अनुवाकः 16 TS 7.5.16

(A16)

(यः प्रा॑ण॒तो द्यौरा॑दि॒त्यो᳚ - ऽष्टात्रिꣳ॑शत् )

अनुवाकः 16 - Complete Audio

TS 7.5.16 - स्वरानुगामी

0:00 0:00
PS1.1 यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒
PS1.2 इद्राजा॒ जग॑तो ब॒भूव॑
PS1.3 य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒
PS1.4 कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS1.5 उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑
PS1.6 गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा
PS1.7 नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा
PS1.8 महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.16.1 TS 7.5.16.1
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
यः । प्रा॒ण॒त इति॑ प्र - अ॒न॒तः । नि॒मि॒ष॒त इति॑ नि - मि॒ष॒तः । म॒हि॒त्वेति॑ महि - त्वा । एकः॑ । इत् । राजा᳚ । जग॑तः । ब॒भूव॑ ॥ यः । ईशे᳚ । अ॒स्य । द्वि॒पद॒ इति॑ द्वि - पदः॑ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । तस्य॑ । ते॒ । द्यौः । म॒हि॒मा । नक्ष॑त्राणि । रू॒पम् । आ॒दि॒त्यः । ते॒ । तेजः॑ । तस्मै᳚ । त्वा॒ । म॒हि॒म्ने । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ ॥
पदसंख्या: 38

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ वर्णेन महिमानं गृह्णाति - यः प्राणत इति त्रिष्टुभा उपरिष्टादुपयामया ॥ इयं च व्याख्याता 'ऊर्ध्वा अस्य समिधः' इत्यत्र । यः प्राणतो निमिषतश्च जगतो निजमाहात्म्येन य एक एव राजा बभूव, यश्चेष्टे अस्य द्विपदः चतुष्पदः कस्मै अज्ञातव्रतस्वभावाय देवाय हविषा परिचरेम । उपयामः पृथिवी । तथैव गृहीतोसि । प्रजापतये जुष्टं प्रियं च गृह्णामि । तस्य ते द्यौर्महिमा द्यौरिव महांस्त्वमसि । नक्षत्राणि तव रूपं तव बिभ्रति । एतावन्ति वा तव रूपाणि । आदित्यस्ते तेजः आदित्योपि त्वया तेजस्वी भवति । एवं गृहीत्वा जुहोति । तस्मै तादृशाय महिमवते प्रजापतये त्वा जुहोमीति स्वाहुतं करोमीति ॥
इति सप्तमे पञ्चमे षोडशोनुवाकः ॥