-र॑वप॒त् तेनै॒वैन॒मग्रं॑ दे॒वता॑नां॒ पर्य॑णयद् बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद् बु॒द्ध्ना-दे॒वैन॒मग्रं॒ पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात् तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒क-मेका॑दशकपालं॒ निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रꣳ॑ समा॒नानां॒ परि॑णयति बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒द्ध्नादे॒वैन॒मग्रं॒ [ ]
पदपाठः (Word-by-word)
अ॒व॒प॒त् । तेन॑ । ए॒व । ए॒न॒म् । अग्र᳚म् । दे॒वता॑नाम् । परीति॑ । अ॒न॒य॒त् । बु॒द्ध्नव॑ती॒ इति॑ बु॒द्ध्न - व॒ती॒ । अग्र॑वती॒ इत्यग्र॑ - व॒ती॒ । या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या-अ॒नु॒वा॒क्ये᳚ । अ॒क॒रो॒त् । बु॒द्ध्नात् । ए॒व । ए॒न॒म् । अग्र᳚म् । परीति॑ । अ॒न॒य॒त् । यः । रा॒ज॒न्यः॑ । आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः । स्यात् । तस्मै᳚ । ए॒तम् । ऐ॒न्द्रम् । आ॒नु॒षू॒कमित्या॑नु - सू॒कम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । इन्द्र᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । अग्र᳚म् । स॒मा॒नाना᳚म् । परीति॑ । न॒य॒ति॒ । बु॒द्ध्नव॑ती॒ इति॑ बु॒द्ध्न - व॒ती॒ । अग्र॑वती॒ इत्यग्र॑ - व॒ती॒ । या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ । भ॒व॒तः॒ । बु॒द्ध्नात् । ए॒व । ए॒न॒म् । अग्र᳚म् ।