ततस् ते राक्षसास् तत्र गत्वा रावण मन्दिरम् । न्यवेदयन् पुरीम् रुद्धाम् रामेण सह वानरैः ॥१॥
6.42
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
रुद्धाम् तु नगरीम् ज़्रुत्वा जात क्रोधो निज़ा चरः । विधानम् द्विगुणम् ज़्रुत्वा प्रासादम् सो अध्यरोहत ॥२॥
स ददर्ज़ आवृताम् लन्काम् सज़ैल वन काननाम् । असम्ख्येयैर् हरि गणैः सर्वतो युद्ध कान्क्षिभिः ॥३॥
स दृष्ट्वा वानरैह् सर्वाम् वसुधाम् कवली कृताम् । कथम् क्षपयितव्याह् स्युर् इति चिन्ता परो अभवत् ॥४॥
स चिन्तयित्वा सुचिरम् धैर्यम् आलम्ब्य रावणः । राघवम् हरि यूथाम्ज़् च ददर्ज़ आयत लोचनः ॥५॥
राघवः सहसैन्येन मुदितो नाम पुप्लुवे । लङ्काम् ददर्श गुप्ताम् वै सर्वतो राक्षसैर्वृताम् ॥६॥
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनीम् । जगाम मनसा सीताम् दूयमानेन चेतसा ॥७॥
अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी ॥८॥
निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयद्रामो वानरान् द्विषताम् वधे ॥९॥
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा । संघर्षमाणाः प्लवगाः सिम्हनादै रपूर्यन् ॥१०॥
शिखरैर्विकिरामैतां लङ्काम् मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥११॥
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च । तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥१२॥
प्रेक्षतो राक्षस इन्द्रस्य तान्य् अनीकानि भागज़ः । राघव प्रिय काम अर्थम् लन्काम् आरुरुहुस् तदा ॥१३॥
ते ताम्र वक्त्रा हेम आभा राम अर्थे त्यक्त जीविताः । लन्काम् एव अह्यवर्तन्त साल ताल ज़िला आयुधाः ॥१४॥
ते द्रुमैः पर्वत अग्रैज़् च मुष्टिभिज़् च प्लवम् गमाः । प्रासाद अग्राणि च उच्चानि ममन्तुस् तोरणानि च ॥१५॥
पारिखाः पूरयन्ति स्म प्रसन्न सलिल आयुताः । पांसुभिह् पर्वत अग्रैज़् च तृणैः काष्ठैज़् च वानराः ॥१६॥
ततः सहस्र यूथाज़् च कोटि यूथाज़् च यूथपाः । कोटी ज़त युताज़् च अन्ये लन्काम् आरुरुहुस् तदा ॥१७॥
कान्चनानि प्रमृद्नन्तस् तोरणानि प्लवम् गमाः । कैलास ज़िखर आभानि गोपुराणि प्रमथ्य च ॥१८॥
आप्लवन्तः प्लवन्तज़् च गर्जन्तज़् च प्लवम् गमाः । लन्काम् ताम् अभ्यवर्तन्त महा वारण सम्निभाः ॥१९॥
जयत्य् अतिबलो रामो लक्ष्मणज़् च महा बलः । राजा जयति सुग्रीवो राघवेण अभिपालितः ॥२०॥
इत्य् एवम् घोषयन्तज़् च गर्जन्तज़् च प्लवम् गमाः । अभ्यधावन्त लन्कायाह् प्राकारम् काम रूपिणः ॥२१॥
वीर बाहुः सुबाहुज़् च नलज़् च वन गोचरः । निपीड्य उपनिविष्टास् ते प्राकारम् हरि यूथपाः ॥२२॥
एतस्मिन्न् अन्तरे चक्रुह् स्कन्ध आवार निवेज़नम् । पूर्व द्वारम् तु कुमुदह् कोटिभिर् दज़भिर् वृतः ॥२३॥
आवृत्य बलवांस् तस्थौ हरिभिर् जित काज़िभिः । सहायार्थे तु तस्येव निविष्टः प्रसभो हरिः ॥२४॥
पनसश्च महाबाहुर्वानरै रभिसम्वृतः । दक्षिण द्वारम् आगम्य वीरह् ज़त बलिह् कपिः ॥२५॥
आवृत्य बलवांस् तस्थौ विम्ज़त्या कोटिभिर् वृतः । सुषेणह् पज़्चिम द्वारम् गतस् तारा पिता हरिः ॥२६॥
आवृत्य बलवांस् तस्थौ षष्टि कोटिभिर् आवृतः । उत्तर द्वारम् आसाद्य रामह् सौमित्रिणा सह ॥२७॥
आवृत्य बलवांस् तस्थौ सुग्रीवज़् च हरि ईज़्वरः । ऋष्काणाम् भीम वेगानाम् धूम्रह् ज़त्रु निबर्हणः ॥२८॥
वृतह् कोट्या महा वीर्यस् तस्थौ रामस्य पार्ज़्वतः । सम्नद्धस् तु महा वीर्यो गदा पाणिर् विभीषणः ॥२९॥
वृतो यस् तैस् तु सचिवैस् तस्थौ तत्र महा बलः । गजो गव अक्षो गवयह् ज़रभो गन्ध मादनः ॥३०॥
समन्तात् परिघावन्तो ररक्षुर् हरि वाहिनीम् । ततः कोप परीत आत्मा रावणो राक्षस ईज़्वरः ॥३१॥
निर्याणम् सर्व सैन्यानाम् द्रुतम् आज्नापयत् तदा । एतच्च्रुत्वा तदा वाक्यं रावणस्य मुखेरितम् ॥३२॥
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः । ततः प्रबोधिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ॥३३॥
हेमकोणैरभिहता राक्षसानां समन्ततः । विनेदुश्च महाघोषाः शङ्खः शतसहस्रशः ॥३४॥
राक्षसानां सुघोराणां मुखमारुतपूरिताः । ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ॥३५॥
विध्युन्मण्डलसंनद्धाः सबलाका इवाम्बुदाः । निष्पतन्ति ततः सैन्या हृष्टा रावण चोदिताः ॥३६॥
समये पूर्यमाणस्य वेगा;इव महा उदधेः । ततो वानरसैन्येन मुक्तो नादः समन्ततः ॥३७॥
मलयः पूरितो येन ससानुप्रस्थकन्दरः । शङ्खदुन्दुभिनिर्घोषः सिम्हनादस्तरस्विनाम् ॥३८॥
पृथिवीं चान्तरिक्षम् च सागरं चाभ्यनादयत् । गजानां बृंहितैः सार्धं हयानां हेषितैरपि ॥३९॥
रथानां नेमिनिर्घोषै रक्षसाम् पदनिःस्वनैः । एतस्मिन्न् अन्तरे घोरह् सम्ग्रामह् समपद्यत ॥४०॥
रक्षसाम् वानराणाम् च यथा देव असुरे पुरा । ते गदाभिह् प्रदीप्ताभिह् ज़क्ति ज़ूल परज़्वधैः ॥४१॥
निजघ्नुर् वानरान् घोराह् कथयन्तह् स्व विक्रमान् । तथो वृक्षैर् महा कायाः पर्वत अग्रैज़् च वानराः ॥४२॥
निजघ्नस्तानि रक्षांसि नगैर्दनैश्च वेगिनः । राजा जयति सुग्रीव इति शब्दो महानभूत् ॥४३॥
राजन् जय जयेत्युक्त्वा स्वस्वनामकथां ततः । राक्षसास्त्वपरे भीमाः प्राकारस्थामहीं गतान् ॥४४॥
वानरान् भिन्दिपालैश्च शूलै श्चैव व्यदारयन् । वानराचापि सम्क्रुद्धाह् प्राकारस्थान् मही गताः ॥४५॥
राक्षसान् पातयाम् आसुह् समाप्लुत्य प्लवम् गमाः । स सम्प्रहारस् तुमुलो मांस ज़ोणित कर्दमः ॥४६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्येयुद्धकाण्डे द्विचत्वारिंशः ॥