ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः । लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ॥१॥
एकोनचत्वारिंशः सर्गः 6.39
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सम सौम्यानि रम्याणि विशालान्य् आयतानि च । दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ॥२॥
चम्पक अशोक पुम्नाग साल ताल समाकुला । तमाल वन संचन्ना नाग माला समावृता ॥३॥
हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः । तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ॥४॥
शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः । लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ॥५॥
विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः । शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ॥६॥
गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ॥७॥
तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् । वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ॥८॥
नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः । रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ॥९॥
नित्य मत्त विहम्गानि भ्रमर आचरितानि च । कोकिल आकुल षण्डानि विहग अभिरुतानि च ॥१०॥
भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च । कोणालक विघुष्टानि सारस अभिरुतानि च ॥११॥
विविशुस् ते ततस् तानि वनान्य् उपवनानि च । हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ॥१२॥
तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् । पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ॥१३॥
अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः । सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ॥१४॥
वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् । कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ॥१५॥
कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् । अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ॥१६॥
ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ॥१७॥
शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् । समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ॥१८॥
शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् । श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ॥१९॥
मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लन्का रावण पालिता ॥२०॥
दशयोजनविस्तीर्णा विंशद्योजनमायता । सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः । कान्चनेन च सालेन राजतेन च शोभिता ॥२१॥
प्रासादैश् च विमानैश् च लन्का परम भूषिता । घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ॥२२॥
तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः । कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ॥२३॥
चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् । शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ॥२४॥
मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥२५॥
नानाविहगसम्घष्टाम् नानामृगनिषेविताम् । नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ॥२६॥
ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः । रावणस्य पुरीम् रामो ददर्श सह वानरैः ॥२७॥
ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः । नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ॥२८॥
ताम् रत्न पूर्णाम् बहु सम्विधानाम् । प्रासाद मालाभिर् अलम्कृताम् च । पुरीम् महा यन्त्र कवाट मुख्याम् । ददर्श रामो महता बलेन ॥२९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥