अनुवाकः 9 TS 7.4.9

(A9)

(सु॒व॒र्गं - प॑ञ्चा॒शत्)

अनुवाकः 9 - Complete Audio

TS 7.4.9 - स्वरानुगामी

0:00 0:00
PS1.1 सु॒व॒र्गं ॅवा ए॒ते लो॒कं
PS1.2 ॅय॑न्ति॒ ये स॒त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व
PS1.3 दी॒क्षाभि॑रा॒त्मानꣳ॑ श्रपयन्त उप॒सद्भि॒-र्द्वाभ्यां॒ ॅलोमाव॑
PS1.4 द्यन्ति॒ द्वाभ्यां॒ त्वचं॒ द्वाभ्या॒मसृ॒द्
PS1.5 द्वाभ्यां᳚ माꣳ॒॒सं द्वाभ्या॒मस्थि॒ द्वाभ्यां᳚
PS1.6 म॒ज्जान॑मा॒त्मद॑क्षिणं॒ ॅवै स॒त्रमा॒त्मान॑मे॒व दक्षि॑णां
PS1.7 नी॒त्वा सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒
PS1.8 शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒
PS1.9 अथो॒ रघी॑याꣳसः सुव॒र्गं ॅलो॒कम॑या॒मेति॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.9.1 TS 7.4.9.1
सु॒व॒र्गं ॅवा ए॒ते लो॒कं ॅय॑न्ति॒ ये स॒त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानꣳ॑ श्रपयन्त उप॒सद्भि॒-र्द्वाभ्यां॒ ॅलोमाव॑ द्यन्ति॒ द्वाभ्यां॒ त्वचं॒ द्वाभ्या॒मसृ॒द् द्वाभ्यां᳚ माꣳ॒॒सं द्वाभ्या॒मस्थि॒ द्वाभ्यां᳚ म॒ज्जान॑मा॒त्मद॑क्षिणं॒ ॅवै स॒त्रमा॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याꣳसः सुव॒र्गं ॅलो॒कम॑या॒मेति॑ ( ) ॥
▶ पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । वै । ए॒ते । लो॒कम् । य॒न्ति॒ । ये । स॒त्रम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । अ॒भीति॑ । इ॒न्ध॒ते॒ । ए॒व । दी॒क्षाभिः॑ । आ॒त्मान᳚म् । श्र॒प॒य॒न्ते॒ । उ॒प॒सद्भि॒रित्यु॑प॒सत् - भिः॒ । द्वाभ्या᳚म् । लोम॑ । अवेति॑ । द्य॒न्ति॒ । द्वाभ्या᳚म् । त्वच᳚म् । द्वाभ्या᳚म् । असृ॑त् । द्वाभ्या᳚म् । माꣳ॒॒सम् । द्वाभ्या᳚म् । अस्थि॑ । द्वाभ्या᳚म् । म॒ज्जान᳚म् । आ॒त्मद॑क्षिण॒मित्या॒त्म - द॒क्षि॒ण॒म् । वै । स॒त्रम् । आ॒त्मान᳚म् । ए॒व । दक्षि॑णाम् । नी॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । शिखा᳚म् । अनु॑ । प्रेति॑ । व॒प॒न्ते॒ । ऋद्ध्यै᳚ । अथो॒ इति॑ । रघी॑याꣳसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒या॒म॒ । इति॑ ( ) ॥
पदसंख्या: 50

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अष्टमे संवत्सरसत्रस्य दीक्षाकाल उक्तः । अथ नवमे दीक्षा उपसदश्चोच्यन्ते । ता उभयीर्विधत्ते - सुवर्गं वा इति ॥ यत्रानुष्ठायिनः स्वर्गं गच्छन्ति... तायै दीक्षाभिरात्मानं स्वेदेहमभीन्धत एव सर्वतो ज्वलयत्येव । उपसद्भिस्तु श्रपयन्ते स्वदेहं पचन्ति । तस्माद्दीक्षा उपसदश्चानुष्ठेया इति विध्युन्नयः । यदि द्वादशाहविकृतित्वेन प्राप्ताः तदाऽपि विकृतिलिङ्गत्वाय स्तुतये वा तदनुवादोऽस्तु ॥
2 अथ त.... ... .र्वन् तासामुभयविधानां द्वादशत्वं प्रकटयति - द्वाभ्यामिति ॥ द्वाभ्यां दिनद्वयानुष्ठेयाभ्यां दीक्षाभ्यामुपमद्भ्यां च स्वकीयं लोम हविरर्थमवद्यन्ति अनन्तरभाविनीभ्यां द्वाभ्यां त्वचमवद्यन्ति । एवं रक्तमांसास्थिमज्जसु योजनीयम् । यदेतत्सत्रं तदेतदात्मदक्षिणं वै सशरीरमेव तत्र दक्षिणा न त्वन्या गवादिरूपा अस्ति । तस्मात् स्वशररिमेव दक्षिणारूपेण नीत्वा स्वर्गं प्राप्नुवन्ति ॥
3 यदुक्तं सूत्रकारेण - सत्रं चेद्वपनकाले सशिखानि वपन्ते इति । तदेतद्विधत्ते - शिखामिति ॥ शिखामनुलक्ष्य प्रकर्षेण वपनं कुर्युः । तच्च मृतत्वग्रूपाणां केशानामुपगमात्समृद्ध्यै भवति । अपि च केशभाररहिता रधीयांसो लघुतरास्सन्तः स्वर्गं प्राप्नुवामेत्यनेनाभिप्रायेण सशिखं वपनं कुर्युः ॥
इति माधवीये वेदार्थप्रकाशे यजुस्सहितायां सप्तमकाण्डे चतुर्थप्रपाठके नवमोनुवाकः ॥