अनुवाकः 21 TS 5.6.21

(A21)

(सोमा॑य स्व॒राज्ञे॒ - चतु॑स्त्रिꣳशत्)

अनुवाकः 21 - Complete Audio

TS 5.6.21 - स्वरानुगामी

0:00 0:00
PS1.1 सोमा॑य स्व॒राज्ञे॑-ऽनोवा॒हाव॑न॒ड्वाहा॑-विन्द्रा॒ग्निभ्या॑-मोजो॒दाभ्या॒मुष्टा॑रा-विन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्याꣳ॑ सीरवा॒हाववी॒
PS1.2 द्वे धे॒नू भौ॒मी दि॒ग्भ्यो
PS1.3 वड॑बे॒ द्वे धे॒नू भौ॒मी
PS1.4 वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू
PS1.5 भौ॒मी व॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी
PS1.6 कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ
PS1.7 प॑रिम॒रौ

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.6.21.1 TS 5.6.21.1
सोमा॑य स्व॒राज्ञे॑-ऽनोवा॒हाव॑न॒ड्वाहा॑-विन्द्रा॒ग्निभ्या॑-मोजो॒दाभ्या॒मुष्टा॑रा-विन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्याꣳ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी व॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥
▶ पदपाठः (Word-by-word)
सोमा॑य । स्व॒राज्ञ्॒ इति॑ स्व - राज्ञे᳚ । अ॒नो॒वा॒हावित्य॑नः - वा॒हौ । अ॒न॒ड्वाहौ᳚ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । ओ॒जो॒दाभ्या॒मित्यो॑जः-दाभ्या᳚म् । उष्टा॑रौ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि-भ्या॒म् । ब॒ल॒दाभ्या॒मिति॑ बल - दाभ्या᳚म् । सी॒र॒वा॒हाविति॑ सीर - वा॒हौ । अवी॒ इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः । वड॑बे॒ इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । वै॒रा॒जी इति॑ । पु॒रु॒षी इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । वा॒यवे᳚ । आ॒रो॒ह॒ण॒वा॒हावित्या॑रोहण - वा॒हौ । अ॒न॒ड्वाहौ᳚ । वा॒रु॒णी इति॑ । कृ॒ष्णे इति॑ । व॒शे इति॑ । अ॒रा॒ड्यौ᳚ । दि॒व्यौ । ऋ॒ष॒भौ । प॒रि॒म॒राविति॑ परि - म॒रौ ॥
पदसंख्या: 34

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सोमाय स्वराज्ञेऽनोवाहावनड्वाहौ ॥ शकटस्य वोढारो पुङ्गवौ । इन्द्राग्निभ्यां ओजोदाभ्यां उष्टारौ प्रासङ्गस्य वोढारौ अनड्वाहौ । इन्द्राग्निभ्यां बलदाभ्यां सीरवाहौ हलस्य वोढारौ अनड्वाहौ । इन्दाग्निशब्दे 'देवताद्वन्द्वे च' इति प्राप्तस्य युगपत्प्रकृतिस्वरस्य 'नोत्तरपदेऽनुदात्तादौ' इनि प्रतिषेधः । अवी द्वे धेनू भौमी भूमिदेवत्ये । पूर्ववत् सवर्णदीर्घत्वम् । इन्द्राग्निभ्यामेवावी इति केचित् । दिग्भ्यो वडवे अश्वस्त्रियौ द्वे भौमी भौम्ये गते । वैराजी विरड्देवत्ये पुरुषी मनुष्यस्त्रियौ । जातिलक्षणो ङीप् । पूर्वत्र उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । पुनर्धेनू भौमी गते । वायव आरोहणवाहौ मनुष्यादेवारोहणादेः वोढारौ । तत एवाण् । कृष्णे वशे वारुण्यौ गते । अराड्यौ दिव्यौ वृषभौ अराड्यौ दीर्घोच्छ्रितशृङ्गौ । दिव्यौ द्युदेवत्यौ । वृषभौ सेक्तारौ । परिमरौ परिमर्तारौ ययोः द्वयोः मृतानुजौ मृतपूर्व- जौ चोच्येते । 'परेरभितो भाविमण्डलं' इत्युत्तरपदान्तोदात्तत्वम् ॥
इति पञ्चमे षष्ठे एकविंशोनुवाकः ॥