अनुवाकः 10 TS 7.4.10

(A10)

(त - एका॒न्नप॑ञ्चा॒शच्च॑)

अनुवाकः 10 - Complete Audio

TS 7.4.10 - स्वरानुगामी

0:00 0:00
PS1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञ्क्रतू॒नां
PS1.2 कस्मा॒त् तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा
PS1.3 अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒-मथा॑तिरा॒त्र-म॑नुपू॒र्वमे॒वैतद्-य॑ज्ञ्क्र॒तूनु॒पेत्य॒
PS1.4 ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत् पिब॑न्त
PS1.5 आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒
PS1.6 ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑
PS1.7 मुख॒त ए॒व स्तोमा॒न् प्र
PS1.8 यु॑ञ्जते॒ ते
PS2.1 सꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒
PS2.2 द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒
PS2.3 गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै
PS2.4 लो॒को ज्योति॒रूर्ग्-वि॒राट्-थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं
PS2.5 ॅय॑न्ति रथन्त॒रं दिवा॒ भव॑ति
PS2.6 रथन्त॒रं नक्त॒मित्या॑हु-र्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑
PS2.7 सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत्
PS2.8 तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.10.1 TS 7.4.10.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञ्क्रतू॒नां कस्मा॒त् तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒-मथा॑तिरा॒त्र-म॑नुपू॒र्वमे॒वैतद्-य॑ज्ञ्क्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत् पिब॑न्त आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑ मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒ ते - [ ]
▶ पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । प॒र॒मः । य॒ज्ञ्॒क्र॒तू॒नामिति॑ यज्ञ्-क्र॒तू॒नाम् । कस्मा᳚त् । तम् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । इति॑ । ए॒तत् । वै । अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । अथ॑ । उ॒क्थ्य᳚म् । अथ॑ । षो॒ड॒शिन᳚म् । अथ॑ । अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् । ए॒व । ए॒तत् । य॒ज्ञ्॒क्र॒तूनिति॑ यज्ञ् - क्र॒तून् । उ॒पेत्येत्यु॑प - इत्य॑ । तान् । आ॒लभ्येत्या᳚ - लभ्य॑ । प॒रि॒गृह्येति॑ परि - गृह्य॑ । सोम᳚म् । ए॒व । ए॒तत् । पिब॑न्तः । आ॒स॒ते॒ । ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑ - स्तो॒मः॒ । वै । स्तोमा॑नाम् । मुख᳚म् । मु॒ख॒तः । ए॒व । स्तोमान्॑ । प्रेति॑ । यु॒ञ्ज॒ते॒ । ते ।
पदसंख्या: 50

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परमह्नां कॢप्तिः - ब्रह्मवादिन इत्यादिः ॥ यज्ञक्रतवस्सोमयागाः । अतिरात्रस्तेषां परमः उत्तमः अन्त्यां संस्था । तत् तस्मात्कारणात् तं प्रथममुपयन्तीति ब्रह्मवादिनः पर्यनुयोगं वदन्ति । अथ समाधत्ते - एतद्वा इत्यादि । यदेतदतिरात्रं प्रथमं प्रायणीयं उपयन्ति एतत्खल्वग्निष्टोमादीन् चतुरो यज्ञक्रतून् संवत्सरस्य मुखे अनुपूर्वमनुक्रमेण उपेत्य तानालभ्य पृथक्पृथगारभ्य परिगृह्य समाप्यते सोमं पिबन्तः संवत्सरायासते सत्रिणः । ज्योतिष्टोममित्यादि । तस्मात्सर्वयज्ञक्रत्वर्थं ज्योतिष्टोममेवातिरात्रं प्रथममुपयन्ति । ज्योतिष्टोमः स्तोमानां स्तोमवतां मुखम् । तस्मान्मुखत एवारभ्य सर्वान् स्तोमान् प्रयुञ्जते ॥
2 अत्र ज्योतिर्गौरायुरिति त्रितयावृत्तिज्जन्मा प्रायः सकलस्संवत्सरः । तत्र केन विशेषणेन तुल्यप्रभावानां ज्योतिरेव सत्रस्य प्रथमं युज्यते न गोआयुषी प्रति पर्यनुयोगावसरे ज्योतिषो गुणविशेषवत्तां इतरयोश्च तदभावं दर्शयितुमाह - ते संस्तुतो इत्यादि ॥ ते अनन्तरोक्ता ज्योतिरादयः त्रयः संस्तुता विराजमभिसम्पद्यन्ते विराट् दशाक्षरा तत्संपत्त्या संपद्यन्ते दशकास्संपूर्णा इव भवन्ति । ज्योतिरतिरात्रस्य सप्तत्यधिकशतत्रयं स्तोत्रीया इति कृत्वा । 'नातिरात्रे षोडशिनं गृह्णाति' इत्यस्मिन् पक्षे इदमुच्यते । ग्रहगपक्षे तु 'अथ षोडशिनं' इति पूर्वोक्तं वेदितव्यम् । विराट्संपत्तिलक्षणं गुणविशेषं ज्योतिषः प्रतिपाद्य इदानीं गोआयुषोस्तदभावं प्रदर्शयति - द्वे चेति । द्वे ऋचौ अतिरिच्येते अतिक्रम्य वर्तेते । विराट्संपत्तिविघातोतिकमः । किं ज्योतिष्येव नैवं भवितुमर्हतीति न ह्येकत्र सम्भवतीति विराजमभिसम्पद्यन्ते । द्वे चर्चावितिरिच्येते इति । तस्मात्सामर्थ्यात् गोआयुषोरिति वेदितव्यम् । यद्वा - द्वे गोआयुषी ऋचावतिरिच्येते डति गोआयुषोर्व्यतिरेकः कथ्यते । तमेवातिरेकं दर्शयति - एकयेत्यादि । गौरेकयर्चा अतिरिक्तः विराजं अतिक्रम्य वर्तते । आयुरेकया विराज ऊनो वर्तते । दर्शितौ चैतयोरूनातिरेकावाचोर्येण - गौः खलु पञ्चदशो बहिष्पवमानः त्रिवृन्त्याज्यानि सप्तदश माध्यन्दिनं सवनं संर्वैकविंश तृतीयसवनं सोक्थ्यमिति । एवमेकचत्वारिंशदधिकं शतद्वयं गोः स्तोत्रीयाः । अथान्यस्त्रिवृत् बहिष्पवमानं पञ्चदशाज्यानि सर्वसप्तदशं माध्यन्दिनं सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । एवमनयोरेकोनषष्ट्यधिकं शतद्वयमिति । तस्मादनयोरप्राधान्यं विराडभिसंपत्त्या ज्योतिष एव प्राथम्यमिति ॥
3 पुनरपि ज्योतिरेव स्तूयते - सुवर्गो वा इत्यादि ॥ गतम् । किं बहुना सुवर्ग एव लोको ज्योतिः । तत्साधनत्वात्ताच्छब्द्यम् । ऊर्गन्नं विराट् । तां चाभिसम्पद्यते ज्योतिः तस्मात्तेन ज्योतिषा स्वर्गमेव गच्छन्ति । अन्नस्य स्वर्गपर्यायत्वात्पृथगुपादानम् ॥
4 रथन्तरमित्यादि ॥ अतिरात्रे दिवासवनेषु रथन्तरमेव साम भवति । नक्तमपि रथन्तरमेव प्रवर्तते । त्रिवृद्रथन्तरसन्धिरिति च सन्ध्यभिप्रायम् । एवमस्य रथन्तरैकसामतां अपश्यन्तो ब्रह्मवादिन आहुः - केन तदजामित्वं आलस्याभावः केन तत्र सम्पद्यते इति । तत्रोत्तरं ब्रूयात् - सौभरमित्यादि । तृतीयसवने उक्थ्यपर्याये सौभरो नाम ब्रह्मणस्सामास्ति । 'अनसन्तान्नपुंसकात्' इति अच् समासान्तः । बृहत् बृहता गेयः तन्मध्यतः मध्यमे उक्थ्ये विदधाति विधृत्यै विधारणार्थं उक्थ्यानाम् । तेनेत्यादि । तेन इत्थं क्रियमाणेन अजामि अजामित्वमपि सम्पद्यते इति ॥
इति सप्तमे चतुर्थे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.10.2 TS 7.4.10.2
सꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राट्-थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं ॅय॑न्ति रथन्त॒रं दिवा॒ भव॑ति रथन्त॒रं नक्त॒मित्या॑हु-र्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत् तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥
▶ पदपाठः (Word-by-word)
सꣳस्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । द्वे इति॑ । च॒ । ऋचौ᳚ । अतीति॑ । रि॒च्ये॒ते॒ इति॑ । एक॑या । गौः । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । एक॑या । आयुः॑ । ऊ॒नः । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । ज्योतिः॑ । ऊर्क् । वि॒राडिति॑ वि - राट् । सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । तेन॑ । लो॒कम् । य॒न्ति॒ । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । दिवा᳚ । भव॑ति । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् । नक्त᳚म् । इति॑ । आ॒हुः॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । केन॑ । तत् । अजा॑मि । इति॑ । सौ॒भ॒रम् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । बृ॒हत् । तन् । म॒द्ध्य॒तः । द॒ध॒ति॒ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । तेन॑ । अजा॑मि ॥
पदसंख्या: 49