अनुवाकः 17 TS 7.5.17

(A17)

(य आ᳚त्म॒दाः पृ॑थि॒व्य॑ग्नि-रेका॒न्नच॑त्वारिꣳ॒॒शत्)

अनुवाकः 17 - Complete Audio

TS 7.5.17 - स्वरानुगामी

0:00 0:00
PS1.1 य आ᳚त्म॒दा ब॑ल॒दा यस्य॒
PS1.2 विश्व॑ उ॒पास॑ते प्र॒शिषं॒ ॅयस्य॑
PS1.3 दे॒वाः
PS1.4 यस्य॑ छा॒याऽमृतं॒ ॅयस्य॑ मृ॒त्युः
PS1.5 कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS1.6 उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑
PS1.7 गृह्णामि॒ तस्य॑ ते पृथि॒वी
PS1.8 म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚
PS1.9 त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.17.1 TS 7.5.17.1
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ ॅयस्य॑ दे॒वाः । यस्य॑ छा॒याऽमृतं॒ ॅयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
यः । आ॒त्म॒दा इत्या᳚त्म - दाः । ब॒ल॒दा इति॑ बल - दाः । यस्य॑ । विश्वे᳚ । उ॒पास॑त॒ इत्यु॑प - आस॑ते । प्र॒शिष॒मिति॑ प्र-शिष᳚म् । यस्य॑ । दे॒वाः ॥ यस्य॑ । छा॒या । अ॒मृत᳚म् । यस्य॑ । मृ॒त्युः । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । तस्य॑ । ते॒ । पृ॒थि॒वी । म॒हि॒मा । ओष॑धयः । वन॒स्पत॑यः । रू॒पम् । अ॒ग्निः । ते॒ । तेजः॑ । तस्मै᳚ । त्वा॒ । म॒हि॒म्ने । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ ॥
पदसंख्या: 39

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 द्वितीयं महिमानं गृह्णाति - आत्मदा इति त्रिष्टुभा उपरिष्टादुपयामया ॥ इयमपि तत्रैव व्याख्याता । य आत्मदाः सर्वस्मै बलदाश्च यस्य प्रशिषं प्रकष्टामाशिषं विश्वेऽप्युपासते देवा अपि यस्य प्रशिषमुपासते अमृतं मृत्युश्च यस्य छायेव विधेया । कस्मा इत्यादि । गतम् । तस्य ते पृथिवी महिमा पृथिवीव महांस्त्वमोषधयो वनस्पतयः तव रूपम् । अग्निस्तव तेज इति गृहीत्वा जुहोति । तस्मा इत्यादि । गतम् ॥
इति सप्तमे पञ्चमे सप्तदशोनुवाकः ॥