पुरो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैनं॑ करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑तु॒र्द्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑तिष्ठति॒ पुनः॒ समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति स॒मूह्याव॑ द्यति॒ यथाऽऽवि॑द्धं निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं ॅवा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैनं॑ पाति॒ ( ) यो वा॑ मिन्द्रा वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तं ॅवा॑ मे॒ तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्-मु॑ञ्चति ॥
पदपाठः (Word-by-word)
पु॒रो॒डाश᳚म् । अवेति॑ । द॒धा॒ति॒ । आ॒त्म॒न्वन्त॒मित्या᳚त्मन्न् - वन्त᳚म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । अथो॒ इति॑ । आ॒यत॑नवन्त॒मित्या॒यत॑न - व॒न्त॒म् । ए॒व । च॒तु॒र्द्धेति॑ चतुः - धा । वीति॑ । ऊ॒ह॒ति॒ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । पुनः॑ । समिति॑ । ऊ॒ह॒ति॒ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । अ॒स्मै॒ । भे॒ष॒जम् । क॒रो॒ति॒ । स॒मूह्येति॑ सं - ऊह्य॑ । अवेति॑ । द्य॒ति॒ । यथा᳚ । आवि॑द्ध॒मित्या - वि॒द्ध॒म् । नि॒ष्कृ॒न्ततीति॑ निः - कृ॒न्तति॑ । ता॒दृक् । ए॒व । तत् । यः । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒विती᳚न्द्रा - व॒रु॒णौ॒ । अ॒ग्नौ । स्रामः॑ । तम् । वा॒म् । ए॒तेन॑ । अवेति॑ । य॒जे॒ । इति॑ । आ॒ह॒ । दुरि॑ष्ट्या॒ इति॒ दुः - इ॒ष्ट्याः॒ । ए॒व । ए॒न॒म् । पा॒ति॒ ( ) । यः । वा॒म् । इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ । द्वि॒पाथ्स्विति॑ द्वि॒पात् - सु॒ । प॒शुषु॑ । स्रामः॑ । तम् । वा॒म् । ए॒तेन॑ । अवेति॑ । य॒जे॒ । इति॑ । आ॒ह॒ । ए॒ताव॑तीः । वै । आपः॑ । ओष॑धयः । वन॒स्पत॑यः । प्र॒जा इति॑ प्र - जाः । प॒शवः॑ । उ॒प॒जी॒व॒नीया॒ इत्यु॑प - जी॒व॒नीयाः᳚ । ताः । ए॒व । अ॒स्मै॒ । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒ञ्च॒ति॒ ॥