रामायणम्

एकचत्वारिंशः सर्गः 6.41

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मण पूर्वजः । सुग्रीवम् सम्परिष्वज्य रामो वचनमब्रवीत् ॥१॥

असंमन्त्य्र मया सार्थम् तदिदम् साहसं कृतम् । एवम् साहसयुक्तानि न कुर्वन्ति जनेश्वराः ॥२॥

संशये स्थाप्य माम् चेदम् बलम् चेमम् विभीषनम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥३॥

इदानीं मा कृथा वीर एवम् विधमरिंदम । त्वयि किंचित्समापन्ने किम् कार्यम् सीतया मम ॥४॥

भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ॥५॥

त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यम् महेन्द्रवरुणोपनु ॥६॥

हत्वाहम् रावणम् रावणम् युद्धे सपुत्रबलवाहन्म् । अभिषिच्य च लङ्कायाम् विभीषण मथापि च ॥७॥

भरते राज्यमारोप्य त्यक्ष्ये देहम् महाबल । तमेवम्वादिनं रामं सुग्रीवः प्रत्यभाषत ॥८॥

तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् । मर्षयामि कथम् वीर जानन्विक्रममात्मनः ॥९॥

इत्येवंवादिनं वीरमभिनन्द्य च राघवः । लक्ष्मणम् लक्ष्मि सम्पन्नम् इदम् वचनम् अब्रवीत् ॥१०॥

परिगृह्य उदकम् शीतम् वनानि फलवन्ति च । बल ओघम् सम्विभज्य इमम् व्यूह्य तिष्ठेम लक्ष्मण ॥११॥

लोक क्षय करम् भीमम् भयम् पश्याम्य् उपस्थितम् । निबर्हणम् प्रवीराणाम् ऋक्ष वानर रक्षसाम् ॥१२॥

वाताश् च परुषम् वान्ति कम्पते च वसुम् धरा । पर्वत अग्राणि वेपन्ते पतन्ति धरणी धराः ॥१३॥

मेघाः क्रव्याद सम्काशाह् परुषाह् परुष स्वनाः । क्रूराह् क्रूरम् प्रवर्षन्ति मिश्रम् शोणित बिन्दुभिः ॥१४॥

रक्त चन्दन सम्काशा संध्या परम दारुणा । ज्वलच् च निपतत्य् एतद् आदित्याद् अग्नि मण्डलम् ॥१५॥

आदित्यम् अभि वाश्यन्ते जनयन्तो महद् भयम् । दीना दीन स्वरा घोरा;अप्रशस्ता मृग द्विजाः ॥१६॥

रजन्याम् अप्रकाशश् च सम्तापयति चन्द्रमाः । कृष्ण रक्त अंशु पर्यन्तो यथा लोकस्य सम्क्षये ॥१७॥

ह्रस्वो रूक्षो अप्रशस्तश् च परिवेषह् सुलोहितः । आदित्य मण्डले नीलम् लक्ष्म लक्ष्मण दृश्यते ॥१८॥

दृश्यन्ते न यथावच् च नक्षत्राण्य् अभिवर्तते । युग अन्तम् इव लोकस्य पश्य लक्ष्मण शंसति ॥१९॥

काकाः श्येनास् तथा गृध्रा नीचैह् परिपतन्ति च । शिवाश् च अप्य् अशिवा वाचह् प्रवदन्ति महा स्वनाः ॥२०॥

शैलैः शूलैश्च खड्गैश्च विमुक्तेः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥२१॥

क्षिप्रम् अद्य दुराधर्षाम् पुरीम् रावण पालिताम् । अभियाम जवेन एव सर्वतो हरिभिर् वृताः ॥२२॥

इत्य् एवम् तु वदन् वीरो लक्ष्मणम् लक्ष्मण अग्रजः । तस्माद् अवातरत् शीघ्रम् पर्वत अग्रान् महा बलः ॥२३॥

अवतीर्य तु धर्म आत्मा तस्मात् शैलात् स राघवः । परैः परम दुर्धर्षम् ददर्श बलम् आत्मनः ॥२४॥

सम्नह्य तु ससुग्रीवह् कपि राज बलम् महत् । कालज्नो राघवह् काले सम्युगाय अभ्यचोदयत् ॥२५॥

ततः काले महा बाहुर् बलेन महता वृतः । प्रस्थितह् पुरतो धन्वी लन्काम् अभिमुखह् पुरीम् ॥२६॥

तम् विभीषण सुग्रीवौ हनूमान् जाम्बवान् नलः । ऋक्ष राजस् तथा नीलो लक्ष्मणश् च अन्ययुस् तदा ॥२७॥

ततः पश्चात् सुमहती पृतना ऋक्ष वन ओकसाम् । प्रच्चाद्य महतीम् भूमिम् अनुयाति स्म राघवम् ॥२८॥

शैल शृन्गाणि शतशह् प्रवृद्धांश् च मही रुहाम् । जगृहुह् कुन्जर प्रख्या वानराह् पर वारणाः ॥२९॥

तौ त्व् अदीर्घेण कालेन भ्रातरौ राम लक्ष्मणौ । रावणस्य पुरीम् लन्काम् आसेदतुर् अरिम् दमौ ॥३०॥

पताका मालिनीम् रम्याम् उद्यान वन शोभिताम् । चित्र वप्राम् सुदुष्प्रापाम् उच्च प्राकार तोरणाम् ॥३१॥

ताम् सुरैर् अपि दुर्धर्षाम् राम वाक्य प्रचोदिताः । यथा निदेशम् सम्पीड्य न्यविशन्त वन ओकसः ॥३२॥

लन्कायास् तु उत्तर द्वारम् शैल शृन्गम् इव उन्नतम् । रामः सह अनुजो धन्वी जुगोप च रुरोध च ॥३३॥

लन्काम् उपनिविष्टश् च रामो दशरथ आत्मजः । लक्ष्मण अनुचरो वीरह् पुरीम् रावण पालिताम् ॥३४॥

उत्तर द्वारम् आसाद्य यत्र तिष्ठति रावणः । न अन्यो रामाद्द् हि तद् द्वारम् समर्थह् परिरक्षितुम् ॥३५॥

रावण अधिष्ठितम् भीमम् वरुणेन इव सागरम् । सायुधौ राक्षसैर् भीमैर् अभिगुप्तम् समन्ततः ॥३६॥

लघूनाम् त्रास जननम् पातालम् इव दानवैः । विन्यस्तानि च योधानाम् बहूनि विविधानि च । ददर्श आयुध जालानि तथैव कवचानि च ॥३७॥

पूर्वम् तु द्वारम् आसाद्य नीलो हरि चमू पतिः । अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् ॥३८॥

अन्गदो दक्षिण द्वारम् जग्राह सुमहा बलः । ऋषभेण गव अक्षेण गजेन गवयेन च ॥३९॥

हनूमान् पश्चिम द्वारम् ररक्ष बलवान् कपिः । प्रमाथि प्रघसाभ्याम् च वीरैर् अन्यैश् च सम्गतः ॥४०॥

मध्यमे च स्वयम् गुल्मे सुग्रीवह् समतिष्ठत । सह सर्वैर् हरि श्रेष्ठैह् सुपर्ण श्वसन उपमैः ॥४१॥

वानराणाम् तु षट् त्रिंशत् कोट्यह् प्रख्यात यूथपाः ॥४२॥

निपीड्य उपनिविष्टाश् च सुग्रीवो यत्र वानरः । शासनेन तु रामस्य लक्ष्मणह् सविभीषणः ॥४३॥

द्वारे द्वारे हरीणाम् तु कोटिम् कोटिम् न्यवेशयत् । पश्चिमेन तु रामस्य सुग्रीवह् सह जाम्बवान् ॥४४॥

अदूरान् मध्यमे गुल्मे तस्थौ बहु बल अनुगः । ते तु वानर शार्दूलाह् शार्दूला;इव दम्ष्ट्रिणः ॥४५॥

गृहीत्वा द्रुम शैल अग्रान् हृष्टा युद्धाय तस्थिरे । सर्वे विकृत लान्गूलाह् सर्वे दम्ष्ट्रा नख आयुधाः ॥४६॥

सर्वे विकृत चित्र अन्गाह् सर्वे च विकृत आननाः । दश नाग बलाह् केचित् केचिद् दश गुण उत्तराः ॥४७॥

केचिन् नाग सहस्रस्य बभूवुस् तुल्य विक्रमाः । सन्ति च ओघा बलाह् केचित् केचित् शत गुण उत्तराः ॥४८॥

अप्रमेय बलाश् च अन्ये तत्र आसन् हरि यूथपाः । अद्भुतश् च विचित्रश् च तेषाम् आसीत् समागमः ॥४९॥

तत्र वानर सैन्यानाम् शलभानाम् इव उद्गमः । पतिपूर्णम् इव आकाशम् संचन्ना इव च मेदिनी ॥५०॥

लन्काम् उपनिविष्टैश् च सम्पतद्भिश् च वानरैः । शतम् शत सहस्राणाम् पृथग् ऋक्ष वन ओकसाम् ॥५१॥

लन्का द्वाराण्य् उपाजग्मुर् अन्ये योद्धुम् समन्ततः । आवृतह् स गिरिह् सर्वैस् तैह् समन्तात् प्लवम् गमैः ॥५२॥

अयुतानाम् सहस्रम् च पुरीम् ताम् अभ्यवर्तत । वानरैर् बलवद्भिश् च बभूव द्रुम पाणिभिः ॥५३॥

सर्वतह् सम्वृता लन्का दुष्प्रवेशा अपि वायुना । राक्षसा विस्मयम् जग्मुह् सहसा अभिनिपीडिताः ॥५४॥

वानरैर् मेघ सम्काशैह् शक्र तुल्य पराक्रमैः । महान् शब्दो अभवत् तत्र बल ओघस्य अभिवर्ततः ॥५५॥

सागरस्य इव भिन्नस्य यथा स्यात् सलिल स्वनः । तेन शब्देन महता सप्राकारा सतोरणा ॥५६॥

लन्का प्रचलिता सर्वा सशैल वन कानना । राम लक्ष्मण गुप्ता सा सुग्रीवेण च वाहिनी ॥५७॥

बभूव दुर्धर्षतरा सर्वैर् अपि सुर असुरैः । राघवह् सम्निवेश्य एवम् सैन्यम् स्वम् रक्षसाम् वधे ॥५८॥

सम्मन्त्र्य मन्त्रिभिह् सार्धम् निश्चित्य च पुनह् पुनः । आनन्तर्यम् अभिप्रेप्सुह् क्रम योग अर्थ तत्त्ववित् ॥५९॥

विभीषणस्य अनुमते राज धर्मम् अनुस्मरन् । अन्गदम् वालि तनयम् समाहूय इदम् अब्रवीत् ॥६०॥

गत्वा सौम्य दशग्रीवम् ब्रूहि मद् वचनात् कपे । लन्घयित्वा पुरीम् लन्काम् भयम् त्यक्त्वा गत व्यथः ॥६१॥

भ्रष्ट श्रीक गत ऐश्वर्य मुमूर्षो नष्ट चेतनः । ऋषीणाम् देवतानाम् च गन्धर्व अप्सरसाम् तथा ॥६२॥

नागानाम् अथ यक्षाणाम् राज्नाम् च रजनी चर । यच् च पापम् कृतम् मोहाद् अवलिप्तेन राक्षस ॥६३॥

नूनम् अद्य गतो दर्पह् स्वयम्भू वर दानजः । तस्य दण्ड धरस् ते अहम् दार आहरण कर्शितः ॥६४॥

तस्य दण्डधरस्तेऽहम् दाराहरणकर्शितः । दण्डम् धारयमाणस् तु लन्का द्वरे व्यवस्थितः ॥६५॥

पदवीम् देवतानाम् च महर्षीणाम् च राक्षस । राजर्षीणाम् च सर्वेणाम् गमिष्यसि मया हतः ॥६६॥

बलेन येन वै सीताम् मायया राक्षस अधम । माम् अतिक्रामयित्वा त्वम् हृतवांस् तद् विदर्शय ॥६७॥

अराक्षसम् इमम् लोकम् कर्ता अस्मि निशितैह् शरैः । न चेत् शरणम् अभ्येषि माम् उपादाय मैथिलीम् ॥६८॥

धर्म आत्मा रक्षसाम् श्रेष्ठह् सम्प्राप्तो अयम् विभीषणः । लन्का ऐश्वर्यम् ध्रुवम् श्रीमान् अयम् प्राप्नोत्य् अकण्टकम् ॥६९॥

न हि राज्यम् अधर्मेण भोक्तुम् क्षणम् अपि त्वया । शक्यम् मूर्ख सहायेन पापेन अविजित आत्मना ॥७०॥

युध्यस्व वा धृतिम् कृत्वा शौर्यम् आलम्ब्य राक्षस । मत् शरैस् त्वम् रणे शान्तस् ततह् पूतो भविष्यसि ॥७१॥

यद्याविशसि लोकांस् त्रीन् पक्षि भूतो मनो जवः । मम चक्षुष् पथम् प्राप्य न जीवन् प्रतियास्यसि ॥७२॥

ब्रवीमि त्वाम् हितम् वाक्यम् क्रियताम् और्ध्वदेकिकम् । सुदृष्टा क्रियताम् लन्का जीवितम् ते मयि स्थितम् ॥७३॥

इत्य् उक्तह् स तु तारेयो रामेण अक्लिष्ट कर्मणा । जगाम आकाशम् आविश्य मूर्तिमान् इव हव्य वाट् ॥७४॥

सो अतिपत्य मुहूर्तेन श्रीमान् रावण मन्दिरम् । ददर्श आसीनम् अव्यग्रम् रावणम् सचिवैह् सह ॥७५॥

ततस् तस्य अविदूरेण निपत्य हरि पुम्गवः । दीप्त अग्नि सदृशस् तस्थाव् अन्गदह् कनक अन्गदः ॥७६॥

तद् राम वचनम् सर्वम् अन्यून अधिकम् उत्तमम् । सामात्यम् श्रावयाम् आस निवेद्य आत्मानम् आत्मना ॥७७॥

दूतो अहम् कोसल इन्द्रस्य रामस्य अक्लिष्ट कर्मणः । वालि पुत्रो अन्गदो नाम यदि ते श्रोत्रम् आगतः ॥७८॥

आह त्वाम् राघवो रामह् कौसल्य आनन्द वर्धनः । निष्पत्य प्रतियुध्यस्व नृशंसम् पुरुष अधम ॥७९॥

हन्ता अस्मि त्वाम् सह अमात्यम् सपुत्र ज्नाति बान्धवम् । निरुद्विग्नास् त्रयो लोका भविष्यन्ति हते त्वयि ॥८०॥

देव दानव यक्षाणाम् गन्धर्व उरग रक्षसाम् । शत्रुम् अद्य उद्धरिष्यामि त्वाम् ऋषीणाम् च कण्टकम् ॥८१॥

विभीषणस्य च ऐश्वर्यम् भविष्यति हते त्वयि । न चेत् सत्कृत्य वैदेहीम् प्रणिपत्य प्रदास्यसि ॥८२॥

इत्य् एवम् परुषम् वाक्यम् ब्रुवाणे हरि पुम्गवे । अमर्ष वशम् आपन्नो निशा चर गण ईश्वरः ॥८३॥

ततः स रोष ताम्र अक्षह् शशास सचिवांस् तदा । गृह्यताम् एष दुर्मेधा वध्यताम् इति च असकृत् ॥८४॥

रावणस्य वचह् श्रुत्वा दीप्त अग्नि सम तेजसः । जगृहुस् तम् ततो घोराश् चत्वारो रजनी चराः ॥८५॥

ग्राहयाम् आस तारेयह् स्वयम् आत्मानम् आत्मना । बलम् दर्शयितुम् वीरो यातु धान गणे तदा ॥८६॥

स तान् बाहु द्वये सक्तान् आदाय पतगान् इव । प्रासादम् शैल सम्काशम् उत्पापात अन्गदस् तदा ॥८७॥

तेस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः । भुमौ निपतिताह् सर्वे राक्षस इन्द्रस्य पश्यतः ॥८८॥

ततः प्रासाद शिखरम् शैल शृन्गम् इव उन्नतम् । तत् पफाल तदा आक्रान्तम् दशग्रीवस्य पश्यतः ॥८९॥

पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम् ॥९०॥

भन्क्त्वा प्रासाद शिखरम् नाम विश्राव्य च आत्मनः । विनद्य सुमहा नादम् उत्पपात विहायसा ॥९१॥

व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥९२॥

रावणस् तु परम् चक्रे क्रोधम् प्रासाद धर्षणात् । विनाशम् च आत्मनह् पश्यन् निह्श्वास परमो अभवत् ॥९३॥

रामस् तु बहुभिर् हृष्टैर् निनदद्भिह् प्लवम् गमैः । वृतो रिपु वध आकान्क्षी युद्धाय एव अभ्यवर्तत ॥९४॥

सुषेणस् तु महा वीर्यो गिरि कूट उपमो हरिः । बहुभिह् सम्वृतस् तत्र वानरैह् काम रूपिभिः ॥९५॥

स तु द्वाराणि सर्वाणि सुग्रीव वचनात् कपिः । पर्याक्रमत दुर्धर्षो नक्षत्राणि इव चन्द्रमाः ॥९६॥

तेषाम् अक्षौहिणि शतम् समवेक्ष्य वन ओकसाम् । लन्काम् उपनिविष्टानाम् सागरम् च अतिवर्तताम् ॥९७॥

राक्षसा विस्मयम् जग्मुस् त्रासम् जग्मुस् तथा अपरे । अपरे समर उद्धर्षाद्द् हर्षम् एव उपपेदिरे ॥९८॥

कृत्स्नम् हि कपिभिर् व्याप्तम् प्राकार परिख अन्तरम् । ददृशू राक्षसा दीनाह् प्राकारम् वानरी कृतम् ॥९९॥

हाहाकारमकुर्वन्त राक्षसा भयमागताः । तस्मिन् महा भीषणके प्रवृत्ते । कोलाहले राक्षस राजधान्याम् । प्रगृह्य रक्षांसि महा आयुधानि । युग अन्त वाता;इव सम्विचेरुह् ॥१००॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः ॥

Listen to the sarga
0:00