स्यति कार्यम् एतत् मयि अपि अतीते मनुजेन्द्र पुत्र । कुलस्य हन्तारम् अजीवन अर्हम् राम अनुजानीहि कृत अगसम् माम् ॥२३॥
इति एवम् आर्तस्य रघु प्रवीरः श्रुत्वा वचो वालि जघन्य जस्य । संजात बाष्प पर वीर हन्ता रामो मुहूर्तम् विमना बभूव ॥२४॥
तस्मिन् क्षणे अभीक्ष्णम् अवेक्षमाणः क्षिति क्षमावान् भुवनस्य गोप्ता । रामो रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सः अथ ददर्श ताराम् ॥२५॥
ताम् चारु नेत्राम् कपि सिंह नाथाम् पतिम् समाश्लिष्य तद शयानाम् । उत्थापयामासुः अदीन सत्त्वाम् मंत्रि प्रधानाः कपि राज पत्नीम् ॥२६॥
सा विस्फुरंती परिरभ्यमाणा भर्तुः समीपात् अपनीयमाना । ददर्श रामम् शर चाप पाणिम् स्व तेजसा सूर्यम् इव ज्वलंतम् ॥२७॥
सु संवृत्तम् पार्थिव लक्षणैः च तम् चारु नेत्रम् मृगशाव नेत्रा । अदृष्ट पूर्वम् पुरुष प्रधानम् अयम् स काकुत्स्थ इति प्रजज्ञे ॥२८॥
तस्य इन्द्र कल्पस्य दुरासदस्य महानुभावस्य समीपम् आर्या । आर्त अति तूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती ॥२९॥
तम् सा समासाद्य विशुद्ध सत्त्वम् शोकेन संभ्रांत शरीर भावा । मनस्विनी वाक्यम् उवाच तारा रामम् रण उत्कर्षण लब्ध लक्ष्यम् ॥३०॥
त्वम् अप्रमेयः च दुरासदः च जितेन्द्रियः च उत्तम धर्मकः च । अक्षीण कीर्तिः च विचक्षणः च क्षिति क्षमवान् क्षतजोपमा अक्षः ॥३१॥
त्वम् आत्त बाणासन बाण पाणिः महाबलः संहनन उपपन्नः । मनुष्य देहाभुदयम् विहाय दिव्येन देहाभ्युदयेन युक्तः ॥३२॥
एन एव बाणेन हतः प्रियो मे तेन एव बाणेन हि माम् जहि हि । हता गमिष्यामि समीपम् अस्य न माम् विना वीर रमेत वाली ॥३३॥
स्वर्गे अपि पद्म अमल पत्र नेत्र समेत्य संप्रेक्ष्य च माम् अपश्यन् । न हि एष उच्चावच ताम्र चूडा विचित्र वेषाः अप्सरो अभजिष्यत् ॥३४॥
स्वर्गे अपि शोकम् विवर्णताम् च मया विना प्राप्स्यति वीर वाली । रम्ये नगेन्द्रस्य तटा अवकाशे विदेह कन्या अरहितो यथा त्वम् ॥३५॥
त्वम् वेत्थ तावत् वनिता विहीनः प्राप्नोति दुःखम् पुरुषः कुमारः । तत् त्वम् प्रजानन् जहि माम् न वाली दुःखम् मम अदर्शनजम् भजेत ॥३६॥
यत् च अपि मन्येत भवान् महात्मा स्त्री घात दोषः तु भवेन् न मह्यम् । आत्मा इयम् अस्य इति हि माम् जहि त्वम् न स्त्री वधः स्यात् मनुजेन्द्र पुत्र ॥३७॥
शास्त्र प्रयोगात् विविधाः च वेदात् अनन्य रूपाः पुरुषस्य दाराः । दार प्रदानात् न हि दानम् अन्यत् प्रदृश्यते ज्ञानवताम् हि लोके ॥३८॥
त्वम् च अपि माम् तस्य मम प्रियस्य प्रदास्यसे धर्मम् अवेक्ष्य वीर । अनेन दानेन न लप्स्यसे त्वम् अधर्म योगम् मम वीर घातात् ॥३९॥
आर्ताम् अनाथाम् अपनीयमानाम् एवम् गताम् न अर्हसि माम् अहन्तुम् । अहम् हि मातंग विलास गामिना प्लवंगमानाम् ऋषभेण धीमता । विना वरार्होत्तम हेम मालिना चिरम् न शक्ष्यामि नरेन्द्र जीवितुम् ॥४०॥
इति एवम् उक्तः तु विभुः महात्मा ताराम् समाश्वास्य हितम् बभाषे । मा वीर भार्ये विमतिम् कुरुष्व लोको हि सर्वो विहितो विधात्रा ॥४१॥
तम् चैव सर्वम् सुख दुःख योगम् लोको अब्रवीत् तेन कृतम् विधात्रा । त्रयो अपि लोका विहितम् विधानम् न अति क्रमन्ते वशगा हि तस्य ॥४२॥
प्रीतिम् पराम् प्राप्स्यसि ताम् तथा एव पुत्रः च ते प्रप्स्यति यौव राज्यम् । धात्र विधानम् विहितम् तथा एव न शूर पत्न्यः परिदेवयन्ति ॥४३॥
आश्वासिता तेन महत्मना तु प्रभाव युक्तेन परंतपेन । सा वीर पत्नी ध्वनता मुखेन सुवेष रूपा विरराम् तारा ॥४४॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे चतुर् विंशः सर्गः ॥