अनुवाकः 12 TS 5.6.12

(A12)

(पृश्निः॒ - षड्विꣳ॑शतिः)

अनुवाकः 12 - Complete Audio

TS 5.6.12 - स्वरानुगामी

0:00 0:00
PS1.1 पृश्नि॑-स्तिर॒श्चीन॑-पृश्निरू॒र्द्ध्व-पृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी
PS1.2 ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती
PS1.3 क्षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा
PS1.4 व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑
PS1.5 ऐन्द्राबार्.हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.12.1 TS 5.6.12.1
पृश्नि॑-स्तिर॒श्चीन॑-पृश्निरू॒र्द्ध्व-पृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्.हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
पृश्निः॑ । ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ - पृ॒श्निः॒ । ऊ॒द्‌र्ध्वपृ॑श्नि॒रित्यू॒द्‌र्ध्व - पृ॒श्निः॒ । ते । मा॒रु॒ताः । फ॒ल्गूः । लो॒हि॒तो॒र्णीति॑ लोहित - ऊ॒र्णीः । ब॒ल॒क्षी । ताः । सा॒र॒स्व॒त्यः॑ । पृष॑ती । स्थू॒लपृ॑ष॒तीति॑ स्थू॒ल - पृ॒ष॒ती॒ । क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्र-पृ॒ष॒ती॒ । ताः । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । ति॒स्रः । श्या॒माः । व॒शाः । पौ॒ष्णियः॑ । ति॒स्रः । रोहि॑णीः । व॒शाः । मै॒त्रियः॑ । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्.॒ह॒स्प॒त्याः । अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 26

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पृश्न्यादयस्त्रयो मारुताः ॥ पृश्निः शुक्रवर्णबिन्दुचितः चित्रवर्णः । तिरश्चीनपृश्रिः तिर्यक्प्रततवर्णः पृश्निवर्णः । एतेनोर्ध्वपृश्निर्व्याख्यातः । उभयत्रापि प्रधानेन वहुव्रीहिः । 'फल्ग्वादयस्तिस्रस्सारस्वत्यः । फल्गूः लवणवर्णः । लोहितोर्णी रोहितरोमा। छान्दसो ङीप् । सतिशिष्टेन प्रत्ययस्वरेण वहुव्रीहिस्वरः । बलक्षी शुक्ला । बवयोरेकत्वमिच्छन्ति । 'अन्यतो ङीप्' इति ङीप्, नोपधापेक्षमन्यत्वम् । पृषत्यादयस्त्रयो वैश्वदेव्यः । शुक्लैर्बिन्दुभिश्चिताः मध्यमैः न स्थूलैः न क्षुद्रैः । शतृवद्भावात् 'उगिद्वर्ण' इति ङीप् । स्थूलपृषती स्थूलानि पृषन्ति यस्याः । 'उगिद्वर्णग्रहणवर्जम्' इति तदन्तग्रहणाभ्यनुज्ञानात् 'उगितश्च' इति ङीप् । एवं क्षुद्रपृषती । तिस्रः श्यामाः वशाः पौष्ण्यः । गताः । तिस्रो रोहिणी वशा मैत्र्यः । 'वर्णादनुदात्तात्' इति ङीब्नकारौ, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । अरुणललामास्त्रयस्तूपराः ऐन्द्राबार्हस्पत्याः । अरुणललामाः सन्ध्यावर्णपुण्ड्राः ॥
इति पञ्चमे षष्ठे द्वादशोनुवाकः ॥