रामायणम्

चत्वारिंशः सर्गः 6.40

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् । उपारोहत्ससुग्रीवो हरियूथैः समन्वितः ॥१॥

स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् । त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ॥२॥

ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् । तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥३॥

श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् । रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ॥४॥

वीलजीमूतसंकाशं हेमसंचादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥५॥

शशलोहितरागेण सम्वीतं रक्तवाससा । संध्यातपेन संचन्नं मेघराशिमिवाम्बरे ॥६॥

पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः । दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥७॥

क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥८॥

स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ॥९॥

लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा ॥१०॥

इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि । आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ॥११॥

समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः । सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि ॥१२॥

इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥१३॥

परस्परं स्वेदविदिग्धगात्रौ । परस्परम् शोणितरक्तदेहौ । परस्परं श्लिष्टनिरुद्धचेष्टौ । परस्परं शाल्मलिकिंशुकाविव ॥१४॥

मुष्टिप्रहारैश्च तलप्रहारै । ररत्निघातैश्च कराग्रघातैः । तौ चक्रतुर्युद्धमसह्यरूपं । महाबलौ राक्षसवानरेन्द्रौ ॥१५॥

कृत्वा नियुद्धं भृशमुग्रवेगौ । कालं चिरं गोपुरवेदिमध्ये । उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ । पादक्रमाद्गोपुरवेदिलग्नौ ॥१६॥

अन्योन्यमापीड्य विलग्नदेहौ । तौ पेतुतुः पालनिखातमध्ये । उत्पेततुर्भूमितलम् स्पृशन्तौ । स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥१७॥

आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः । संयोजयामासतुराहवे तौ । सम्रम्भशिक्षाबलसम्प्रयुक्तौ । सुचेरतुः सम्प्रति युद्धमार्गे ॥१८॥

शार्दूलसिंहविव जातदंष्ट्रौ । गजेन्द्रपोताविव संप्रयुक्तौ । संहत्य संवेद्य च तौ कराभ्यां । तऊ पेतुतुर्वै युगपद्धरायाम् ॥१९॥

उद्यम्य चान्योन्यमधिक्षिपन्तौ । संचक्रमाते बहु युद्धमार्गे । व्यायामशिक्षाबलसंप्रयुक्तौ । क्लमं न तौ जग्मतुराशु वीरौ ॥२०॥

बाहुत्तमैर्वारणवारणाभै । र्निवारयन्तौ परवारणाभौ| चिरेण कालेन भृशं प्रयुद्धौ । संचेरतुर्मण्डलमार्गमाशु ॥२१॥

तौ परस्पर मासाद्य यत्तावन्योन्यसूदने । मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः ॥२२॥

मण्डलानि विचित्राणि स्थानानि विविधानि च । गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च ॥२३॥

तीर्शीनगतान्येव तथा वक्रगतानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥२४॥

अभिद्रवणमाप्लावमवस्थानं सविग्रहम् । परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥२५॥

उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ । तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः ॥२६॥

एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः । आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः ॥२७॥

उत्पपात तदाकाशं जितकाशी जितक्लमः । रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥२८॥

अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति । र्निशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लङ्घयित्वार्कसूम । र्हरिगणबलमध्ये रामपार्श्वं जगाम् ॥२९॥

स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा । पवनगतिरनीकं प्राविशत्संप्रहृष्टः । रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं । तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥३०॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00